भारततीर्थस्मरणम्
स्मरामि शतद्रु सिन्धुं चन्द्रभागां सरस्वतीम् ।
विपाशां यमुनां गङ्गामुत्तरस्थान् सुरापगान् ॥ १॥
नमामि शारदां शोणां कौशिकीं गण्डकी तथा ।
सरयूं गोमतीं पूर्वे ब्रह्मपुत्रां महानदीम् ॥ २॥
मध्ये चर्मण्वतीं क्षिप्रां सेवे वेत्रवतीं महीम् ।
शरावतीं च पश्चिमे नर्मदां तपतीं श्रये ॥ ३॥
याम्ये गोदावरीं कृष्णां कावेरीं ताम्रपर्णिकाम् ।
तुङ्गभद्रां भजे पूर्णां शङ्कराचार्यपूजिताम् ॥ ४॥
सायं प्रातः स्मरेन्नित्यं सादरं चित्तशुद्धये ।
भारतोद्धाराकान् तीर्थान् संवित् स्फूर्तिप्रदायकान् ॥ ५॥
इति भारततीर्थस्मरणं सम्पूर्णम् ।
Proofread by Narendran Madathil