भारतीमङ्गलस्तोत्रम्
ऋषीणां दीक्षया दृष्ट्या राष्ट्रीकृत-वसुन्धरा ।
ऋतम्भरा तद्भारती संमृद्धा मङ्गलास्तु नः ॥ १॥
हिमवान् मूर्ध्नि कोटीरः सागरं पादनूपुरम् ।
गङ्गाभरण-भारती संमृद्धा मङ्गलास्तु नः ॥ २॥
नारायणसखाः नराः नार्यो लक्ष्मीविभूतयः ।
गेहे गेहे तद्भारती संमृद्धा मङ्गलास्तु नः ॥ ३॥
अर्जुनप्रभृतिवीर-प्रसूर्राजर्षिशासिता ।
विश्वबन्धुत्वभारती संमृद्धा मङ्गलास्तु नः ॥ ४॥
यत्र ब्रह्माण्डनाथोऽपि मुदा बालायते मुहुः ।
भक्तिप्रभाव-भारती संमृद्धा मङ्गलास्तु नः ॥ ५॥
विश्वमानवशासनं गीताख्यं यत्र घोषितम् ।
धर्मक्षेत्रात्मभारती संमृद्धा मङ्गलास्तु नः ॥ ६॥
व्यासव्यवस्थिता मध्ये शङ्काराचार्यसेविता ।
प्रस्थानत्रयभारती संमृद्धा मङ्गलास्तु नः ॥ ७॥
वसिष्टादि-विवेकान्त-महापुरुष-पूजिता ।
वेदान्तप्राणभारती संमृद्धा मङ्गलास्तु नः ॥ ८॥
अश्वक्रान्ता रथक्रान्ता विष्णुक्रान्तापि भारती ।
गुरोः संवित्पदाक्रान्ता संमृद्धा मङ्गलास्तु नः ॥ ९॥
इति भारतीमङ्गलस्तोत्रं सम्पूर्णम् ।
Proofread by Narendran Madathil