श्रीभाष्यकारस्तुतिश्लोकाः
श्रीसुदर्शनसूरिभिरनुगृहीताः
॥ श्रीः ॥
॥ श्रीमते रामानुजाय नमः ॥
॥ श्रीमते सुदर्शनसूरये नमः ॥
यतीन्द्रकृतभाष्यार्था यद्व्याख्यानेन दर्शिताः ।
व्यासं सुदर्शनार्यं तं वन्दे कूरकुलाधिपम् ॥
तस्मै रामानुजार्याय नमः परमयोगिने ।
यः श्रुतिस्मृतिसूत्राणां अन्तर्ज्वरमशीशमत् ॥ १॥
प्रपद्ये प्रणवाकारं भाष्यं रङ्गमिवापरम् ।
परस्य ब्रह्मणो यत्र शेषित्वं स्फुटमीक्ष्यते ॥ २॥
अविस्तृतास्सुगम्भीराः रामानुजमुनेर्गिरः ।
दर्शयन्तु प्रसादेन स्वं भावमखिलं दृढम् ॥ ३॥
भाष्यं चेत् व्यवृणोत् स्वयं यतिपतिः व्याख्यानवाचां तथा
गाम्भीर्यादनवस्थितिः मितमतिर्दूरे जनस्तद्गिराम् ।
प्रष्टव्यः कथमीश्वरः स हि न नः प्रत्यक्षरूपो दृशां
तद्भाष्यं स च भाष्यकृत् स च हरिः सम्यक् प्रसीदन्तु नः ॥ ४॥
(श्रुतप्रकाशिकायां)
इति श्रीसुदर्शनसूरिभिरनुगृहीताः श्रीभाष्यकारस्तुतिश्लोकाः सम्पूर्णाः ।
यतीन्द्रकृतभाष्यार्था यद्व्याख्यानेन दर्शिताः ।
व्यासं सुदर्शनार्यं तं वन्दे कूरकुलाधिपम् ॥
॥ श्रीमते सुदर्शनसूरये नमः ॥
Proofread by Aruna Narayanan