देवैः कृता ब्रह्मस्तुतिः

देवैः कृता ब्रह्मस्तुतिः

देवा ऊचुः - लोकेश तारको दैत्यो वरेण तव दर्पितः । निरस्यास्मान् हठादस्मद्विषयान् स्वयमग्रहीत् ॥ ६८॥ रात्रिन्दिवं बाधतेऽस्मान् यत्र तत्र स्थिता वयम् । पलायिताश्च पश्यामः सर्वकाष्ठासु तारकम् ॥ ६९॥ अग्निर्यमोऽथ वरुणो निर्-ऋतिर्वायुरेव च । तथा मनुष्यधर्मा च सर्वैः अरिकरैर्युतः ॥ ७०॥ एते तेनार्दिता ब्रह्मन् देवास्तस्यैव शासनात् । अनिच्छाकार्यनिरताः सर्वे तस्यानुजीविनः ॥ ७१॥ या देववनिताः स्वर्गे ये चाप्यप्सरसां गणाः । तान् सर्वानग्रहीद्दैत्यः सारं लोकेषु यच्च यत् ॥ ७२॥ न यज्ञाः सम्प्रवर्तन्ते न तपस्यन्ति तापसाः । दानधर्मादिकं किञ्चिद् न लोकेषु प्रवर्तते ॥ ७३॥ तस्य सेनापतिः पापः क्रौञ्चो नामास्ति दानवः । स पातालतलं गत्वा बाधतेऽहर्निशं प्रजाः ॥ ७४॥ तस्मात् तु तारकेणेडं सकलं भुवनत्रयम् । हृतं सर्वं जगत् त्राहि पापात्तस्मात् पितामह ॥ ७५॥ वयं च यत्र स्थास्यामस्तत्स्थानं विनिदेशय । स्वस्थानाच्च्यावितास्तेन लोकनाथ जगद्गुरो ॥ ७६॥ त्वं नो गतिश्च शास्त्रा च त्वं नस्त्राता पिता प्रसूः । त्वमेव भुवनानां च स्थापकः पालकः कृती ॥ ७७॥ तस्माद् यावत्तारकाख्ये वह्नौ दग्धाः प्रजापते । न भवामस्तथा कर्तुं भवता युज्यतेऽधुना ॥ ७८॥ इति कालिकापुराणे द्विचत्वारिंशाध्यायान्तर्गता देवैः कृता ब्रह्मस्तुतिः समाप्ता । Proofread by PSA Easwaran
% Text title            : Devaih Krita Brahma Stuti
% File name             : brahmastutiHdevaiHkRRitA.itx
% itxtitle              : brahmastutiH devaiHkRitA (kAlikApurANAntargatA)
% engtitle              : brahmastutiH devaiHkRitA
% Category              : deities_misc, stuti
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : Kalikapurana Adhyaya 42 shloka 68-78
% Indexextra            : (Parts 1, 2) 
% Latest update         : January 15, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org