बुद्धचरितम्
Book I [भगवत्प्रसूतिः]
श्रियं परार्ध्यां विदधद्विधातृजित् तमो निरस्यन्नभिभूतभानुभृत् ।
नुदन्निदाघं जितचारुचन्द्रमाः स वन्द्यतेऽर्हन्निह यस्य नोपमा ॥ १।१*
आसीद्विशालोन्नतसानुलक्ष्म्या पयोदपङ्क्त्येव परीतपार्श्वम् ।
उदग्रधिष्ण्यं गगणेऽवगाढं पुरं महर्षेः कपिलस्य वस्तु ॥ १।२*
सितोन्नतेनेव नयेन हृत्वा कैलासशैलस्य यदभ्रशोभाम् ।
भ्रमादुपेतान् वहदम्बुवाहान् संभावनां वा सफलीचकार ॥ १।३*
रत्नप्रभोद्भासिनि यत्र लेभे तमो न दारिद्र्यमिवावकाशम् ।
परार्ध्यपौरैः सहवासतोषात् कृतस्मितेवातिरराज लक्ष्मीः ॥ १।४*
यद्वेदिकातोरणसिंहकर्णैरत्नैर्दधानं प्रतिवेशम शोभाम् ।
जगत्यदृष्ट्वेव समानमन्यत्स्पर्धां स्वगेहैर्मिथ एव चक्रे ॥ १।५*
रामामुखेन्दून् परिभूतपद्मान् यत्रापयातोऽप्यविमन्य भानुः ।
सन्तापयोगादिव वारि वेष्टुं पश्चात्समुद्राभिमुखः प्रतस्थे ॥ १।६*
शक्यार्जितानां यशसां जनेन दृष्ट्वान्तभावं गमितोऽयमिन्द्रः ।
इति ध्वजैश्चारुचलत्पताकैर्यन्मार्ष्टुमस्याङ्कमिवोदयच्छत् ॥ १।७*
कृत्वापि रात्रौ कुमुदप्रहासमिन्दोः करैर्यद्रजतालयस्थैः ।
सौवर्णहर्म्येषु गतार्कपादैर्दिवा सरोजद्युतिमाललम्बे ॥ १।८*
महीबृतां मूर्ध्नि कृताभिषेकः शुद्धोदनो नाम नृपोऽर्कबन्धुः ।
अध्याशयो वा स्फुटपुदरीकं पुराधिराजं तदलञ्चकार ॥ १।९*
भूभृत्परार्ध्योऽपि सपक्ष एव प्रवृत्तदानोऽपि मदानुपेतः ।
ईशोऽपि नित्यं समडृष्टिपातः सौम्यस्वभावोऽपि पृथुप्रतापः ॥ १।१०*
भुजेन यस्याभिहताः पतन्तो द्विषद्द्विपेन्द्राः समराङ्गणेषु ।
उद्वान्तमुक्ताप्रकरैः शिरोभिर्भक्त्येव पुष्पाञ्जलिभिः प्रणेमुः ॥ १।११*
अतिप्रतापादवधूय शत्रून्महोपरागानिव तिग्मभानुः ।
उद्योतयामास जनं समन्तात्प्रदर्शयन्नाश्रयणीयमार्गान् ॥ १।१२*
धर्मार्थकामा विषयं मिथोऽन्यं न वेशमाचक्रमुरस्य नीत्या ।
विस्पर्धमाना इव तूग्रसिद्धेः सुगोचरे दीप्ततरा बभूवुः ॥ १।१३*
उदारसङ्ख्यैः सचिवाइरसङ्ख्यैः कृताग्रभावः स उदग्रभावः ।
शशी यथा भैरकृतान्यथाभैः शक्येन्द्रराजः सुतरां रराज ॥ १।१४*
तस्यातिशोभाविसृतातिशोभा रविप्रभेवास्ततमः प्रभावा ।
समग्रदेवीनिवहाग्रदेवी बभूव मायापगतेव माया ॥ १।१५*
प्रजासु मातेव हितप्रवृत्ता गुरौ जने भक्तिरिवानुवृत्ता ।
लक्ष्मीरिवाधीशकुले कृताभा जगत्यभूदुत्तमदेवता या ॥ १।१६*
कामं सदा स्त्रीचरितं तमिस्रं तथापि तां प्रप्य भृशं विरेजे ।
न हीन्दुलेखामुपगम्य शुभां नक्तं तथा सन्तमसत्वमेति ॥ १।१७*
अतीन्द्रियेनात्मनि दुष्कुहोऽयं मया जनो योजयितुं न शक्यः ।
इतीव सूक्ष्मां प्रकृतिं विहाय धर्मेण साक्षाद्विहिता स्वमूर्तिः ॥ १।१८*
च्युतोऽथ कायात्तुषितात् त्रिलोकीमुद्योतयन्नुत्तमबोधिसत्त्वः ।
विवेश तस्याः स्मृत एव कुक्षौ नन्दागुहायामिव नागराजः ॥ १।१९*
धृत्वा हिमाद्रिधवलं गुरु षड्विषाणां
दानाधिवासितमुखं द्विरदस्य रूपम् ।
शुद्धोदनस्य वसुधाधिपतेर्महिष्याः
कुक्षिं विवेश स जगद्व्यसनक्षयाय ॥ १।२०*
रक्षाविधानं प्रति लोकपाला लोकैकनाथस्य दिवोऽभिजग्मुः ।
सर्वत्र भान्तोऽपि हि चन्द्रपादा भजन्ति कैलासगिरौ विशेषम् ॥ १।२१*
मयापि तं कुक्षिगतं दधाना विद्युद्विलासं जलदावलीव ।
दानाभिवर्षैः परितो जनानां दारिद्र्यतापं शमयाञ्चकार ॥ १।२२*
सातः पुरजना देवी कदाचिदथ लुम्बिनीम् ।
जगामानुमते राज्ञः सम्भूतोत्तमदोहदा ॥ १।२३*
शाखामालम्बमानायाः पुष्पभारावलंबिनीम् ।
देव्याः कुक्षिं विभिद्याशु बोधिसत्त्वो विनिर्ययौ ॥ १।२४*
ततः प्रसन्नश्च बभूव पुष्यस्तस्याश्च देव्या व्रतसंस्कृतायाः ।
पार्श्वात्सुतो लोकहिताय जज्ञे निर्वेदनं चैव निरामयं च ॥ १।२५ (१।९)
प्रातः पयोदादिव तिग्मभानुः समुद्भवन्सोऽपि च मातृकुक्षेः ।
स्फुरन्मयूखैर्विहतान्धकारैश्चकार लोकं कनकावदातम् ॥ १।२६*
तं जातमात्रमथ काञ्चनयूपगौरं
प्रीतः सहस्रनयणः शनकैरगृह्णात्
मन्दारपुष्पनिकरैः सह तस्य मूर्ध्नि
खान्निर्मले च विनिपेततुरम्बुधारे ॥ १।२७*
सुरप्रधानैः परिधार्यमाणो देहांशुजालैरनुरञ्जयंस्तान् ।
सन्ध्याभ्रजालोपरिसन्निविष्टं नवोडुराजं विजिगाय लक्ष्म्या ॥ १।२८*
ऊरोर्यथौर्वस्य पृथोश्च हस्तान्मान्धातुरिन्द्रप्रतिमस्य मूर्ध्नः ।
कक्षीवतश्चैव भुजांसदेशात्तथाविधं तस्य बभूव जन्म ॥ १।२९ (१।१०)
क्रमेण गर्भादभिनिःसृतः सन् बभौ गतः खादिव योन्यजातः ।
कल्पेष्वनेकेष्विव भावितात्मा यः सम्प्रजानन् सुषुवे न मूढः ॥ १।३० (१।११)
दीप्त्या च धैर्येण च यो रराज बालो रविर्भूमिमिवावतीर्णः ।
तथातिदीप्तोऽपि निरीक्ष्यमाणो जहार चक्षूंषि यथा शशाङ्कः ॥ १।३१ (१।१२)
स हि स्वगात्रप्रभयोज्ज्वलन्त्या दीपप्रभां भास्करवन्मुमोष ।
महार्हजाम्बूनदचारुवर्णो विद्योतयामास दिशश्च सर्वाः ॥ १।३२ (१।१३)
अनाकुलान्यब्जसमुद्गतानि निष्पेषवन्त्यायतविक्रमाणि ।
तथैव धीराणि पदानि सप्त सप्तर्षितारासदृशो जगाम ॥ १।३३ (१।१४)
बोधाय जातोऽस्मि जगद्धितार्थमन्त्या तथोत्पत्तिरियं ममेति ।
चतुर्दिशं सिंहगतिर्विलोक्य वाणीं च भव्यार्थकरीमुवाच ॥ १।३४ (१।१५)
खात्प्रस्रुते चन्द्रमरीचिशुभ्रे द्वे वारिधारे शिशिरोष्णवीर्ये ।
शरीरसौख्यार्थमनुत्तरस्य निपेततुर्मूर्धनि तस्य सौम्ये ॥ १।३५ (१।१६)
श्रीमद्विताने कनकोज्ज्वलाङ्गे वैडूर्यपादे शयने शयानम् ।
यद्गौरवात्काञ्चनपद्महस्ता यक्षाधिपाः सम्परिवार्य तस्थुः ॥ १।३६ (१।१७)
मायातनूजस्य दिवौकसः खे यस्य प्रभावात्प्रणतैः शिरोभिः ।
आधारयन् पाण्डरमातपत्रं बोधाय जेपुः परमाशिषश्च ॥ १।३७ (१।१८)
महोरगा धर्मविशेषतर्षाद्बुद्धेष्वतीतेषु कृताधिकाराः ।
यमव्यजन् भक्तिविशिष्टनेत्रा मन्दारपुष्पैः समवाकिरंश्च ॥ १।३८ (१।१९)
तथागतोत्पादगुणेन तुष्टाः शुद्धाधिवासाश्च विशुद्धसत्त्वाः ।
देवा ननन्दुर्विगतेऽपि रागे मग्नस्य दुःखे जगतो हिताय ॥ १।३९ (१।२०)
यस्मिन् प्रसूते गिरिराजकीला वाताहता नौरिव भूश्चचाल ।
सचन्दना चोत्पलपद्मगर्भा पपात वृष्टिर्गगणादनभ्रात् ॥ १।४० (१।२१)
वाता ववुः स्पर्शसुखा मनोज्ञा दिव्यानि वासांस्यवपातयन्तः ।
सूर्यः स एवाभ्यधिकं चकाशे जज्वाल सौम्यार्चिरनीरितोऽग्निः ॥ १।४१ (१।२२)
प्रागुत्तरे चावसथप्रदेशे कूपः स्वयं प्रादुरभूत्सिताम्बुः ।
अन्तः पुराण्यागतविस्मयानि यस्मिन् क्रियास्तीर्थ इव प्रचक्रुः ॥ १।४२ (१।२३)
धर्मार्थिभिर्भूतगणैश्च दिव्यैस्तद्दर्शनार्थं बलमाप पूरः ।
कौतूहलेनैव च पादपैश्च प्रपूजयामास सगन्धपुष्पैः ॥ १।४३ (१।२४)
पुष्पदुमाः स्वं कुसुमं पुकुल्लुः ससीरणोद्रामितदिक्सुगन्धि ।
सुसम्भ्रमद्नृगवधूपगीतं भुजङ्गंवृदापिहितात्तवातम् ॥ १।४४*
क्वचित् क्वणत्तूर्यमृदङ्गगीतैर्वीणामुकुन्दामुरजादिभिश्च ।
स्वीणां चलत्कुण्डलभूषितानां विराजितं चोभयपार्श्चतस्तत् ॥ १।४५*
यद्राजशास्त्रं भृगुरङ्गिरा वा न चक्रतुर्वंशकरावृषी तौ ।
तयोः सुतौ तौ च ससर्जतुस्तत्कालेन शुक्रश्च बृहस्पतिश्च ॥ १।४६ (१।४१)
सारस्वतश्चापि जगाद नष्टं वेदं पुनर्यं ददृशुर्न पूर्वम् ।
व्यासस्तथैनं बहुधा चकार न यं वशिष्ठः कृतवानशक्तिः ॥ १।४७ (१।४२)
वाल्मीकिनादश्च ससर्ज पद्यं जग्रन्थ यन्न च्यवनो महार्षिः ।
चिकित्सितं यच्छ चकार नात्रिः पश्चात्तदात्रेय ऋषिर्जगाद ॥ १।४८ (१।४३)
यच्च द्विजत्वं कुशिको न लेभे तद्गाधनः सूनुरवाप राजन् ।
वेलां समुद्रे सगरश्च दध्रे नेक्ष्वाकवो यां प्रथमं बबन्धुः ॥ १।४९ (१।४४)
आचार्यकं योगविधौ द्विजानामप्राप्तमन्यैर्जनको जगाम ।
ख्यातानि कर्माणि च यानि शौरैः शूरादयस्तेष्वबला बभूवुः ॥ १।५० (१।४५)
तस्मात्प्रमाणं न वयो न कालः कश्चित्क्वचिच्छ्रैष्ठ्यमुपैति लोके ।
राज्ञामृषीणां च हितानि तानि कृतानि पुत्रैरकृतानि पूर्वैः ॥ १।५१ (१।४६)
एवं नृपः प्रत्ययितैर्द्विजैस्तैराश्वासितश्चाप्यभिनन्दितश्च ।
शङ्कामनिष्टां विजहौ मनस्तः प्रहर्षमेवाधिकमारुरोह ॥ १।५२ (१।४७)
प्रीतश्च तेभ्यो द्विजसत्तमेभ्यः सत्कारपूर्वं प्रददौ धनानि ।
भूयादयं भूमिपतिर्यथोक्तो यायाज्जरामेत्य वनानि चेति ॥ १।५३ (१।४८)
अथौ निमित्तैश्च तपोबलाच्छ तज्जन्म जन्मान्तकरस्य बुद्ध्वा ।
शाक्येश्वरस्यालयमाजगाम सद्धर्मतर्षादसितो महार्षिः ॥ १।५४ (१।४९)
तं ब्रह्मविद्ब्रह्मविदां ज्वलन्तं ब्राह्म्या श्रिया चैव तपःश्रिया च ।
राज्ञो गुरुर्गौरवसत्क्रियाभ्यां प्रवेशयामास नरेन्द्रसद्म ॥ १।५५ (१।५०)
स पार्थिवान्तःपुरसन्निकर्षं कुमारजन्मागतहर्षवेगम् ।
विवेश धीरो बलसञ्ज्ञयैव तपःप्रकर्षाच्च जराश्रयाच्छ ॥ १।५६ (१।५१)
ततो नृपस्तं मुनिमासनस्थं पाद्यार्घ्यपूर्वं प्रतिपूज्य सम्यक् ।
निमन्त्रयामास यथोपचारं पुरा वसिष्ठं स इवान्तिदेवः ॥ १।५७ (१।५२)
धन्योऽस्म्यनुग्राह्यमिदं कुलं मे यन्मां दिदृक्षुर्भगवानुपेतः ।
आज्ञाप्यतां किं करवाणि सौम्य शिष्योऽस्मि विश्रम्भितुमर्हसीति ॥ १।५८ (१।५३)
एवं नृपेणोपनिमन्त्रितः सन्सर्वेण भावेन मुनिर्यथावत् ।
सविस्मयोत्फुल्लविशालदृष्टिर्गम्भीरधीराणि वचांस्युवाच ॥ १।५९ (१।५४)
महात्मनि त्वय्युपपन्नमेतत् प्रियातिथौ त्यागिनि धर्मकामे ।
सत्त्वान्वयज्ञानवयोऽनुरूपा स्निग्धा यदेवं मयि ते मतिः स्यात् ॥ १।६० (१।५५)
एतच्च तद्येन नृपर्षयस्ते धर्मेण सूक्ष्माणि धनान्यपास्य ।
नित्यं त्यजन्तो विधिवद्बभूवुस्तपोभिराढ्या विभवैर्दरिद्राः ॥ १।६१ (१।५६)
प्रयोजनं यत्तु ममोपयाने तन्मे शृणु प्रीतिमुपेहि च त्वम् ।
दिव्या मया दिव्यपथे श्रुता वाग्बोधाय जातस्तनयस्तवेति ॥ १।६२ (१।५७)
श्रुत्वा वचस्तच्छ मनश्च युक्त्वा ज्ञात्वा निमित्तैश्च ततोऽस्म्युपेतः ।
दिदृक्षया शाक्यकुलध्वजस्य शक्रध्वजस्येव समुच्च्रितस्य ॥ १।६३ (१।५८)
इत्येतदेवं वचनं निशम्य प्रहर्षसम्भ्रान्तगतिर्नरेन्द्रः ।
आदाय धात्र्यङ्कगतं कुमारं सन्दर्शयामास तपोधनाय ॥ १।६४ (१।५९)
चक्राङ्कपादं स तथा महार्षिर्जालावनद्धाङ्गुलिपाणिपादम् ।
सोर्णभ्रुवं वारणवस्तिकोशं सविस्मयं राजसुतं ददर्श ॥ १।६५ (१।६०)
धात्र्यङ्कसंविष्टमवेक्ष्य चैनं देव्यङ्कसंविष्टमिवाग्निसूनुम् ।
बभूव पक्ष्मान्तरिवाञ्चिताश्रुर्निश्वस्य चैवं त्रिदिवोन्मुखोऽभूत् ॥ १।६६ (१।६१)
दृष्ट्वासितं त्वश्रुपरिप्लुताक्षं स्नेहात्तु पुत्रस्य नृपश्चकम्पे ।
सगद्गदं बाष्पकषायकण्ठः पप्रच्च च प्राञ्जलिरानताङ्गः ॥ १।६७ (१।६२)
स्वल्पान्तरं यस्य वपुर्मुनेः स्याद्बह्वद्भुतं यस्य च जन्म दीप्तम् ।
यस्योत्तमं भाविनमात्थ चार्थं तं प्रेक्ष्य कस्मात्तव धीर वाष्पः ॥ १।६८ (१।६३)
अपि स्थिरायुर्भगवन् कुमारः कच्चिन्न शोकाय मम प्रसूतः ।
लब्धः कथञ्चित् सलिलाञ्जलिर्मे न खल्विमं पातुमुपैति कालः ॥ १।६९ (१।६४)
अप्यक्षयं मे यशसो निधानं कच्चिद्ध्रुवो मे कुलहस्तसारः ।
अपि प्रयास्यामि सुखं परत्र सुप्तेऽपि पुत्रेऽनिमिषैकचक्षुः ॥ १।७० (१।६५)
कच्चिन्न मे जातमफुल्लमेव कुलप्रबालं परिशोषभागि ।
क्षिप्रं विभो ब्रूहि न मेऽस्ति शान्तिः स्नेहं सुते वेत्सि हि बान्धवानाम् ॥ १।७१ (१।६६)
इत्यागतावेगमनिष्टबुद्ध्या बुद्ध्वा नरेन्द्रं स* मुनिर्बभाषे ।
मा भून्मतिस्ते नृप काचिदन्या निःसंशयं तद्यदवोचमस्मि ॥ १।७२ (१।६७)
नास्यान्यथात्वं प्रति विक्रिया मे स्वां वञ्चनां तु प्रति विक्लवोऽस्मि ।
कालो हि मे यातुमयं च जातो जातिक्षयस्यासुलभस्य बोद्धा ॥ १।७३ (१।६८)
विहाय राज्यं विषयेष्वनास्थस्तीव्रैः प्रयत्नैरधिगम्य तत्त्वम् ।
जगत्ययं मोहतमो निहन्तुं ज्वलिष्यति ज्ञानमयो हि सूर्यः ॥ १।७४ (१।६९)
दुःखार्णवाद्व्याधिविकीर्णफेनाज्जरातरङ्गान्मरणोग्रवेगात् ।
उत्तारयिष्यत्ययमुह्यमानमार्त्तं जगज्ज्ञानमहाप्लवेन ॥ १।७५ (१।७०)
प्रज्ञाम्बुवेगां स्थिरशीलवप्रां समाधिशीतां व्रतचक्रवाकाम् ।
अस्योत्तमां धर्मनदीं प्रवृत्तां तृष्णार्दितः पास्यति जीवलोकः ॥ १।७६ (१।७१)
दुःखार्दितेभ्यो विषयावृतेभ्यः संसारकान्तारपथस्थितेभ्यः ।
आख्यास्यति ह्येष विमोक्षमार्गं मार्गप्रनष्टेभ्य इवाध्वगेभ्यः ॥ १।७७ (१।७२)
विदह्यमानाय जनाय लोके रागाग्निनायं विषयेन्धनेन ।
प्रह्लादमाधास्यति धर्मवृष्ट्या वृष्ट्या महामेघ इवातपान्ते ॥ १।७८ (१।७३)
तृष्णार्गलं मोहतमःकपाटं द्वारं प्रजानामपयानहेतोः ।
विपाटयिष्यत्ययमुत्तमेन सद्धर्मताडेन दुरासदेन ॥ १।७९ (१।७४)
स्वैर्मोहपाशैः परिवेष्टितस्य दुःखाभिभूतस्य निराश्रयस्य ।
लोकस्य सम्बुध्य च धर्मराजः करिष्यते बन्धनमोक्षमेषः ॥ १।८० (१।७५)
तन्मा कृथाः शोकमिमं प्रति त्वम् तत्सौम्य शोच्ये हि मनुष्यलोके ।
मोहेन वा कामसुखैर्मदाद्वा यो नैष्ठिकं श्रोष्यति नास्य धर्मम् ॥ १।८१ (१।७६)
भ्रष्टस्य तस्माच्च गुणादतो मे ध्यानानि लब्ध्वाप्यकृतार्थतैव ।
धर्मस्य तस्याश्रवणादहं हि मन्ये विपत्तिं त्रिदिवेऽपि वासम् ॥ १।८२ (१।७७)
इति श्रुतार्थः ससुहृत्सदारस्त्यक्त्वा विषादं मुमुदे नरेन्द्रः ।
एवंविधोऽयं तनयो ममेति मेने स हि स्वामपि सारमत्ताम् ॥ १।८३ (१।७८)
आर्येण मार्गेण तु यास्यतीति चिन्ताविधेयं हृदयं चकार ।
न खल्वसौ न प्रियधर्मपक्षः सन्ताननाशात्तु भयं ददर्श ॥ १।८४ (१।७९)
अथ मुनिरसितो निवेद्य तत्त्वं सुतनियतं सुतविक्लवाय राज्ञे ।
सबहुमतमुदीक्ष्यमाणरूपः पवनपथेन यथागतं जगाम ॥ १।८५ (१।८०)
कृतमतिरनुजासुतं च दृष्ट्वा मुनिवचनश्रवणे पि तन्मतौ च ।
बहुविधमनुकम्पया स साधुः प्रियसुतवद्विनियोजयाञ्चकार ॥ १।८६ (१।८१)
नरपतिरपि पुत्रजन्मतुष्टो विषयमतानि विमुच्य बन्धनानि ।
कुलसदृशमचीकरद्यथावत्प्रियतनयं तनयस्य जातकर्म ॥ १।८७ (१।८२)
दशसु परिणतेष्वहःसु चैवं प्रयतमनाः परया मुदा परीतः ।
अकुरुत जपहोममङ्गलाद्याः परमतमाः स सुतस्य देवतेज्याः ॥ १।८८ (१।८३)
अपि च शतसहस्रपूर्णसङ्ख्याः स्थिरबलवत्तनयाः सहेमशृङ्गीः ।
अनुपगतजराः पयस्विनीर्गाः स्वयमददात्सुतवृद्धये द्विजेभ्यः ॥ १।८९ (१।८४)
बहुविधविषयास्ततो यतात्मा स्वहृदयतोषकरीः क्रिया विधाय ।
गुणवति दिवसे शिवे मुहूर्ते मतिमकरोन्मुदितः पुरप्रवेशे ॥ १।९० (१।८५)
द्विरदरदमयीमथो महार्हां सितसितपुष्पभृतां मणिप्रदीपाम् ।
अभजत शिविकां शिवाय देवी तनयवती प्रणिपत्य देवताभ्यः ॥ १।९१ (१।८६)
पुरमथ पुरतः प्रवेश्य पत्नीं स्थविरजनानुगतामपत्यनाथाम् ।
नृपतिरपि जगाम पौरसङ्घैर्दिवममरैर्मघवानिवार्च्यमानः ॥ १।९२ (१।८७)
भवनमथ विगाह्य शाक्यराजो भव इव षण्मुखजन्मना प्रतीतः ।
इदमिदमिति हर्षपूर्णवक्त्रो बहुविधपुष्टियशस्करं व्यधत्त ॥ १।९३ (१।८८)
इति नरपतिपुत्रजन्मवृद्ध्या सजनपदं कपिलाह्वयं पुरं तत् ।
धनदपुरमिवाप्सरोऽवकीर्णं मुदितमभून्नलकूवरप्रसूतौ ॥ १।९४ (१।८९)
इति श्रीबुद्धचरिते महाकाव्ये भगवत्प्रसूतिर्नाम प्रथमः सर्गः ॥ १ ॥
Book II [आन्तःपुरविहारो]
आ जन्मनो जन्मजरान्तकस्य तस्यात्मजस्यात्मजितः स राजा ।
अहन्यहन्यर्थगजाश्वमित्रैर्वृद्धिं ययौ सिन्धरिवाम्बुवेगैः ॥ २।१
धनस्य रत्नस्य च तस्य तस्य कृताकृतस्यैव च काञ्चनस्य ।
तदा हि नैकात्मनिधीनवापि मनोरथस्याप्यतिभारभूतान् ॥ २।२
ये पद्मकल्पैरपि च द्विपेन्द्रैर्न मण्डलं शक्यमिहाभिनेतुम् ।
मदोत्कटा हैमवता गजास्ते विनापि यत्नादुपतस्थुरेनम् ॥ २।३
नानाङ्कचिह्नैर्नवहेमभाण्डैरभूषितैर्लम्बसटैस्तथान्यैः ।
सञ्चुक्षुभे चास्य पुरं तुरङ्गैर्बलेन मैत्र्या च धनेन चाप्तैः ॥ २।४
पुष्टाश्च तुष्टाश्च तदास्य राज्ये साध्व्योऽरजस्का गुणवत्पयस्काः ।
उदग्रवत्सैः सहिता बभूवुर्बह्व्यो बहुक्षीरदुहश्च गावः ॥ २।५
मध्यस्थतां तस्य रिपुर्जगाम मध्यस्वभावः प्रययौ सुहृत्त्वम् ।
विशेषतो दार्ढ्यमियाय मित्रं द्वावस्य पक्षावपरस्तु नाशम् ॥ २।६
तथास्य मन्दानिलमेघशब्दः सौदामिनीकुण्डलमण्डिताङ्गः ।
विनाश्मवर्षाशनिपातदोषैः काले च देशे प्रववर्ष देवः ॥ २।७
रुरोह संयक् फलवद्यथार्तु तदाकृतेनापि कृषिश्रमेण ।
ता एव चैवौषधयो रसेन सारेण चैवाभ्यधिका बभूवुः ॥ २।८
शरीरसन्देहकरेऽपि काले सङ्ग्रामसम्मर्द इव प्रवृत्ते ।
स्वस्थाः सुखं चैव निरामयं च प्रजज्ञिरे गर्भधराश्च नार्यः ॥ २।९
यच्च प्रतिभ्वो विभवेऽपि शक्ये न प्रार्थयन्ति स्म नराः परेभ्यः ।
अभ्यर्थितः सूक्ष्मधनोऽपि चायं तदा न कश्चिद्विमुखो बभूव ॥ २।१०
नाशे वधो बन्धुषु नाप्यदाता नैवाव्रतो नानृतिको न हिंस्रः ।
आसीत्तदा कश्चन तस्य राज्ये राज्ञो ययातेरिव नाहुषस्य ॥ २।११
उद्यानदेवायतनाश्रमाणां कूपप्रपापुष्करिणीवनानाम् ।
चक्रुः क्रियास्तत्र च धर्मकामाः प्रत्यक्षतः स्वर्गमिवोपलभ्य ॥ २।१२
मुक्तश्च दुर्भिक्षभयामयेभ्यो हृष्टो जनः स्वर्गमिवाभिरेमे ।
पत्नीं पतिर्वा महिषी पतिं वा परस्परं न व्यभिचेरतुश्च ॥ २।१३
कश्चित्सिषेवे रतये न कामं कामार्थमर्थं न जुगोप कश्चित् ।
कश्चिद्धनार्थं न चचार धर्मं धर्माय कश्चिन्न चकार हिंसाम् ॥ २।१४
स्तेयादिभिश्चाप्यभितश्च नष्टं स्वस्थं स्वचक्रं परचक्रमुक्तम् ।
क्षेमं सुभिक्षं च बभूव तस्य पुराण्यरण्यानि यथैव राष्ट्रे ॥ २।१५
तदा हि तज्जन्मनि तस्य राज्ञो मनोरिवादित्यसुतस्य राज्ये ।
चचार हर्षः प्रणनाश पाप्मा जज्वाल धर्मः कलुषः शशाम ॥ २।१६
एवंविधा राजसुतस्य तस्य सर्वार्थसिद्धिश्च यतो बभूव ।
ततो नृपस्तस्य सुतस्य नाम सर्वार्थसिद्धोऽयमिति प्रचक्रे ॥ २।१७
देवी तु माया विबुधर्षिकल्पं दृष्ट्वा विशालं तनयप्रभावम् ।
जातं प्रहर्षं न शशाक सोढुं ततोऽविनाशाय दिवं जगाम ॥ २।१८
ततः कुमारं सुरगर्भकल्पं स्नेहेन भावेन च निर्विशेषम् ।
मातृष्वसा मातृसमप्रभावा संवर्धयामात्मजवद्बभूव ॥ २।१९
ततः स बालार्क इवोदयस्थः समीरितो वह्निरिवानिलेन ।
क्रमेण सम्यग्ववृधे कुमारस्ताराधिपः पक्ष इवातमस्के ॥ २।२०
ततो महार्हाणि च चन्दनानि रत्नावलीश्चौषधिभिः सगर्भाः ।
मृगप्रयुक्तान्रथकांश्च हैमानाचक्रिरेऽस्मै सुहृदालयेभ्यः ॥ २।२१
वयोऽनुरूपाणि च भूषणानि हिरण्मया हस्तिमृगाश्वकाश्च ।
रथाश्च गावो वसनप्रयुक्ता गन्त्रीश्च चामीकररूप्यचित्राः ॥ २।२२
एवं स तैस्तैर्विषयोपचारैर्वयोऽनुरूपैरुपचर्यमाणः ।
बालोऽप्यबालप्रतिमो बभूव धृत्या च शौचेन धिया श्रिया च ॥ २।२३
वयश्च कौमारमतीत्य मध्यं सम्प्राप्य बालः स हि राजसूनुः ।
अल्पैरहोभिर्बहुवर्षगम्या जग्राह विद्याः स्वकुलानुरूपाः ॥ २।२४
नैःश्रेयसं तस्य तु भव्यमर्थं श्रुत्वा पुरस्तादसितान्महार्षेः ।
कामेषु सङ्गं जनयाम्बभूव वृद्धिर्भवच्चाक्यकुलस्य राज्ञः ॥ २।२५
कुलात्ततोऽस्मै स्थिरशीलयुक्तात्साध्वीं वपुर्ह्रीविनयोपपन्नाम् ।
यशोधरां नाम यशोविशालां तुल्याभिधानं श्रियमाजुहाव ॥ २।२६
अथापरं भूमिपतेः प्रियोऽयं सनत्कुमारप्रतिमः कुमारः ।
सार्धं तया शाक्यनरेन्द्रवध्वा शच्या सहस्राक्ष इवाभिरेमे ॥ २।२७
किञ्चिन्मनःक्षोभकरं प्रतीपं कथञ्च पश्येदिति सोऽनुचिन्त्य ।
वासं नृपो ह्यादिशति स्म तस्मै हर्म्योदरेष्वेव न भूप्रचारम् ॥ २।२८
ततः शरत्तोयदपाण्डरेषु भूमौ विमानेष्विव रञ्जितेषु ।
हर्म्येषु सर्वर्तुसुखाश्रयेषु स्त्रीणामुदारैर्विजहार तूर्यैः ॥ २।२९
कलैर्हि चामीकरबद्धकक्षैर्नारीकराग्राभिहतैर्मृदङ्गैः ।
वराप्सरोनृत्यसमैश्च नृत्यैः कैलासवत्तद्भवनं रराज ॥ २।३०
वाग्भिः कलाभिर्ललितैश्च हारैर्मदैः सखेलैर्मधुरैश्च हासैः ।
तं तत्र नार्यो रमयाम्बभूवुर्भ्रूवञ्चितैरर्धनिरीक्षितैश्च ॥ २।३१
ततश्च कामाश्रयपण्डिताभिः स्त्रीभिर्गृहीतो रतिकर्कशाभिः ।
विमानपृष्ठान्न महीं जगाम विमानपृष्थादिव पुण्यकर्मा ॥ २।३२
नृपस्तु तस्यैव विवृद्धिहेतोस्तद्भाविनार्थेन च चोद्यमानः ।
शमेऽभिरेमे विरराम पापाद्भेजे दमं संविबभाज साधून् ॥ २।३३
नाधीरवत् कामसुखे ससञ्जे न संररञ्जे विषमं जनन्याम् ।
धृत्येन्द्रियाश्वांश्चपलान् विजिग्ये बन्धूंश्च पौरांश्च गुणैर्जिगाय ॥ २।३४
नाध्यैष्ट दुःखाय परस्य विद्यां ज्ञानं शिवं यत्तु तदध्यगीष्ट ।
स्वाभ्यः प्रजाभ्यो हि यथा तथैव सर्वप्रजाभ्यः शिवमाशशंसे ॥ २।३५
तं भासुरं चाङ्गिरसाधिदेवं यथावदानर्च तदायुषे सः ।
जुहाव हव्यान्यकृशे कृशानौ ददौ द्विजेभ्यः कृशनं च गाश्च ॥ २।३६
सस्नौ शरीरं पवितुं मनश्च तीर्थाम्बुभिश्चैव गुणांबुभिश्च ।
वेदोपदिष्टं सममात्मजं च सोमं पपौ शान्तिसुखं च हार्दम् ॥ २।३७
सान्त्वं बभाषे न च नार्थवद्यज्जजल्प तत्त्वं न च विप्रियं यत् ।
सान्त्वं ह्यतत्वं परुषं च तत्त्वं ह्रियाशकन्नात्मन एव वक्तुम् ॥ २।३८
इष्टेष्वनिष्टेषु च कार्यवत्सु न रागदोषाश्रयतां प्रपेदे ।
शिवं सिषेवेऽव्यवहारलब्धं यज्ञं हि मेने न तथा यथावत् ॥ २।३९
आशावते चाभिगताय सद्यो देयाम्बुभिस्तर्षमचेच्छिदिष्ट ।
युद्धादृते वृत्तपरश्वधेन द्विदर्पमुद्वृत्तमबेभिदिष्ट ॥ २।४०
एकं विनिन्ये स जुगोप सप्त सप्तैव तत्याज ररक्ष पञ्च ।
प्राप त्रिवर्गं बुबुधे त्रिवर्गं जज्ञे द्विवर्गं प्रजहौ द्विवर्गम् ॥ २।४१
कृतागसोऽपि प्रतिपाद्य वध्यान्नाजीघनन्नापि रुषा ददर्श ।
बबन्ध सान्त्वेन फलेन चैतांस्त्यागोऽपि तेषां ह्यनपायदृष्टः ॥ २।४२
आर्षाण्यचारीत्परमव्रतानि वैराण्यहासीच्छिरसम्भृतानि ।
यशांसि चापद्गुणगन्धवन्ति रजांस्यहासीन्मलिनीकराणि ॥ २।४३
न चाजिहीर्षीद्बलिमप्रवृत्तं न चाचिकीर्षीत्परवस्त्वभिध्याम् ।
न चाविवक्षीद्द्विषतामधर्मं न चादिधक्षीद्धृदयेन मन्युम् ॥ २।४४
तस्मिंस्तथा भूमिपतौ प्रवृत्ते भृत्याश्च पौराश्च तथैव चेरुः ।
शमात्मके चेतसि विप्रसन्ने प्रयुक्तयोगस्य यथेन्द्रियाणि ॥ २।४५
काले ततश्चारुपयोधरायां यशोधरायां सुयशोधरायाम् ।
शौद्धोदनेराहुसपत्नवक्त्रो जज्ञे सुतो राहुल एव नाम्ना ॥ २।४६
अथेष्टपुत्रः परमप्रतीतः कुलस्य वृद्धिं प्रति भूमिपालः ।
यथैव पुत्रप्रसवे ननन्द तथैव पौत्रप्रसवे ननन्द ॥ २।४७
पौत्रस्य मे पुत्रगतो ममैव स्नेहः कथं स्यादिति जातहर्षः ।
काले स तं तं विधिमाललम्बे पुत्रप्रियः स्वर्गमिवारुरुक्षन् ॥ २।४८
स्थित्वा पथि प्राथमकल्पिकानां राजर्षभाणां यशसान्वितानाम् ।
शुक्लान्यमुक्त्वापि तपांस्यतप्त यज्ञे च हिंसारहितैरयष्ट ॥ २।४९
अजाज्वलिष्टाथ स पुण्यकर्मा नृपश्रिया चैव तपःश्रिया च ।
कुलेन वृत्तेन धिया च दीप्तस्तेजः सहस्रांशुरिवोत्सिसृक्षुः ॥ २।५०
स्वायम्भुवं चार्चिकमर्चयित्वा जजाप पुत्रस्थितये स्थितश्रीः ।
चकार कर्माणि च दुष्कराणि प्रजाः सिसृक्षुः क इवादिकाले ॥ २।५१
तत्ज्याज शस्त्रं विममर्श शास्त्रं शमं सिषेवे नियमं विषेहे ।
वशीव कञ्चिद्विषयं न भेजे पितेव सर्वान्विषयान् ददर्श ॥ २।५२
बभार राज्यं स हि पुत्रहेतोः पुत्रं कुलार्थं यशसे कुलं तु ।
स्वर्गाय शब्दं दिवमात्महेतोर्धर्मार्थमात्मस्थितिमाचकाङ्क्ष ॥ २।५३
एवं स धर्मं विविधं चकार सद्भिर्निपातं श्रुतितश्च सिद्धम् ।
दृष्ट्वा कथं पुत्रमुखं सुतो मे वनं न यायादिति नाथमानः ॥ २।५४
रिरक्षिषन्तः श्रियमात्मसंस्था रक्षन्ति पुत्रान् भुवि भूमिपालाः ।
पुत्रं नरेन्द्रः स तु धर्मकामो ररक्ष धर्माद्विषयेष्वमुञ्चत् ॥ २।५५
वनमनुपमसत्त्वा बोधिसत्त्वास्तु सर्वे
विषयसुखरसज्ञा जग्मुरुत्पन्नपुत्राः ।
अत उपचितकर्मा रूढमूलेऽपि हेतौ
स रतिमुपसिषेवे बोधिमापन्नयावत् ॥ २।५६
इति श्रीबुद्धचरिते महाकाव्येऽन्तःपुरविहारो नाम द्वितीयः सर्गः ॥ २ ॥
Book III [संवेगोत्पत्तिः]
ततः कदाचिन्मृदुशाद्वलानि पुंस्कोकिलोन्नादितपादपानि ।
शुश्राव पद्माकरमण्डितानि शीते निबद्धानि स काननानि ॥ ३।१
श्रुत्वा ततः स्त्रीजनवल्लभानां मनोज्ञभावं पुरकाननानाम् ।
बहिःप्रयाणाय चकार बुद्धिमन्तर्गृहे नाग इवावरुद्धः ॥ ३।२
ततो नृपस्तस्य निशम्य भावं पुत्राभिधानस्य मनोरथस्य ।
स्नेहस्य लक्ष्म्या वयसश्च योग्याम्-आज्ञापयामास विहारयात्राम् ॥ ३।३
निवर्तयामास च राजमार्गे सम्पातमार्तस्य पृथग्जनस्य ।
मा भूत्कुमारः सुकुमारचित्तः संविग्नचेता इव मन्यमानः ॥ ३।४
प्रत्यङ्गहीनान् विकलेन्द्रियांश्च जीर्णातुरादीन् कृपणांश्च भिक्षून् ।
ततः समुत्सार्य परेण साम्ना शोभां परा राजपथस्य चक्रुः ॥ ३।५
ततः कृते श्रीमति राजमार्गे श्रीमान् विनीतानुचरः कुमारः ।
प्रासादपृष्ठादवतीर्य काले कृताभ्यनुज्ञो नृपमभ्यगच्चत् ॥ ३।६
अथो नरेन्द्रः सुतमागताश्रुः शिरस्युपाघ्राय चिरं निरीक्ष्य ।
गच्चेति चाज्ञापयति स्म वाचा स्नेहान्न चैनं मनसा मुमोच ॥ ३।७
ततः स जाम्बूनदभाण्डभृद्भिर्युक्तं चतुर्भिर्निभृतैस्तुरङ्गैः ।
अक्लीवविध्युच्चुचिरश्मिधारां हिरण्मयं स्यन्दनमारुरोह ॥ ३।८
ततः प्रकीर्णोज्ज्वलपुष्पजालं विषक्तमाल्यं प्रचलत्पताकम् ।
मार्गं प्रपेदे सदृशानुयात्रश्चन्द्रः सनक्षत्र इवान्तरीक्षम् ॥ ३।९
कौतूहलात्स्फीततरैश्च नेत्रैर्नीलोत्पलाभैरिव कीर्यमाणः ।
शनैः शनै राजपथं जगाहे पौरैः समन्तादभिवीक्ष्यमाणः ॥ ३।१०
तं तुष्टुवुः सौम्यगुणेन केचिद्ववन्दिरे दीप्ततया तथान्ये ।
सौमुख्यतस्तु श्रियमस्य केचिद्वैपुल्यमाशंसिषुरायुषश्च ॥ ३।११
निःसृत्य कुब्जाश्च महाकुलेभ्यो व्यूहाश्च कैरातकवामनानाम् ।
नार्यः कृशेभ्यश्च निवेशनेभ्यो देवानुयानध्वजवत् प्रणेमुः ॥ ३।१२
ततः कुमारः खलु गच्चतीति श्रुत्वा स्त्रियः प्रेष्यजनात्प्रवृत्तिम् ।
दिदृक्षया हर्म्यतलानि जग्मुर्जनेन मान्येन कृताभ्यनुज्ञाः ॥ ३।१३
ताः स्रस्तकाञ्चीगुणविघ्निताश्च सुप्तप्रबुद्धाकुललोचनाश्च ।
वृत्तान्तविन्यस्तविभूषणाश्च कौतूहलेनापि भृताः परीयुः ॥ ३।१४
प्रासादसोपानतलप्रणादैः काञ्चीरवैर्नूपुरनिस्वनैश्च ।
विभ्रामयन्त्यो गृहपक्षिसङ्घानन्योन्यवेगांश्च समाक्षिपन्त्यः ॥ ३।१५
कासाञ्चिदासां तु वराङ्गनानां जातत्वराणामपि सोत्सुकानाम् ।
गतिं गुरुत्वाज्जगृहुर्विशालाः श्रोणीरथाः पीनपयोधराश्च ॥ ३।१६
शीघ्रं समर्थापि तु गन्तुमन्या गतिं निजग्राह ययौ न तूर्णम् ।
ह्रिया प्रगल्भानि निगूहमाना रहः प्रयुक्तानि विभूषणानि ॥ ३।१७
परस्परोत्पीडनपिण्डितानां सम्मर्दसंशोभितकुण्डलानाम् ।
तासां तदा सस्वनभूषणानां वातायनेष्वप्रशमो बभूव ॥ ३।१८
वातायनेभ्यस्तु विनिःसृतानि परस्परोपासितकुण्डलानि ।
स्त्रीणां विरेजुर्मुखपङ्कजानि सक्तानि हर्म्येष्विव पङ्कजानि ॥ ३।१९
ततो विमानैर्युवतीकलापैः कौतूहलोद्घाटितवातयानैः ।
श्रीमत्समन्तान्नगरं बभासे वियद्विमानैरिव साप्सरोभिः ॥ ३।२०
वातायनानामविशालभावादन्योन्यगण्डार्पितकुण्डलानि ।
मुखानि रेजुः प्रमदोत्तमानां बद्धाः कलाप इव पङ्कजानाम् ॥ ३।२१
तस्मिन् कुमारं पथि वीक्षमाणाः स्त्रियो बभुर्गामिव गन्तुकामाः ।
ऊर्ध्वोन्मुखाश्चैनमुदीक्षमाणा नरा बभुर्द्यामिव गन्तुकामाः ॥ ३।२२
दृष्ट्वा च तं राजसुतं स्त्रियस्ता जाज्वल्यमानं वपुषा श्रिया च ।
धन्यास्य भार्येति शनैरवोचञ्शुद्धैर्मनोभिः खलु नान्यभावात् ॥ ३।२३
अयं किल व्यायतपीनबाहू रूपेण साक्षादिव पुष्पकेतुः ।
त्यक्त्वा श्रियं धर्ममुपेष्यतीति तस्मिन् हिता गौरवमेव चक्रुः ॥ ३।२४
कीर्णं तथा राजपथं कुमारः पौरैर्विनीतैः शुचिधीरवेषैः ।
तत्पूर्वमालोक्य जहर्ष किञ्चिन्मेने पुनर्भावमिवात्मनश्च ॥ ३।२५
पुरं तु तत्स्वर्गमिव प्रहृष्टं शुद्धाधिवासाः समवेक्ष्य देवाः ।
जीर्णं नरं निर्ममिरे प्रयातुं सञ्चोदनार्थं क्षितिपात्मजस्य ॥ ३।२६
ततः कुमारो जरयाभिभूतं दृष्ट्वा नरेभ्यः पृथगाकृतिं तम् ।
उवाच सङ्ग्राहकमागतास्थस्तत्रैव निष्कम्पनिविष्टदृष्टिः ॥ ३।२७
क एष भोः सूत नरोऽभ्युपेतः केशैः सितैर्यष्टिविषक्तहस्तः ।
भ्रूसंवृताक्षः शिथिलानताङ्गः किं विक्रियैषा प्रकृतिर्यदृच्चा ॥ ३।२८
इत्येवमुक्तः स रथप्रणेता निवेदयामास नृपात्मजाय ।
संरक्ष्यमप्यर्थमदोषदर्शी तैरेव देवैः कृतबुद्धिमोहः ॥ ३।२९
रूपस्य हर्त्री व्यसनं बलस्य शोकस्य योनिर्निधनं रतीनाम् ।
नाशः स्मृतीनां रिपुरिन्द्रियाणामेषा जरा नाम ययैष भग्नः ॥ ३।३०
पीतं ह्यनेनापि पयः शिशुत्वे कालेन भूयः परिमृष्टमुर्व्याम् ।
क्रमेण भूत्वा च युवा वपुष्मान् क्रमेण तेनैव जरामुपेतः ॥ ३।३१
इत्येवमुक्ते चलितः स किञ्चिद्राजात्मजः सूतमिदं बभाषे ।
किमेष दोषो भविता ममापीत्यस्मै ततः सारथिरभ्युवाच ॥ ३।३२
आयुष्मतोऽप्येष वयःप्रकर्षान्निःसंशयं कालवशेन भावी ।
एवं जरां रूपविनाशयित्रीं जानाति चैवेच्छति चैष लोकः ॥ ३।३३
ततः स पूर्वाशयशुद्धबुद्धिर्विस्तीर्णकल्पाचितपुण्यकर्मा ।
श्रुत्वा जरां संविविजे महात्मा महाशनेर्घोषमिवान्तिके गौः ॥ ३।३४
निःश्वस्य दीर्घं स शिरः प्रकम्प्य तस्मिंश्च जीर्णे विनिवेश्य चक्षुः ।
तां चैव दृष्ट्वा जनतां सहर्षां वाक्यं स संविग्नमिदं जगाद ॥ ३।३५
एवं जरा हन्ति च निर्विशेषं स्मृतिं च रूपं च पराक्रमं च ।
न चैव संवेगमुपैति लोकः प्रत्यक्षतोऽपीदृशमीक्षमाणः ॥ ३।३६
एवं गते सूत निवर्तयाश्वान् शीघ्रं गृहाण्येव भवान्प्रयातु ।
उद्यानभूमौ हि कुतो रतिर्मे जराभवे चेतसि वर्तमाने ॥ ३।३७
अथाज्ञया भर्तृसुतस्य तस्य निवर्तयामास रथं नियन्ता ।
ततः कुमारो भवनं तदेव चिन्तावशः शून्यमिव प्रपेदे ॥ ३।३८
यदा तु तत्रैव न शर्म लेभे जरा जरेति प्रपरीक्षमाणः ।
ततो नरेन्द्रानुमतः स भूयः क्रमेण तेनैव बहिर्जगाम ॥ ३।३९
अथापरं व्याधिपरीतदेहं त एव देवाः ससृजुर्मनुष्यम् ।
दृष्ट्वा च तं सारथिमाबभाषे शौद्धोदनिस्तद्गतदृष्टिरेव ॥ ३।४०
स्थूलोदरः श्वासचलच्छरीरः स्रस्तांसबाहुः कृशपाण्डुगात्रः ।
अम्बेति वाचं करुणं ब्रुवाणः परं समाश्लिष्य नरः क एषः ॥ ३।४१
ततोऽब्रवीत्सारथिरस्य सौम्य धातुप्रकोपप्रभवः प्रवृद्धः ।
रोगाभिधानः सुमहाननर्थः शक्रोऽपि येनैष कृतोऽस्वतन्त्रः ॥ ३।४२
इत्यूचिवान् राजसुतः स भूयस्तं सानुकम्पो नरमीक्षमाणः ।
अस्यैव जातः पृथगेष दोषः सामान्यतो रोगभयं प्रजानाम् ॥ ३।४३
ततो बभाषे स रथप्रणेता कुमार साधारण एष दोषः ।
एवं हि रोगैः परिपीड्यमानो रुजातुरो हर्षमुपैति लोकः ॥ ३।४४
इति श्रुतार्थः स विषण्णचेताः प्रावेपताम्बूर्मिगतः शशीव ।
इदं च वाक्यं करुणायमानः प्रोवाच किञ्चिन्मृदुना स्वरेण ॥ ३।४५
इदं च रोगव्यसनं प्रजानां पश्यंश्च विश्रम्भमुपैति लोकः ।
विस्तीर्णविज्ञानमहो नराणां हसन्ति ये रोगभयैरमुक्ताः ॥ ३।४६
निवर्त्यतां सूत वहिःप्रयाणान्नरेन्द्रसद्मैव रथः प्रयातु ।
श्रुत्वा च मे रोगभयं रतिभ्यः प्रत्याहतं सङ्कुचतीव चेतः ॥ ३।४७
ततो निवृत्तः स निवृत्तहर्षः प्रध्यानयुक्तः प्रविवेश सद्म ।
तं द्विस्तथा प्रेक्ष्य च सन्निवृत्तं पुर्यागमं भूमिपतिश्चकार ॥ ३।४८
श्रुत्वा निमित्तं तु निवर्तनस्य सन्त्यक्तमात्मानमनेन मेने ।
मार्गस्य शौचाधिकृताय चैव चुक्रोश रुष्टोऽपि च नोग्रदण्डः ॥ ३।४९
भूयश्च तस्मै विदधे सुताय विशेषयुक्तं विषयप्रकारम् ।
चलेन्द्रियत्वादपि नापि शक्तो नास्मान्विजह्यादिति नाथमानः ॥ ३।५०
यदा च शब्दादिभिरिन्द्रियार्थैरन्तःपुरे नैव सुतोऽस्य रेमे ।
ततो वहिर्व्यादिशति स्म यात्रां रसान्तरं स्यादिति मन्यमानः ॥ ३।५१
स्नेहाच्च भावं तनयस्य बुद्ध्वा संवेगदोषानविचिन्त्य कांश्चित् ।
योग्याः समाज्ञापयति स्म तत्र कलास्वभिज्ञ इति वारमुख्याः ॥ ३।५२
ततो विशेषेण नरेन्द्रमार्गे स्वलङ्कृते चैव परीक्षिते च ।
व्यत्यास्य सूतं च रथं च राजा प्रस्थापयामास बहिः कुमारम् ॥ ३।५३
ततस्तथा गच्चति राजपुत्रे तैरेव देवैर्विहितो गतासुः ।
तं चैव मार्गे मृतमुह्यमानं सूतः कुमारश्च ददर्श नान्यः ॥ ३।५४
अथाब्रवीद्राजसुतः स सूतं नरैश्चतुर्भिर्ह्रियते क एषः ।
दीनैर्मनुष्यैरनुगम्यमानो यो भूषितोऽश्वास्यवरुद्यते च ॥ ३।५५
ततः स शुद्धात्मभिरेव देवैः शुद्धाधिवासैरभिभूतचेताः ।
अवाच्यमप्यर्थमिमं नियन्ता प्रव्याजहारार्थविदीश्वराय ॥ ३।५६
बुद्धीन्द्रियप्राणगुणैर्वियुक्तः सुप्तो विसञ्ज्ञस्तृणकाष्ठभूतः ।
सम्बध्य संरक्ष्य च यत्नवद्भिः प्रियाप्रियैस्त्यज्यत एष कोऽपि ॥ ३।५७
इति प्रणेतुः स निशम्य वाक्यं सञ्चुक्षुभे किञ्चिदुवाच चैनम् ।
किं केवलस्यैव जनस्य धर्मः सर्वप्रजानामयमीदृशोऽन्तः ॥ ३।५८
ततः प्रणेता वदति स्म तस्मै सर्वप्रजानामयमन्तकर्मा ।
हीनस्य मध्यस्य महात्मनो वा सर्वस्य लोके नियतो विनाशः ॥ ३।५९
ततः स धीरोऽपि नरेन्द्रसूनुः श्रुत्वैव मृत्युं विषसाद सद्यः ।
अंसेन संश्लिष्य च कूबराग्रं प्रोवाच निह्रादवता स्वरेण ॥ ३।६०
इयं च निष्ठा नियतं प्रजानां प्रमाद्यति त्यक्तभयश्च लोकः ।
मनांसि शङ्के कठिनानि नृणां स्वस्थास्तथा ह्यध्वनि वर्तमानाः ॥ ३।६१
तस्माद्रथं सूत निवर्त्यतां नो विहारभूमौ न हि देशकालः ।
जानन्विनाशं कथमार्त्तिकाले सचेतनः स्यादिह हि प्रमत्तः ॥ ३।६२
इति ब्रुवाणेऽपि नराधिपात्मजे निवर्तयामास स नैव तं रथम् ।
विशेषयुक्तं तु नरेन्द्रशासनात्स पद्मखण्डं वनमेव निर्ययौ ॥ ३।६३
ततः शिवं कुसुमितबालपादपं परिभ्रमत्प्रमुदितमत्तकोकिलम् ।
विपानवत्सकमलचारुदीर्घिकं ददर्श तद्वनमिव नन्दनं वनम् ॥ ३।६४
वराङ्गनागणकलिलं नृपात्मजस्ततो बलाद्वनमभिनीयते स्म तत् ।
वराप्सरोवृतमलकाधिपालयं नवव्रतो मुनिरिव विघ्नकातरः ॥ ३।६५
इति श्रीबुद्धचरिते महाकाव्ये संवेगौत्पत्तिर्नाम तृतीयः सर्गः ॥ ३ ॥
Book IV [स्त्रीविघातनो]
ततस्तस्मात् पुरोद्यानात् कौतूहलचलेक्षणाः ।
प्रत्युज्जग्मुर्नृपसुतं प्राप्तं वरमिव स्त्रियः ॥ ४।१
अभिगम्य च तास्तस्मै विस्मयोत्फुल्ललोचनाः ।
चक्रिरे समुदाचारं पद्मकोशनिभैः करैः ॥ ४।२
तस्थुश्च परिवार्यैनं मन्मथाक्षिप्तचेतसः ।
निश्चलैः प्रीतिविकचैः पिबन्त्य इव लोचनैः ॥ ४।३
तं हि ता मेनिरे नार्यः कामो विग्रहवानिति ।
शोभितं लक्षणैर्दीप्तैः सहजैर्भूषणैरिव ॥ ४।४
सौम्यत्वाच्चैव धैर्याच्छ काश्चिदेनं प्रजज्ञिरे ।
अवतीर्णो महीं साक्षाद् सुधांशुश्चन्द्रमा इव ॥ ४।५
तस्य ता वपुषाक्षिप्ता निर्ग्रहीतुं जजृम्भिरे ।
अन्योन्यं दृष्टिभिर्गत्वा शनैश्च विनिशश्वसुः ॥ ४।६
एवं ता दृष्टिमात्रेण नार्यो ददृशुरेव तम् ।
न व्याजह्रुर्न जहसुः प्रभावेणास्य यन्त्रिताः ॥ ४।७
तास्तथा तु निरारम्भा दृष्ट्वा प्रणयविक्लवाः ।
पुरोहितसुतो धीमानुदायी वाक्यमब्रवीत् ॥ ४।८
सर्वाः सर्वकलाज्ञाः स्थ भावग्रहणपण्डिताः ।
रूपचातुर्यसम्पन्नाः स्वगुणैर्मुख्यतां गताः ॥ ४।९
शोभयेत गुणैरेभिरपि तानुत्तरान् कुरून् ।
कुवेरस्यापि च क्रीडं प्रागेव वसुधामिमाम् ॥ ४।१०
शक्ताश्चालयितुं यूयं वीतरागानृषीनपि ।
अप्सरोभिश्च कलितान् ग्रहीतुं विबुधानपि ॥ ४।११
भावज्ञानेन हावेन चातुर्याद्रूपसम्पदा ।
स्त्रीणामेव च शक्ताः स्थ संरागे किं पुनर्नृणाम् ॥ ४।१२
तासामेवंविधानां वो नियुक्तानां स्वगोचरे ।
इयमेवंविधा चेष्टा न तुष्टोऽस्म्यार्जवेन वः ॥ ४।१३
इदं नववधूनां वो ह्रीनिकुञ्चितचक्षुषाम् ।
सदृशं चेष्टितं हि स्यादपि वा गोपयोषिताम् ॥ ४।१४
यद्यपि स्यादयं वीरः श्रीप्रभावान्महानिति ।
स्त्रीणामपि महत्तेज इति कार्योऽत्र निश्चयः ॥ ४।१५
पुरा हि काशिसुन्दर्या वेशवध्वा महानृषिः ।
ताडितोऽभूत् पदन्यासाद्दुर्धर्षो दैवतैरपि ॥ ४।१६
मन्थालगौतमो भिक्षुर्जङ्घया बालमुख्यया ।
पिप्रीषुश्च तदर्थार्थं व्यसून् निरहरत् पुरा ॥ ४।१७
गौतमं दीर्घतपसं महार्षिं दीर्घजीविनम् ।
योषित् सन्तोषयामास वर्णस्थानावरा सती ॥ ४।१८
ऋष्यशृङ्गं मुनिसुतं तथैव स्त्रीष्वपण्डितम् ।
उपायैर्विविधैः शान्ता जग्राह च जहार च ॥ ४।१९
विश्वामित्रो महर्षिश्च विगाढोऽपि महत्तपाः ।
दशवर्षाण्यरण्यस्थो घृताच्याप्सरसा हृतः ॥ ४।२०
एवमादीनृषींस्तांस्ताननयन् विक्रियां स्त्रियः ।
ललितं पूर्ववयसं किं पुनर्नृपतेः सुतम् ॥ ४।२१
तदेवं सति विश्रब्धं प्रयतध्वं तथा यथा ।
इयं नृपस्य वंशश्रीरितो न स्यात्पराङ्मुखी ॥ ४।२२
या हि काश्चिद्युवतयो हरन्ति सदृशं जनम् ।
निकृष्टोत्कृष्टयोर्भावं या गृह्णन्ति तु ताः स्त्रियः ॥ ४।२३
इत्युदायिवचः श्रुत्वा ता विद्धा इव योषितः ।
समारुरुहुरात्मानं कुमारग्रहणं प्रति ॥ ४।२४
ता भ्रूभिः प्रेक्षितैर्भावैर्हसितैर्ललितैर्गतैः ।
चक्रुराक्षेपिकाश्चेष्टा भीतभीता इवाङ्गनाः ॥ ४।२५
राज्ञस्तु विनियोगेन कुमारस्य च मार्दवात् ।
जह्रुः क्षिप्रमविश्रम्भं मदेन मदनेन च ॥ ४।२६
अथ नारीजनवृतः कुमारो व्यचरद्वनम् ।
वासितायूथसहितः करीव हिमवद्वनम् ॥ ४।२७
स तस्मिन् कानने रम्ये जज्वाल स्त्रीपुरःसरः ।
आक्रीड इव बभ्राजे विवस्वानप्सरोवृतः ॥ ४।२८
मदेनावर्जिता नाम तं काश्चित्तत्र योषितः ।
कठिनैः पस्पृशुः पीनैः सङ्घट्टैर्वल्गुभिः स्तनैः ॥ ४।२९
स्रस्तांसकोमलालम्बमृदुबाहुलताबला ।
अनृतं स्खलितं काचित्कृत्वैनं सस्वजे बलात् ॥ ४।३०
काचित् ताम्राधरोष्ठेन मुखेनासवगन्धिना ।
विनिशश्वास कर्णेऽस्य रहस्यं श्रूयतामिति ॥ ४।३१
काचिदाज्ञापयन्तीव प्रोवाचार्द्रानुलेपना ।
इह भक्तिं कुरुष्वेति हस्तं संश्लिष्य लिप्सया ॥ ४।३२
मुहुर्मुहुर्मदव्याजस्रस्तनीलांशुकापरा ।
आलक्ष्यरसना रेजे स्फुरद्विद्युदिव क्षपा ॥ ४।३३
काश्चित्कनककाञ्चीभिर्मुखराभिरितस्ततः ।
बभ्रमुर्दर्शयन्त्योऽस्य श्रोणीस्तन्वंशुकावृताः ॥ ४।३४
चूतशाखां कुसुमितां प्रगृह्यान्या ललम्बिरे ।
सुवर्णकलशप्रख्यान् दर्शयन्त्यः पयोधरान् ॥ ४।३५
काचित्पद्मवनादेत्य सपद्मा पद्मलोचना ।
पद्मवक्त्रस्य पार्श्वेऽस्य पद्मश्रीरिव तस्थुषी ॥ ४।३६
मधुरं गीतमन्वर्थं काचित्साभिनयं जगौ ।
तं स्वस्थं चोदयन्तीव वञ्चितोऽसीत्यवेक्षितैः ॥ ४।३७
शुभेन वदनेनान्या भ्रूकार्मुकविकर्षिणा ।
प्रावृत्यानुचकारास्य चेष्टितं वीरलीलया ॥ ४।३८
पीनवल्गुस्तनी काचिद्वाताघूर्णितकुण्डला ।
उच्चैरवजहासैनं समाप्नोतु भवानिति ॥ ४।३९
अपयान्तं तथैवान्या बबन्धुर्माल्यदामभिः ।
काश्चित्साक्षेपमधुरैर्जगृहुर्वचनाङ्कुशैः ॥ ४।४०
प्रतियोगार्थिनी काचिद्गृहीत्वा चूतवल्लरीम् ।
इदं पुष्पं तु कस्येति पप्रच्च मदविक्लवा ॥ ४।४१
काचित्पुरुषवत्कृत्वा गतिं संस्थानमेव च ।
उवाचैनं जितः स्त्रीभिर्जय भोः पृथिवीमिमाम् ॥ ४।४२
अथ लोलेक्सणा काचिज्जिघ्रन्ती नीलमुत्पलम् ।
किञ्चिन्मदकलैर्वाक्यैर्नृपात्मजमभाषत ॥ ४।४३
पश्य भर्तश्चितं चूतं कुसुमैर्मधुगन्धिभिः ।
हेमपञ्जररुद्धो वा कोकिलो यत्र कूजति ॥ ४।४४
अशोको दृश्यतामेष कामिशोकविवर्धनः ।
रुवन्ति भ्रमरा यत्र दह्यमाना इवाग्निना ॥ ४।४५
चूतयष्ट्या समाश्लिष्टो दृश्यतां तिलकद्रुमः ।
शुक्लवासा इव नरः स्त्रिया पीताङ्गरागया ॥ ४।४६
फुल्लं कुरुवकं पश्य निर्मुक्तालक्तकप्रभम् ।
यो नखप्रभया स्त्रीणां निर्भर्त्सित इवानतः ॥ ४।४७
बालाशोकश्च निचितो दृश्यतामेष पल्लवैः ।
योऽस्माकं हस्तशोभाभिर्लज्जमान इव स्थितः ॥ ४।४८
दीर्घिकां प्रावृतां पश्य तीरजैः सिन्दुवारकैः ।
पाण्डुरांशुकसंवीतां शयानां प्रमदामिव ॥ ४।४९
दृश्यतां स्त्रीषु माहात्म्यं चक्रवाको ह्यसौ जले ।
पृष्ठतः प्रेष्यवद्भार्यामनुवृत्यानुगच्चति ॥ ४।५०
मत्तस्य परपुष्टस्य रुवतः श्रूयतां ध्वनिः ।
अपरः कोकिलोऽनुत्कः प्रतिश्रुत्येव कूजति ॥ ४।५१
अपि नाम विहङ्गानां वसन्तेनाहितो मदः ।
न तु चिन्तयतश्चित्तं जनस्य प्राज्ञमानिनः ॥ ४।५२
इत्येवं ता युवतयो मन्मथोद्दामचेतसः ।
कुमारं विविधैस्तैस्तैरुपचक्रमिरे नयैः ॥ ४।५३
एवमाक्षिप्यमाणोऽपि स तु धैर्यावृतेन्द्रियः ।
मर्तव्यमिति सोद्वेगो न जहर्ष न सिस्मिये ॥ ४।५४
तासां तत्त्वेन वस्थानं दृष्ट्वा स पुरुषोत्तमः ।
ससंविग्नेन धीरेण चिन्तयामास चेतसा ॥ ४।५५
किं विना नावगच्चन्ति चपलं यौवनं स्त्रियः ।
यतो रूपेण सम्पन्नं जरेयं नाशयिष्यति ॥ ४।५६
नूनमेता न पश्यन्ति कस्यचिद् रोगसम्प्लवम् ।
तथा हृष्टा भयं त्यक्त्वा जगति व्याधिधर्मिणि ॥ ४।५७
अनभिज्ञाश्च सुव्यक्तं मृत्योः सर्वापहारिणः ।
तथा स्वस्था निरुद्वेगाः क्रीडन्ति च हसन्ति च ॥ ४।५८
जरां व्याधिं च मृत्युं च को हि जानन् सचेतनः ।
स्वस्थस्तिष्ठन् निषीदेद्वा सुपेद्वा किं पुनर्हसेत् ॥ ४।५९
यस्तु दृष्ट्वा परं जीर्णं व्याधितं मृतमेव च ।
स्वस्थो भवति नोद्विग्नो यथाचेतास्तथैव सः ॥ ४।६०
वियुज्यमानेऽपि तरौ पुष्पैरपि फलैरपि ।
पतति च्चिद्यमाने वा तरुरन्यो न शोचते ॥ ४।६१
इति ध्यानपरं दृष्ट्वा विषयेभ्यो गतस्पृहम् ।
उदायी नीतिशास्त्रज्ञस्तमुवाच सुहृत्तया ॥ ४।६२
अहं नृपतिना दत्तः सखा तुभ्यं क्षमः किल ।
यस्मात्त्वयि विवक्षा मे तया प्रणयवत्तया ॥ ४।६३
अहितात् प्रतिषेधश्च हिते चानुप्रवर्तनम् ।
व्यसने चापरित्यागस्त्रिविधं मित्रलक्षणम् ॥ ४।६४
सोऽहं मैत्रीं प्रतिज्ञाय पुरुषार्थात्पराङ्मुखम् ।
यदि त्वां समुपेक्षेयं न भवेन्मित्रता मयि ॥ ४।६५
तद्ब्रवीमि सुहृद्भूत्वा तरुणस्य वपुष्मतः ।
इदं न प्रतिरूपं ते स्त्रीष्वदाक्षिण्यमीदृशम् ॥ ४।६६
अनृतेनापि नारीणां युक्तं समनुवर्तनम् ।
तद्व्रीडापरिहारार्थमात्मरत्यर्थमेव च ॥ ४।६७
सन्नतिस्चानुवृत्तिश्च स्त्रीणां हृदयबन्धनम् ।
स्नेहस्य हि गुणा योनिर्मानकामाश्च योषितः ॥ ४।६८
तदर्हसि विशालाक्ष हृदयेऽपि पराङ्मुखे ।
रूपस्यास्यानुरूपेण दाक्षिण्येनानुवर्तितुम् ॥ ४।६९
दाक्षिण्यमौषधं स्त्रीणां दाक्षिण्यं भूषणं परम् ।
दाक्षिण्यरहितं रूपं निष्पुष्पमिव काननम् ॥ ४।७०
किं वा दाक्षिण्यमात्रेण भावेनास्तु परिग्रहः ।
विषयान् दुर्लभांल्लब्ध्वा न ह्यवज्ञातुमर्हसि ॥ ४।७१
कामं परमिति ज्ञात्वा देवोऽपि हि पुरन्दरः ।
गौतमस्य मुनेः पत्नीमहल्यां चकमे पुरा ॥ ४।७२
अगस्त्यः प्रार्थयामास सोमभार्यां च रोहिणीम् ।
तस्मात् तत्सदृशं लेभे लोपामुद्रामिति श्रुतिः ॥ ४।७३
औतथ्यस्य च भार्यायां ममतायां महातपाः ।
मारुत्यां जनयामास भरद्वाजं बृहस्पतिः ॥ ४।७४
बृहस्पतेर्महिष्यां च जुह्वत्यां जुह्वतां वरः ।
बुधं विबुधधर्माणं जनयामास चन्द्रमाः ॥ ४।७५
कालीम् चैव पुरा कन्यां जलप्रभवसम्भवाम् ।
जगाम यमुनातीरे जातरागः पराशरः ॥ ४।७६
मातङ्ग्यामक्षमालायां गर्हितायां रिरंसया ।
कपिञ्जलादं तनयं वसिष्ठोऽजनयन्मुनिः ॥ ४।७७
ययातिश्चैव राजर्षिर्वयस्यपि विनिर्गते ।
विश्वाच्याप्सरसा सार्धं रेमे चैत्ररथे वने ॥ ४।७८
स्त्रीसंसर्गं विनाशान्तं पाण्डुर्ज्ञात्वापि कौरवः ।
माद्रीरूपगुणाक्षिप्तः सिषेवे कामजं सुखम् ॥ ४।७९
करालजनकश्चैव हृत्वा ब्राह्मणकन्यकाम् ।
अवाप भ्रंशम् अप्येव न तु त्यजेच्च मन्मथम् ॥ ४।८०
एवमाद्या महात्मानो विषयान् गर्हितानपि ।
रतिहेतोर्बुभुजिरे प्रागेव गुणसंहितान् ॥ ४।८१
त्वं पुनर्न्यायतः प्राप्तान् बलवान् रूपवान् युवा ।
विषयानवजानासि यत्र सक्तमिदं जगत् ॥ ४।८२
इति श्रुत्वा वचस्तस्य श्लक्ष्णमागमसंहितम् ।
मेघस्तनितनिर्घोषः कुमारः प्रत्यभाषत ॥ ४।८३
उपपन्नमिदं वाक्यं सौहार्दव्यञ्जकं त्वयि ।
अत्र च त्वानुनेष्यामि यत्र मा दुष्ठु मन्यसे ॥ ४।८४
नावजानामि विषयाञ्जाने लोकं तदात्मकम् ।
अनित्यं तु जगन्मत्वा नात्र मे रमते मनः ॥ ४।८५
जरा व्याधिश्च मृत्युश्च यदि न स्यादिदं त्रयम् ।
ममापि हि मनोज्ञेषु विषयेषु रतिर्भवेत् ॥ ४।८६
नित्यं यद्यपि हि स्त्रीणामेतदेव वपुर्भवेत् ।
ससंवित्कस्य कामेषु तथापि न रतिः क्षमा ॥ ४।८७
यदा तु जरया पीतं रूपमासां भविष्यति ।
आत्मनोऽप्यनभिप्रेतं मोहात्तत्र रतिर्भवेत् ॥ ४।८८
मृत्युव्याधिजराधर्मो मृत्युव्याधिजरात्मभिः ।
रममाणोऽप्यसंविग्नः समानो मृगपक्षिभिः ॥ ४।८९
यदप्यात्थ महात्मानस्तेऽपि कामात्मका इति ।
संवेगोऽत्र न कर्तव्यो यदा तेषामपि क्षयः ॥ ४।९०
माहात्म्यं न च तन्मन्ये यत्र सामान्यतः क्षयः ।
विषयेषु प्रसक्तिर्वा युक्तिर्वा नात्मवत्तया ॥ ४।९१
यदप्यात्थानृतेनापि स्त्रीजने वर्त्यतामिति ।
अनृतं नावगच्चामि दाक्षिण्येनापि किञ्चन ॥ ४।९२
न चानुवर्तनं तन्मे रुचितं यत्र नार्जवम् ।
सर्वभावेन सम्पर्को यदि नास्ति धिगस्तु तत् ॥ ४।९३
अनृते श्रद्दधानस्य सक्तस्यादोषदर्शिनः ।
किं हि वञ्चयितव्यं स्याज्जातरागस्य चेतसः ॥ ४।९४
वञ्चयन्ति च यद्येव जातरागाः परस्परम् ।
ननु नैव क्षमं द्रष्टुं नराः स्त्रीणां नृणाम् स्त्रियः ॥ ४।९५
तदेवं सति दुःखार्त्तं जरामरणभोगिनम् ।
न मां कामेष्वनार्येषु प्रतारयितुमर्हसि ॥ ४।९६
अहोऽतिधीरं बलवच्च ते मनश्चलेषु कामेषु च सारदर्शिनः ।
भयेऽपि तीव्रे विषयेषु सज्जसे निरीक्षमाणो मरणाध्वनि प्रजाः ॥ ४।९७
अहं पुनर्भीरुरतीवविक्लवो जराविपद्व्याधिभयं विचिन्तयन् ।
लभे न शान्तिं न धृतिं कुतो रतिं निशामयन् दीप्तमिवाग्निना जगत् ॥ ४।९८
असंशयं मृत्युरिति प्रजानतो नरस्य रागो हृदि यस्य जायते ।
अयोमयीं तस्य परैमि चेतनां महाभये रक्षति यो न रोदिति ॥ ४।९९
अथौ कुमारश्च विनिश्चयात्मिकां चकार कामाश्रयघातिनीं कथाम् ।
जनस्य चक्षुर्गमनीयमण्डलो महीधरं चास्तमियाय भास्करः ॥ ४।१००
ततो वृथाधारितभूषणस्रजः कलागुणैश्च प्रणयैश्च निष्फलैः ।
स्व एव भावे विनिगृह्य मन्मथं पुरं ययुर्भग्नमनोरथाः स्त्रियः ॥ ४।१०१
ततः पुरोद्यानगतां जनश्रियं निरीक्ष्य सायं प्रतिसंहृतां पुनः ।
अनित्यतां सर्वगतां विचिन्तयन् विवेश धिष्ण्यं क्षितिपालकात्मजः ॥ ४।१०२
ततः श्रुत्वा राजा विषयविमुखं तस्य तु मनो
न शिश्ये तां रात्रिं हृदयगतशल्यो गज इव ।
अथ श्रान्तो मन्त्रे बहुविविधमार्गे ससचिवो
न सोऽन्यत्कामेभ्यो नियमनमपश्यत्सुतमतेः ॥ ४।१०३
इति श्रीबुद्धचरिते महाकाव्ये स्त्रीविघातनो नाम चतुर्थः सर्गः ॥ ४ ॥
Book V [अभिनिष्क्रमणो]
स तथा विषयैर्विलोभ्यमानः परमोहैरपि शाक्यराजसूनुः ।
न जगाम रतिं न शर्म लेभे हृदये सिंह इवातिदिग्धविद्धः ॥ ५।१
अथ मन्त्रिसुतैः क्षमैः कदाचित्सखिभिश्चित्रकथैः कृतानुयात्रः ।
वनभूमिदिदृक्षया शमेप्सुर्नरदेवानुमतो वहिः प्रतस्थे ॥ ५।२
नवरुक्मखलीनकिङ्किणीकं प्रचलच्छामरचारुहेमभाण्डम् ।
अभिरुह्य स कण्ठकं सदश्वं प्रययौ केतुमिव द्रुमाब्जकेतुः ॥ ५।३
स निकृष्टतरां वनान्तभूमिं वनलोभाच्च ययौ महीगुणेच्छुः ।
सलिलोर्मिविकारसीरमार्गां वसुधां चैव ददर्श कृष्यमाणाम् ॥ ५।४
हलभिन्नविकीर्णशष्पदर्भां हतसूक्ष्मक्रिमिकाण्डजन्तुकीर्णाम् ।
समवेक्ष्य रसां तथाविधां तां स्वजनस्येव बधे भृशं शुशोच ॥ ५।५
कृषतः पुरुषांश्च वीक्षमाणः पवनार्कांशुरजोविभिन्नवर्णान् ।
वहनक्लमविक्लवांश्च धुर्यान् परमार्यः परमां कृपां चकार ॥ ५।६
अवतीर्य ततस्तुरङ्गपृष्ठाच्चनकैर्गां व्यचरत् शुचा परीतः ।
जगतो जननव्ययं विचिन्वन् कृपणं खल्विदमित्युवाच चार्त्तः ॥ ५।७
मनसा च विविक्ततामभीप्सुः सुहृदस्ताननुयायिनो निवार्य ।
अभितारलचारुपर्णवत्या विजने मूलमुपेयिवान् स जम्ब्वाः ॥ ५।८
निषसाद च पत्रखोरवत्यां भुवि वैदूर्यनिकाशशाद्वलायाम् ।
जगतः प्रभवव्ययौ विचिन्त्य मनसश्च स्थितिमार्गमाललम्बे ॥ ५।९
समवाप्तमनः स्थितिश्च सद्यो विषयेच्छादिभिराधिभिश्च मुक्तः ।
सवितर्कविचारमाप शान्तं प्रथमं ध्यानमनाश्रवप्रकारम् ॥ ५।१०
अधिगम्य ततो विवेकजं तु परमप्रीतिसुखं [मनः] समाधिम् ।
इदमेव ततः परं प्रदध्यौ मनसा लोकगतिं निशम्य सम्यक् ॥ ५।११
कृपणं वत यज्जनः स्वयं सन्नरसो व्याधिजराविनाशधर्मः ।
जरयार्दितमातुरं मृतं वा परमज्ञो विजुगुप्सते मदान्धः ॥ ५।१२
इह चेदहमीदृशः स्वयं सन् विजुगुप्सेय परं तथास्वभावम् ।
न भवेत्सदृशं हि तत्क्षमं वा परमं धर्ममिमं विजानतो मे ॥ ५।१३
इति तस्य विपश्यतो यथावज्जगतो व्याधिजराविपत्तिदोषान् ।
बलयौवनजीवितप्रवृत्तौ विजगामात्मगतो मदः क्षणेन ॥ ५।१४
न जहर्ष न चापि चानुतेपे विचिकित्सां न ययौ न तन्द्रिनिद्रे ।
न च कामगुणेषु संररञ्जे न च दिद्वेष परं न चावमेने ॥ ५।१५
इति बुद्धिरियं च नीरजस्का ववृधे तस्य महात्मनो विशुद्धा ।
पुरुषैरपरैरदृश्यमानः पुरुषश्चोपससर्प भिक्षुवेशः ॥ ५।१६
नरदेवसुतस्तमभ्यपृच्चद्वद कोऽसीति शशंस सोऽथ तस्मै ।
स च पुङ्गव जन्ममृत्युभीतः श्रमणः प्रव्रजितोऽस्मि मोक्षहेतोः ॥ ५।१७
जगति क्षयधर्मके मुमुक्षुर्मृगयेऽहं शिवमक्षयं पदं तत् ।
अजनोऽन्यजनैरतुल्यबुद्धिर्विषयेभ्यो विनिवृत्तरागदोषः ॥ ५।१८
निवसन् क्वचिदेव वृक्षमूले विजने वायतने गिरौ वने वा ।
विचराम्यपरिग्रहो निराशः परमार्थाय यथोपपन्नभिक्षुः ॥ ५।१९
इति पश्यत एव राजसूनोरिदमुक्त्वा स नभः समुत्पपात ।
स हि तद्वपुरन्यबुद्धिदर्शी स्मृतये तस्य समेयिवान् दिवौकाः ॥ ५।२०
गगनं खगवद्गते च तस्मिन् नृवरः सञ्जहृषे विसिस्मिये च ।
उपलभ्य ततश्च धर्मसञ्ज्ञामभिनिर्याणविधौ मतिं चकार ॥ ५।२१
तत इन्द्रसमो जितेन्द्रियश्च प्रविविक्षुः परमाश्वमारुरोह ।
परिवर्त्य जनं त्ववेक्षमाणस्तत एवाभिमतं वनं न भेजे ॥ ५।२२
स जरामरणक्षयं चिकीर्षुर्वनवासाय मतिं स्मृतौ निधाय ।
प्रविवेश पुनः पुरं न कामाद्वनभूमेरिव मण्डलं द्विपेन्द्रः ॥ ५।२३
सुखिता वत निर्वृता च सा स्त्री पतिरीदृक्त्वमिवायताक्ष यस्याः ।
इति तं समुदीक्ष्य राजकन्या प्रविशन्तं पथि साञ्जलिर्जगाद ॥ ५।२४
अथ घोषमिमं महाभ्रघोषः परिशुश्राव शमं परं च लेभे ।
श्रुतवांश्च हि निर्वृतेति शब्दं परिनिर्वाणविधौ मतिं चकार ॥ ५।२५
अथ काञ्चनशैलशृङ्गवर्ष्मा गजमेघर्षभबाहुनिस्वनाक्षः ।
क्षयमक्षयधर्मजातरागः शशिसिंहाननविक्रमः प्रपेदे ॥ ५।२६
मृगराजगतिस्ततोऽभ्यगच्चन्नृपतिं मन्त्रिगणैरुपास्यमानम् ।
समितौ मरुतामिव ज्वलन्तं मघवन्तं त्रिदिवे सनत्कुमारः ॥ ५।२७
प्रणिपत्य च साञ्जलिर्बभाषे दिश मह्यं नरदेव साध्वनुज्ञाम् ।
परिविव्रजिषामि मोक्षहेतोर्नियतो ह्यस्य जनस्य विप्रयोगः ॥ ५।२८
इति तस्य वचो निशम्य राजा करिणेवाभिहतो द्रुमश्चचाल ।
कमलप्रतिमेऽञ्जलौ गृहीत्वा वचनं चेदमुवाच वाष्पकण्ठः ॥ ५।२९
प्रतिसंहर तात बुद्धिमेतां न हि कालस्तव धर्मसंश्रयस्य ।
वयसि प्रथमे मतौ चलायां बहुदोषां हि वदन्ति धर्मचर्याम् ॥ ५।३०
विषयेषु कुतूहलेन्द्रियस्य व्रतखेदेष्वसमर्थनिश्चयस्य ।
तरुणस्य मनश्चलत्यरण्यादनभिज्ञस्य विशेषतोऽविवेकम् ॥ ५।३१
मम तु प्रियधर्म धर्मकालस्त्वयि लक्ष्मीमवसृज्य लक्ष्यभूते ।
स्थिरविक्रम विक्रमेण धर्मस्तव हित्वा तु गुरुं भवेदधर्मः ॥ ५।३२
तदिमं व्यवसायमुत्सृज त्वं भव तावन्निरतो गृहस्थधर्मे ।
पुरुषस्य वयःसुखानि भुक्त्वा रमणीयो हि तपोवनप्रवेशः ॥ ५।३३
इति वाक्यमिदं निशम्य राज्ञः कलविङ्कस्वर उत्तरं बभाषे ।
यदि मे प्रतिभूश्चतुर्षु राजन् भवसि त्वं न तपोवनं श्रयिष्ये ॥ ५।३४
न भवेन्मरणाय जीवितं मे विहरेत्स्वास्थ्यमिदं च मे न रोगः ।
न च यौवनमाक्षिपेज्जरा मे न च सम्पत्तिमपाहरेद्विपत्तिः ॥ ५।३५
इति दुर्लभमर्थमूचिवांसं तनयं वाक्यमुवाच शाक्यराजः ।
त्यज बुद्धिमतिमां गतिप्रवृत्तामवहास्योऽतिमनोरथक्रमश्च ॥ ५।३६
अथ मेरुगुरुर्गुरुं बभाषे यदि नास्ति क्रम एष नास्ति वार्यः ।
शरणाज्ज्वलनेन दह्यमानान्न हि निश्चिक्रमिषुं क्षमं ग्रहीतुम् ॥ ५।३७
जगतश्च यथा ध्रुवो वियोगो न तु धर्माय वरं त्वयं वियोगः ।
अवशं ननु विप्रयोजयेन्मामकृतस्वार्थमतृप्तमेव मृत्युः ॥ ५।३८
इति भूमिपतिर्निशम्य तस्य व्यवसायं तनयस्य निर्मुमुक्षोः ।
अभिधाय न यास्यतीति भूयो विदधे रक्षणमुत्तमांश्च कामान् ॥ ५।३९
सचिवैस्तु निदर्शितो यथावद्बहुमानात् प्रणयाच्च शास्त्रपूर्वम् ।
गुरुणा च निवारितोऽश्रुपातैः प्रविवेशावसथं ततः स शोचन् ॥ ५।४०
चलकुण्डलचुम्बिताननाभिर्घननिश्वासविकम्पितस्तनीभिः ।
वनिताभिरधीरलोचनाभिर्मृगशावाभिरिवाभ्युदीक्ष्यमाणः ॥ ५।४१
स हि काञ्चनपर्वतावदातो हृदयोन्मादकरो वराङ्गनानाम् ।
श्रवनाङ्गविलोचनात्मभावान् वचनस्पर्शवपुर्गुणैर्जहार ॥ ५।४२
विगते दिवसे ततो विमानं वपुषा सूर्य इव प्रदीप्यमानः ।
तिमिरं विजिघांसुरात्मभासा रविरुद्यन्निव मेरुमारुरोह ॥ ५।४३
कनकोज्ज्वलदीप्तदीपवृक्षं वरकालागुरुधूपपूर्णगर्भम् ।
अधिरुह्य स वज्रभक्तिचित्रं प्रवरं काञ्चनमासनं सिषेवे ॥ ५।४४
तत उत्तममुत्तमाश्च नार्यो निशि तूर्यैरुपतस्थुरिन्द्रकल्पम् ।
हिमवच्चिरसीव चन्द्रगौरे द्रविणेन्द्रात्मजमप्सरोगणौघाः ॥ ५।४५
परमैरपि दिव्यतूर्यकल्पैः स तु तैर्नैव रतिं ययौ न हर्षम् ।
परमार्थसुखाय तस्य साधोरभिनिश्चिक्रमिषा यतो न रेमे ॥ ५।४६
अथ तत्र सुरैस्तपोवरिष्ठैरकनिष्ठैर्व्यवसायमस्य बुद्ध्वा ।
युगपत्प्रमदाजनस्य निद्रा विहितासीद्विकृताश्च गात्रचेष्टाः ॥ ५।४७
अभवच्चयिता हि तत्र काचिद्विनिवेश्य प्रचले करे कपोलम् ।
दयितामपि रुक्मपत्त्रचित्रां कुपितेवाङ्कगतां विहाय वीणाम् ॥ ५।४८
विबभौ करलग्नवेणुरन्या स्तनविस्रस्तसितांशुका शयाना ।
ऋजुषट्पदपङ्क्तिजुष्टपद्मा जलफेनप्रहसत्तटा नदीव ॥ ५।४९
नवपुष्करगर्भकोमलाभ्यां तपनीयोज्ज्वलसङ्गताङ्गदाभ्याम् ।
स्वपिति स्म तथा पुरा भुजाभ्यां परिरभ्य प्रियवन्मृदङ्गमेव ॥ ५।५०
नवहाटकभूषणास्तथान्या वसनं पीतमनुत्तमं वसानाः ।
अवशा वत निद्रया निपेतुर्गजभग्ना इव कर्णिकारशाखाः ॥ ५।५१
अवलम्ब्य गवाक्षपार्श्वमन्या शयिता चापविभुग्नगात्रयष्टिः ।
विरराज विलम्बिचारुहारा रचिता तोरणशालभञ्जिकेव ॥ ५।५२
मणिकुण्डलदष्टपत्रलेखं मुखपद्मं विनतं तथापरस्याः ।
शतपत्रमिवार्धचक्रनाडं स्थितकारण्डवघट्टितं चकाशे ॥ ५।५३
अपराः शयिता यथोपविष्टाः स्तनभारैरवमन्यमानगात्राः ।
उपगुह्य परस्परं विरेजुर्भुजपाशैस्तपनीयपारिहार्यैः ॥ ५।५४
महतीं परिवादिनीं च काचिद्वनितालिङ्ग्य सखीमिव प्रसुप्ता ।
विजुघूर्ण चलत्सुवर्णसूत्रां वदनेनाकुलकर्णिकोज्ज्वलेन ॥ ५।५५
पणवं युवतिर्भुजांसदेशादवविस्रंसितचारुपाशमन्या ।
सविलासरतान्ततान्तमूर्वोर्विवरे कान्तमिवाभिनीय शिश्ये ॥ ५।५६
अपरा न बभुर्निमीलिताक्ष्यो विपुलाक्ष्योऽपि शुभभ्रुवोऽपि सत्यः ।
प्रतिसङ्कुचितारविन्दकोशाः सवितर्यस्तमिते यथा नलिन्यः ॥ ५।५७
शिथिलाकुलमूर्धजा तथान्या जघनस्रस्तविभूषणांशुकान्ता ।
अशयिष्ट विकीर्णकण्ठसूत्रा गजभग्ना प्रतिपातिताङ्गनेव ॥ ५।५८
अपरास्त्ववशा ह्रिया वियुक्ता धृतिमत्योऽपि वपुर्गुणैरुपेताः ।
विनिशश्वसुरुल्वणं शयाना विकृताक्षिप्तभुजा जजृम्भिरे च ॥ ५।५९
व्यपविद्धविभूषणस्रजोऽन्या विसृताग्रन्थनवाससो विसञ्ज्ञाः ।
अनिमीलितशुक्लनिश्चलाक्ष्यो न विरेजुः शयिता गतासुकल्पाः ॥ ५।६०
विवृतास्यपुटा विवृद्धगात्रा प्रपतद्वक्त्रजला प्रकाशगुह्या ।
अपरा मदघूर्णितेव शिश्ये न बभाषे विकृतं वपुः पुपोष ॥ ५।६१
इति सत्त्वकुलानुरूपरूपं विविधं स प्रमदाजनः शयानः ।
सरसः सदृशं बभार रूपं पवनावर्जितरुग्णपुष्करस्य ॥ ५।६२
समवेक्ष्य ततश्च ताः शयाना विकृतास्ता युवतीरधीरचेष्टाः ।
गुणवद्वपुषोऽपि वल्गुभासो नृपसूनुः स विगर्हयां बभूव ॥ ५।६३
अशुचिर्विकृतश्च जीवलोके वनितानामयमीदृशः स्वभावः ।
वसनाभरणैस्तु वञ्च्यमानः पुरुषः स्त्रीविषयेषु रागमेति ॥ ५।६४
विमृशेद्यदि योषितां मनुष्यः प्रकृतिं स्वप्नविकारमीदृशं च ।
ध्रुवमत्र न वर्धयेत्प्रमादं गुणसङ्कल्पहतस्तु रागमेति ॥ ५।६५
इति तस्य तदन्तरं विदित्वा निशि निश्चिक्रमिषा समुद्बभूव ।
अवगम्य मनस्ततोऽस्य देवैर्भवनद्वारमपावृतं बभूव ॥ ५।६६
अथ सोऽवततार हर्म्यपृष्ठाद्युवतीस्ताः शयिता विगर्हमाणः ।
अवतीर्य ततश्च निर्विशङ्को गृहकक्ष्यां प्रथमं विनिर्जगाम ॥ ५।६७
तुरगावचरं स बोधयित्वा जविनं चन्दकमित्थमित्युवाच ।
हयमानय कन्थकं त्वरावान् अमृतं प्राप्तुमितोऽद्य मे यियासा ॥ ५।६८
हृदि या मम तुष्टिरद्य जाता व्यवसायश्च यथा धृतौ निविष्टः ।
विजनेऽपि च नाथवानिवास्मि ध्रुवमर्थोऽभिमुखः स मे य इष्टः ॥ ५।६९
ह्रियमेव च सन्नतिं च हित्वा शयिता मत्प्रमुखे यथा युवत्यः ।
विवृते च यथा स्वयं कपाटे नियतं यातुमनामयाय कालः ॥ ५।७०
प्रतिगृह्य ततः स भर्तुराज्ञां विदितार्थोऽपि नरेन्द्रशासनस्य ।
मनसीव परेण चोद्यमानस्तुरगस्यानयने मतिं चकार ॥ ५।७१
अथ हेमखलीनपूर्णवक्त्रं लघुशय्यास्तरणोपगूढपृष्ठम् ।
बलसत्त्वजवत्वरोपपन्नं स वराश्वं तमुपानिनाय भर्त्रे ॥ ५।७२
प्रततत्रिकपुच्चमूलपार्ष्णिं निभृतं ह्रस्वतनूजपृष्ठकर्णम् ।
विनतोन्नतपृष्ठकुक्षिपार्श्वं विपुलप्रोथललाटकठ्युरस्कम् ॥ ५।७३
उपगुह्य स तं विशालवक्षाः कमलाभेन च सान्त्वयन् करेण ।
मधुराक्षरया गिरा शशास ध्वजिनीमध्यमिव प्रवेष्टुकामः ॥ ५।७४
बहुशः कलिशत्रवो निरस्ताः समरे त्वामधिरुह्य पार्थिवेन ।
अहमप्यमृतं परं यथावत्तुरगश्रेष्ठ लभेय तत्कुरुष्व ॥ ५।७५
सुलभाः खलु संयुगे सहाया विषयावाप्तसुखे धनार्जने वा ।
पुरुषस्य तु दुर्लभाः सहायाः पतितस्यापदि धर्मसंश्रये वा ॥ ५।७६
इह चैव भवन्ति ये सहायाः कलुषे धर्मणि धर्मसंश्रये वा ।
अवगच्चति मे यथान्तरात्मा नियतं तेऽपि जनास्तदंशभाजः ॥ ५।७७
तदिदं परिगम्य धर्मयुक्तं मम निर्याणमतो जगद्धिताय ।
तुरगोत्तम वेगविक्रमाभ्यां प्रयतस्वात्महिते जगद्धिते च ॥ ५।७८
इति सुहृदमिवानुशिष्य कृत्ये तुरगवरं नृवरो वनं यियासुः ।
सितमसितगतिद्युतिर्वपुष्मान् रविरिव शारदमभ्रमारुरोह ॥ ५।७९
अथ स परिहरन्निशीथचण्डं परिजनबोधकरं ध्वनिं सदश्वः ।
विगतहनुरवः प्रशान्तहेषश्चकितविमुक्तपदक्रमा जगाम ॥ ५।८०
कनकवलयभूषितप्रकोष्ठैः कमलनिभैः कमलानि च प्रविध्य ।
अवनततनवस्ततोऽस्य यक्षाश्चकितगतेर्दधिरे खुरान् कराग्रैः ॥ ५।८१
गुरुपरिघकपाटसंवृता या न सुखमपि द्विरदैरपाव्रियन्ते ।
व्रजति नृपसुते गतस्वनास्ताः स्वयमभवन् विवृताः पुरः प्रतोल्यः ॥ ५।८२
पितरमभिमुखं सुतं च बालं जनमनुरक्तमनुत्तमां च लक्ष्मीम् ।
कृतमतिरपहाय निर्व्यपेक्षः पितृनगरात् स ततो विनिर्जगाम ॥ ५।८३
अथ स विकचपङ्कजायताक्षः पुरमवलोक्य ननाद सिंहनादम् ।
जननमरणयोरदृष्टपारो न पुनरहं कपिलाह्वयं प्रविष्टा ॥ ५।८४
इति वचनमिदं निशम्य तस्य द्रविणपतेः परिषद्गणा ननन्दुः ॥ ५।८५
प्रमुदितमनसश्च देवसङ्घा व्यवसितपारणमाशशंसिरेऽस्मै ॥
हुतवहवपुषो दिवौकसोऽन्ये व्यवसितमस्य दुष्करं विदित्वा ।
अकुरुत तुहिने पथि प्रकाशं घनविवरप्रषृता इवेन्दुपादाः ॥ ५।८६
हरितुरगतुरङ्गवत्तुरङ्गः स तु विचरन् मनसीव चोद्यमानः ।
अरुणपरुषभारमन्तरीक्षं सरसबहूनि जगाम योजनानि ॥ ५।८७
इति श्रीबुद्धचरिते महाकाव्येऽभिनिष्क्रमणो नाम पञ्चमः सर्गः ॥ ५ ॥
Book VI [चन्दकनिवर्तनं]
ततो मुहूर्तेऽभ्युदिते जगच्चक्षुषि भास्करे ।
भार्गवस्याश्रमपदं स ददर्श नृणां वरः ॥ ६।१
सुप्तविश्वस्तहरिणं स्वस्थस्थितविहङ्गमम् ।
विश्रान्त इव यद्दृष्टा कृतार्थ इव चाभवत् ॥ ६।२
स विस्मयनिवृत्त्यर्थं तपःपूजार्थमेव च ।
स्वां चानुवर्तितां रक्षन्नश्वपृष्ठादवातरत् ॥ ६।३
अवतीर्य च पस्पर्श निस्तीर्णमिति वाजिनम् ।
छन्दकं चाब्रवीत् प्रीतः स्नापयन्निव चक्षुषा ॥ ६।४
इमं तार्क्ष्योपमजवं तुरङ्गमनुगच्चता ।
दर्शिता सौम्य मद्भक्तिर्विक्रमश्चायमात्मनः ॥ ६।५
सर्वथास्म्यन्यकार्योऽपि गृहीतो भवता हृदि ।
भर्तृस्नेहश्च यस्यायमीदृशः शक्त एव च ॥ ६।६
अस्निग्धोऽपि समर्थोऽस्ति निःसामर्थ्योऽपि भक्तिमान् ।
भक्तिमांस्चैव शक्तश्च दुर्लभस्त्वद्विधो भुवि ॥ ६।७
तत्प्रीतोऽस्मि तवानेन महाभागेन कर्मणा ।
दृश्यते मयि भावोऽयं फलेभ्योऽपि पराङ्मुखे ॥ ६।८
को जनस्य फलस्थस्य न स्यादभिमुखो जनः ।
जनीभवति भूयिष्ठं स्वजनोऽपि विपर्यये ॥ ६।९
कुलार्थं धार्यते पुत्रः पोषार्थं सेव्यते पिता ।
आशयाश्लिष्यति जगन्नास्ति निष्कारणास्वता ॥ ६।१०
किमुक्त्वा बहु सङ्क्षेपात्कृतं मे सुमहत्प्रियम् ।
निवर्तस्वाश्वमादाय सम्प्राप्तोऽस्मीप्सितं वनम् ॥ ६।११
इत्युक्त्वा स महाबाहुरनुशंसचिकीर्षया ।
भूषणान्यवमुच्यास्मै सन्तप्तमनसे ददौ ॥ ६।१२
मुकुटोद्दीप्तकर्माणं मणिमादाय भास्वरम् ।
ब्रुवन् वाक्यमिदं तस्थौ सादित्य इव मन्दरः ॥ ६।१३
अनेन मणिना छन्द प्रणम्य बहुशो नृपः ।
विज्ञाप्योऽमुक्तविश्रम्भं सन्तापविनिवृत्तये ॥ ६।१४
जरामरणनाशार्थं प्रविष्टोऽस्मि तपोवनम् ।
न खलु स्वर्गतर्षेण नास्नेहेन न मन्युना ॥ ६।१५
तदेवमभिनिष्क्रान्तं न मां शोचितुमर्हसि ।
भूत्वापि हि चिरं श्लेषः कालेन न भविष्यति ॥ ६।१६
ध्रुवो यस्माच्च विश्लेषस्तस्मान्मोक्षाय मे मतिः ।
विप्रयोगः कथं न स्याद्भूयोऽपि स्वजनादिभिः ॥ ६।१७
शोकत्यागाय निष्क्रान्तं न मां शोचितुमर्हसि ।
शोकहेतुषु कामेषु सक्ताः शोच्यास्तु रागिणः ॥ ६।१८
अयं च किल पूर्वेषामस्माकं निश्चयः स्थिरः ।
इति दायादभूतेन न शोच्योऽस्मि पथा व्रजन् ॥ ६।१९
भवन्ति ह्यर्थदायादाः पुरुषस्य विपर्यये ।
पृथिव्यां धर्मदायादा दुर्लभास्तु न सन्ति वा ॥ ६।२०
यदपि स्यादसमये यातो वनमसाविति ।
अकालो नास्ति धर्मस्य जीविते चञ्चले सति ॥ ६।२१
तस्मादद्यैव मे श्रेयश्चेतव्यमिति निश्चयः ।
जीविते को हि विश्रम्भो मृत्यौ प्रत्यर्थिनि स्थिते ॥ ६।२२
एवमादि त्वया सौम्य विज्ञाप्यो वसुधाधिपः ।
प्रयतेथास्तथा चैव यथा मां न स्मरेदपि ॥ ६।२३
अपि नैर्गुण्यमस्माकं वाच्यं नरपतौ त्वया ।
नैर्गुण्यात्त्यज्यते स्नेहः स्नेहत्यागान्न शोच्यते ॥ ६।२४
इति वाक्यमिदं श्रुत्वा छन्दः सन्तापविक्लवः ।
वाष्पग्रथितया वाचा प्रत्युवाच कृताञ्जलिः ॥ ६।२५
अनेन तव भावेन बान्धवायासदायिना ।
भर्तः सीदति मे चेतो नदीपङ्क इव द्विपः ॥ ६।२६
कस्य नोत्पादयेद्वाष्पं निश्चयस्तेऽयमीदृशः ।
अयोमयेऽपि हृदये किं पुनः स्नेहविक्लवे ॥ ६।२७
विमानशयनार्हं हि सौकुमार्यमिदं क्व च ।
खरदर्भाङ्कुरवती तपोवनमही क्व च ॥ ६।२८
श्रुत्वा तु व्यवसायं ते यदश्वोऽयं मया हृतः ।
बलात्कारेण तन्नाथ दैवेनैवास्मि कारितः ॥ ६।२९
कथं ह्यात्मवशो जानन् व्यवसायमिमं तव ।
उपानयेयं तुरगं शोकं कपिलवस्तुनः ॥ ६।३०
तन्नार्हसि महाबाहो विहातुं पुत्रलालसम् ।
स्निग्धं वृद्धं च राजानं सद्धर्ममिव नास्तिकः ॥ ६।३१
संवर्धनपरिश्रान्तां द्वितीयां तां च मातरम् ।
देव नार्हसि विस्मर्तुं कृतघ्न इव सत्क्रियाम् ॥ ६।३२
बालपुत्रां गुणवतीं कुलश्लाघ्यां पतिव्रताम् ।
देवीमर्हसि न त्यक्तुं क्लीवः प्राप्तामिव श्रियम् ॥ ६।३३
पुत्रं याशोधरं श्लाघ्यं यशोधर्मभृतां वरः ।
बालमर्हसि न त्यक्तुं व्यसनीवोत्तमं यशः ॥ ६।३४
अथ बन्धुं च राज्यं च त्यक्तुमेव कृता मतिः ।
मां नार्हसि विभो त्यक्तुं त्वत्पादौ हि गतिर्मम ॥ ६।३५
नास्मि यातुं पुरं शक्तो दह्यमानेन चेतसा ।
त्वामरण्ये परित्यज्य सुमित्र इव राघवम् ॥ ६।३६
किं हि वक्ष्यति राजा मां त्वदृते नगरं गतम् ।
वक्ष्याम्युचितदर्शित्वात्किं तवान्तःपुराणि वा ॥ ६।३७
यदप्यात्थापि नैर्गुण्यं वाच्यं नरपताविति ।
किं तद्वक्ष्याम्यभूतं ते निर्दोषस्य मुनेरिव ॥ ६।३८
हृदयेन सलज्जेन जिह्वया सज्जमानया ।
अहं यद्यपि वा ब्रूयां कस्तच्च्रद्धातुमर्हति ॥ ६।३९
यो हि चन्द्रमसस्तैक्ष्ण्य कथयेच्छ्रद्दधीत वा ।
स दोषांस्तव दोषज्ञ कथयेच्च्रद्दधीत वा ॥ ६।४०
सानुक्रोशस्य सततं नित्यं करुणवेदिनः ।
स्निग्धत्यागो न सदृशो निवर्तस्व प्रसीद मे ॥ ६।४१
इति शोकाभिभूतस्य श्रुत्वा छन्दस्य भाषितम् ।
स्वस्थः परमया धृत्या जगाद वदतां वरः ॥ ६।४२
मद्वियोगं प्रति च्चन्द सन्तापस्त्यज्यतामयम् ।
नानाभावो हि नियतं पृथग्जातिषु देहिषु ॥ ६।४३
स्वजनं यद्यपि स्नेहान्न त्यजेयं मुमुक्षया ।
मृत्युरन्योन्यमवशानस्मान् सन्त्याजयिष्यति ॥ ६।४४
महत्या तृष्णया दुःखैर्गर्भेणास्मि यया धृतः ।
तस्या निष्फलयत्नायाः क्वाहं मातुः क्व सा मम ॥ ६।४५
वासवृक्षे समागम्य विगच्चन्ति यथाण्डजाः ।
नियतं विप्रयोगान्तस्तथा भूतसमागमः ॥ ६।४६
समेत्य च यथा भूयो व्यपयान्ति वलाहकाः ।
संयोगो विप्रयोगश्च तथा मे प्राणिनां मतः ॥ ६।४७
यस्माद्याति च लोकोऽयं विप्रलभ्य परस्परम् ।
ममत्वं न क्षमं तस्मात्स्वप्नभूते समागमे ॥ ६।४८
सहजेन वियुज्यन्ते पर्णरागेण पादपाः ।
अन्येनान्यस्य विश्लेषः किं पुनर्न भविष्यति ॥ ६।४९
तदेवं सति सन्तापं मा कार्षीः सौम्य गम्यताम् ।
लम्बते यदि तु स्नेहो गत्वापि पुनराव्रज ॥ ६।५०
ब्रूयाश्चास्मास्वनाक्षेपं जनं कपिलवस्तुनि ।
त्यज्यतां तद्गतः स्नेहः श्रूयतां चास्य निश्चयः ॥ ६।५१
क्षिप्रमेष्यति वा कृत्वा जरामृत्युक्षयं किल ।
अकृतार्थो निरालम्बो निधनं यास्यतीति वा ॥ ६।५२
इति तस्य वचः श्रुत्वा कन्थकस्तुरगोत्तमः ।
जिह्वया लिलिहे पादौ वाष्पमुष्णं मुमोच च ॥ ६।५३
जालिना स्वस्तिकाङ्केन वक्रमध्येन पाणिना ।
आममर्श कुमारस्तं बभाषे च वयस्यवत् ॥ ६।५४
मुञ्च कन्थक मा वाष्पं दर्शितेयं सदश्वता ।
मृष्यतां सफलः शीघ्रं श्रमस्तेऽयं भविष्यति ॥ ६।५५
मणित्सरुं छन्दकहस्तसंस्थं ततः स धीरो निशितं गृहीत्वा ।
कोशादसिं काञ्चनभक्तिचित्रं विलादिवाशीविषमुद्बबर्ह ॥ ६।५६
निष्कास्य तं चोत्पलपत्त्रनीलं चिच्छेद चित्रं मुकुटं सकेशम् ।
विकीर्यमाणांशुकमन्तरीक्षे चिक्षेप चैनं सरसीव हंसम् ॥ ६।५७
पूजाभिलाषेण च बाहुमान्याद्दिवौकसस्तं जगृहुः प्रविद्धम् ।
यथावदेनं दिवि देवसङ्घा दिव्यैर्विशेषैर्महयां च चक्रुः ॥ ६।५८
मुक्त्वा त्वलङ्कारकलत्रवत्तां श्रीविप्रवासं शिरसश्च कृत्वा ।
दृष्ट्वांशुकं काञ्चनहंसचित्रम् वन्यं स धीरोऽभिचकाङ्क्ष वासः ॥ ६।५९
ततो मृगव्याधवपुर्दिवौका भावं विदित्वास्य विशुद्धभावः ।
काषायवस्त्रोऽभिययौ समीपं तं शाक्यराजप्रभवोऽभ्युवाच ॥ ६।६०
शिवं च काषायमृषिध्वजस्ते न युज्यते हिंस्रमिदं धनुश्च ।
तत्सौम्य यद्यस्ति न सक्तिरत्र मह्यं प्रयच्चेदमिदं गृहाण ॥ ६।६१
व्याधोऽब्रवीत्कामद काममारादनेन विश्वास्य मृगान् निहत्य ।
अर्थस्तु शक्रोपम यद्यनेन हन्त प्रतीच्चानय शुक्लमेतत् ॥ ६।६२
परेण हर्षेण ततः स वन्यं जग्राह वासोऽंशुकमुत्ससर्ज ।
व्याधस्तु दिव्यं वपुरेव बिभ्रत् तच्चुक्लमादाय दिवं जगाम ॥ ६।६३
ततः कुमारश्च स चाश्वगोपस्तस्मिंस्तथा याति विसिस्मियाते ।
आरण्यके वाससि चैव भूयस्तस्मिन्नकार्ष्टां बहुमानमाशु ॥ ६।६४
छन्दं ततः साश्रुमुखं विसृज्य काषायसंविद्वृतकीर्तिभृत्सः ।
येनाश्रमस्तेन ययौ महात्मा सन्ध्याभ्रसंवीत इवाद्रिराजः ॥ ६।६५
ततस्तथा भर्तरि राज्यनिःस्पृहे तपोवनं याति विवर्णवाससि ।
भुजौ समुत्क्षिप्य ततः स वाजिभृद्भृशं विचुक्रोश पपात च क्षितौ ॥ ६।६६
विलोक्य भूयश्च रुरोद सस्वरं हयं भुजाभ्यामुपगुह्य कन्थकम् ।
ततो निराशो विलपन्मुहुर्मुहुर्ययौ शरीरेण पुरं न चेतसा ॥ ६।६७
क्वचित्प्रदध्यौ विललाप च क्वचित् क्वचित्प्रचस्खाल पपात च क्वचित् ।
अतो व्रजन् भक्तिवशेन दुःखितश्चचार बह्वीरवशः पथि क्रियाः ॥ ६।६८
इति श्रीबुद्धचरिते महाकाव्ये चन्दकनिवर्तनं नाम षष्ठः सर्गः ॥ ६ ॥
Book VII [तपोवनप्रवेशो]
ततो विसृज्याश्रुमुखं रुदन्तं छन्दं वनच्छन्दतया निरास्थः ।
सर्वार्थसिद्धो वपुषाभिभूय तमाश्रमं सिद्धमिव प्रपेदे ॥ ७।१
स राजसूनुर्मृगराजगामी मृगाजिरं तन्मृगवत् प्रविष्टः ।
लक्ष्मीवियुक्तोऽपि शरीरलक्ष्म्या चक्षूंषि सर्वाश्रमिणां जहार ॥ ७।२
स्थिता हि हस्तस्थयुगास्तथैव कौतूहलाच्चक्रधराः सदाराः ।
तमिन्द्रकल्पं ददृशुर्न जग्मुर्धुर्या इवार्धावनतैः शिरोभिः ॥ ७।३
विप्राश्च गत्वा बहिरिध्महेतोः प्राप्ताः समित्पुष्पपवित्रहस्ताः ।
तपःप्रधानाः कृतबुद्धयोऽपि तं द्रष्टुमीयुर्न मठानभीयुः ॥ ७।४
हृष्टाश्च केका मुमुचुर्मयूरा दृष्ट्वाम्बुदं नीलमिवोन्नमन्तम् ।
शष्पाणि हित्वाभिमुखाश्च तस्थुर्मृगाश्चलाक्षा मृगचारिणश्च ॥ ७।५
दृष्ट्वा तमिक्ष्वाकुकुलप्रदीपं ज्वलन्तमुद्यन्तमिवांशुमन्तम् ।
कृतेऽपि दोहे जनितप्रमोदाः प्रसुस्रुवुर्होमदुहश्च गावः ॥ ७।६
कश्चिद्वसूनामयमष्टमः स्यात्स्यादश्विनोरन्यतरश्च्युतोऽत्र ।
उच्छेरुरुच्छैरिति तत्र वाचस्तद्दर्शनाद्विस्मयजा मुनीनाम् ॥ ७।७
लेखर्षभस्येव वपुर्द्वितीयं धामेव लोकस्य चराचरस्य ।
स द्योतयामास वनं हि कृत्स्नं यदृच्चया सूर्य इवावतीर्णः ॥ ७।८
ततः स तैराश्रमिभिर्यथावदभ्यर्चितश्चोपनिमन्त्रितश्च ।
प्रत्यर्चयां धर्मभृतो बभूव स्वरेण भाद्राम्बुधरोपमेन ॥ ७।९
कीर्णं ततः पुण्यकृता जनेन स्वर्गाभिकामेन विमोक्षकामः ।
तमाश्रमं सोऽनुचचार धीरस्तपांसि चित्राणि निरीक्षमाणः ॥ ७।१०
तपोविकारांश्च निरीक्ष्य सौम्यस्तपोवने तत्र तपोधनानाम् ।
तपस्विनं कञ्चिदनुव्रजन्तं तत्त्वं विजिज्ञासुरिदं बभाषे ॥ ७।११
तत्पूर्वमद्याश्रमदर्शनं मे यस्मादिमं धर्मविधिं न जाने ।
तस्माद्भवानर्हति भाषितुं मे यो निश्चयो यं प्रति वः प्रवृत्तः ॥ ७।१२
ततो द्विजातिः स तपोविहारः शाक्यर्षभायर्षभविक्रमाय ।
क्रमेन तस्मै कथयाञ्चकार तपोविशेषं तपसः फलं च ॥ ७।१३
अग्राम्यमन्नं सलिलप्ररूढं पर्णानि तोयं फलमूलमेव ।
यथागमं वृत्तिरियं मुनीनां भिन्नास्तु ते ते तपसां विकल्पाः ॥ ७।१४
उञ्छेन जीवन्ति खगा इवान्ये तृणानि केचिन्मृगवच्छरन्ति ।
केचिद्भुजङ्गैः सह वर्तयन्ति वल्मीकभूता इव मारुतेन ॥ ७।१५
अश्मप्रयत्नार्जितवृत्तयोऽन्ये केचित्स्वदन्तापहतान्नभक्षाः ।
कृत्वा परार्थं श्रपणं तथान्ये कुर्वन्ति कार्यं यदि शेषमस्ति ॥ ७।१६
केचिज्जलक्लिन्नजटाकलापा द्विः पावकं जुह्वति मन्त्रपूर्वम् ।
मीनैः समं केचिदपो विगाह्य वसन्ति कूर्मोल्लिखितैः शरीरैः ॥ ७।१७
एवंविधैः कालचितैस्तपोभिः परैर्दिवं यान्त्यपरैर्नृलोकम् ।
दुःखेन मार्गेण सुखं क्षियन्ति दुःखं हि धर्मस्य वदन्ति मूलम् ॥ ७।१८
इत्येवमादि द्विपदेन्द्रवत्सः श्रुत्वा वचस्तस्य तपोधनस्य ।
अदृष्टतत्त्वोऽपि न सन्तुतोष शनैरिदं चात्मगतं जगाद ॥ ७।१९
दुःखात्मकं नैकविधं तपश्च स्वर्गप्रधानं तपसः फलं च ।
लोकाश्च सर्वे परिणामवन्तः स्वल्पे श्रमः खल्वयमाश्रमाणाम् ॥ ७।२०
श्रियं च बन्धून् विषयांश्च हित्वा ये स्वर्गहेतौ नियमं चरन्ति ।
ते विप्रयुक्ताः खलु गन्तुकामा महत्तरं स्वं वनमेव भूयः ॥ ७।२१
कायक्लमैर्यश्च तपोऽभिधानैः प्रवृत्तिमाकाङ्क्षति कामहेतोः ।
संसारदोषानपरीक्षमाणो दुःखेन सोऽन्विच्चति दुःखमेव ॥ ७।२२
त्रासश्च नित्यं मरणात्प्रजानां यत्नेन चेच्छन्ति पुनः प्रसूतिम् ।
सत्यां प्रवृत्तौ नियतश्च मृत्युस्तत्रैव मग्नो यत एव भीतः ॥ ७।२३
इहार्थमेके प्रविशन्ति खेदं स्वर्गार्थमन्ये श्रममाप्नुवन्ति ।
सुखार्थमाशाकृपणोऽकृतार्थः पतत्यनर्थे खलु जीवलोकः ॥ ७।२४
न खल्वयं गर्हित एव यत्नो यो हीनमुत्सृज्य विशेषगामी ।
प्राज्ञैः समानेन परिश्रमेण कार्यं तु तद्यत्र पुनर्न कार्यम् ॥ ७।२५
शरीरपीडा तु यदीह धर्मः सुखं शरीरस्य भवत्यधर्मः ।
धर्मेण चाप्नोति सुखं परत्र तस्मादधर्मं फलतीह धर्मः ॥ ७।२६
यतः शरीरं मनसो वशेन प्रवर्तते वापि निवर्तते वा ।
युक्तो दमश्चेतस एव तस्माच्छित्तादृते काष्ठसमं शरीरम् ॥ ७।२७
आहारशुद्ध्या यदि पुण्यमिष्टं तस्मान्मृगाणामपि पुण्यमस्ति ।
ये चापि बाह्याः पुरुषाः फलेभ्यो भाग्यापराधेन पराङ्मुखत्वात् ॥ ७।२८
दुःखेऽभिसन्धिस्त्वथ पुण्यहेतुः सुखेऽपि कार्यो ननु सोऽभिसन्धिः ।
अथ प्रमाणं न सुखेऽभिसन्धिर्दुःखे प्रमाणं ननु नाभिसन्धिः ॥ ७।२९
तथैव ये कर्मविशुद्धिहेतोः स्पृशन्त्यपस्तीर्थमिति प्रवृत्ताः ।
तत्रापि तोषो हृदि केवलोऽयं न पावयिष्यन्ति हि पापमापः ॥ ७।३०
स्पृष्टं हि यद्यद्गुणवद्भिरम्भस्तत्तत्पृथिव्यां यदि तीर्थमिष्टम् ।
तस्माद्गुणानेव परैमि तीर्थमापस्तु निःसंशयमाप एव ॥ ७।३१
इति स्म तत्तद्बहुयुक्तियुक्तं जगाद चास्तं च ययौ विवस्वान् ।
ततो हविर्धूमविवर्णवृक्षं तपःप्रशान्तं स वनं विवेश ॥ ७।३२
अभ्युद्धृतप्रज्वलिताग्निहोत्रं कृताभिषेकर्षिजनावकीर्णम् ।
जाप्यस्वनाकूजितदेवकोष्ठं धर्मस्य कर्मान्तमिव प्रवृत्तम् ॥ ७।३३
काश्चिन्निशास्तत्र निशाकराभः परीक्षमाणश्च तपांस्युवास ।
सर्वं परिक्षेप्य तपश्च मत्वा तस्मात्तपःक्षेत्रतलाज्जगाम ॥ ७।३४
अन्वव्रजन्नाश्रमिणस्ततस्तं तद्रूपमाहात्म्यगतैर्मनोभिः ।
देशादनार्यैरभिभूयमानान्महार्षयो धर्ममिवापयान्तम् ॥ ७।३५
ततो जटावल्कलचीरखेलांस्तपोधनांश्चैव स तान्ददर्श ।
तपांसि चैषामनुबुध्यमानस्तस्थौ शिवे श्रीमति मार्गवृक्षे ॥ ७।३६
अथोपसृत्याश्रमवासिनस्तं मनुष्यवर्यं परिवार्य तस्थुः ।
वृद्धश्च तेषां बहुमानपूर्वं कलेन साम्ना गिरमित्युवाच ॥ ७।३७
त्वय्यागते पूर्ण इवाश्रमोऽभूत्सम्पद्यते शून्य इव प्रयाते ।
तस्मादिमं नार्हसि तात हातुं जिजीविषोर्देहमिवेष्टमायुः ॥ ७।३८
ब्रह्मर्षिराजर्षिसुरर्षिजुष्टः पुण्यः समीपे हिमवान् हि शैलः ।
तपांसि तान्येव तपोधनानां यत्सन्निकर्षाद्बहुलीभवन्ति ॥ ७।३९
तीर्थानि पुण्यान्यभितस्तथैव सोपानभूतानि नभस्तलस्य ।
जुष्टानि धर्मात्मभिरात्मवद्भिर्देवर्षिभिश्चैव महार्षिभिश्च ॥ ७।४०
इतश्च भूयः क्षममुत्तरैव दिक्सेवितुं धर्मविशेषहेतोः ।
न हि क्षमं दक्षिणतो बुधेन पदं भवेदेकमपि प्रयातुम् ॥ ७।४१
तपोवनेऽस्मिन्नथ निष्क्रियो वा सङ्कीर्णधर्मा पतितोऽशुचिर्वा ।
दृष्टस्त्वया येन न ते विवत्सा तद्ब्रूहि यावद्रुचितोऽस्तु वासः ॥ ७।४२
इमे हि वांछन्ति तपःसहायं तपोनिधानप्रतिमं भवन्तम् ।
वासस्त्वया हीन्द्रसमेन सार्धं बृहस्पतेरभ्युदयावहः स्यात् ॥ ७।४३
इत्येवमुक्ते स तपस्विमध्ये तपस्विमुख्येन मनीषिमुख्यः ।
भवप्रणाशाय कृतप्रतिज्ञः स्वं भावमन्तर्गतमाचचक्षे ॥ ७।४४
ऋज्वात्मनां धर्मभृतां मुनीनामिष्टातिथित्वात्स्वजनोपमानम् ।
एवंविधैर्मां प्रति भावजातैः प्रीतिः परात्मा जनितश्च मार्गः ॥ ७।४५
स्निग्धाभिराभिर्हृदयङ्गमाभिः समासतः स्नात इवास्मि वाग्भिः ।
रतिश्च मे धर्मनवग्रहस्य विस्पन्दिता सम्प्रति भूय एव ॥ ७।४६
एवं प्रवृत्तान् भवतः शरण्यानतीव सन्दर्शितपक्षपातान् ।
यास्यामि हित्वेति ममापि दुःखं यथैव बन्धूंस्त्यजतस्तथैव ॥ ७।४७
स्वर्गाय युष्माकमयं तु धर्मो ममाभिलाषस्त्वपुनर्भवाय ।
अस्मिन् वने येन न मे विवत्सा भिन्नः प्रवृत्त्या हि निवृत्तिधर्मः ॥ ७।४८
तन्नारतिर्मे न परापचारो वनादितो येन परिव्रजामि ।
धर्मे स्थिताः पूर्वयुगानुरूपे सर्वे भवन्तो हि महार्षिकल्पाः ॥ ७।४९
ततो वचः सूनृतमर्थवच्छ सुश्लक्ष्णमोजस्वि च गर्वितं च ।
श्रुत्वा कुमारस्य तपस्विनस्ते विशेषयुक्तं बहुमानमीयुः ॥ ७।५०
कश्चिद्द्विजस्तत्र तु भस्मशायी प्रांशुः शिखी दारवचीरवासाः ।
आपिङ्गलाक्षस्तनुदीर्घघोणः कुण्डोदहस्तो गिरमित्युवाच ॥ ७।५१
धीमन्नुदारः खलु निश्चयस्ते यस्त्वं युवा जन्मनि दृष्टदोषः ।
स्वर्गापवर्गौ हि विचार्य सम्यग्यस्यापवर्गे मतिरस्ति सोऽस्ति ॥ ७।५२
यज्ञैस्तपोभिर्नियमैश्च तैस्तैः स्वर्गं यियासन्ति हि रागवन्तः ।
रागेण सार्धं रिपुणेव युद्ध्वा मोक्षं परीप्सन्ति तु सत्त्ववन्तः ॥ ७।५३
तद्बुद्धिरेषा यदि निश्चिता ते तूर्णं भवान् गच्छतु विन्ध्यकोष्ठम् ।
असौ मुनिस्तत्र वसत्यराडो यो नैष्ठिके श्रेयसि लब्धचक्षुः ॥ ७।५४
तस्माद्भवाञ्छ्रोष्यति तत्त्वमार्गं सत्यां रुचौ सम्प्रतिपत्स्यते च ।
यथा तु पश्यामि मतिस्तवैषा तस्यापि यास्यत्यवधूय बुद्धिम् ॥ ७।५५
पुष्टाश्वघोणं विपुलायताक्षं ताम्राधरोष्ठं सिततीक्ष्णदंष्ट्रम् ।
इदं हि वक्त्रं तनुरक्तजिह्वं ज्ञेयार्णवं पास्यति कृत्स्नमेव ॥ ७।५६
गम्भीरता या भवतस्त्वगाधा या दीप्तता यानि च लक्षणानि ।
आचार्यकं प्राप्स्यसि तत्पृथिव्यां यन्नर्षिभिः पूर्वयुगेऽप्यवाप्तम् ॥ ७।५७
परममिति ततो नृपात्मजस्तमृषिजनं प्रतिनन्द्य निर्ययौ ।
विधिवदनुविधाय तेऽपि तं प्रविविशुराश्रमिणस्तपोवनम् ॥ ७।५८
इति श्रीबुद्धचरिते महाकाव्ये तपोवनप्रवेशो नाम सप्तमः सर्गः ॥ ७ ॥
Book VIII [अन्तःपुरविलापो]
ततस्तुरङ्गावचरः स दुर्मनास्तथा वनं भर्तरि निर्ममे गते ।
चकार यत्नं पथि शोकविग्रहे तथापि चैवाश्रु न तस्य चिक्षिपे ॥ ८।१
यमेकरात्रेण तु भर्तुराज्ञया जगाम मार्गं सह तेन वाजिना ।
इयाय भर्तुर्विरहं विचिन्तयंस्तमेव पन्थानमहोभिरष्टभिः ॥ ८।२
हयश्च सौजस्वि चचार कन्थकस्तताम भावेन बभूव निर्मदः ।
अलङ्कृतश्चापि तथैव भूषणैरभूद्गतश्रीरिव तेन वर्जितः ॥ ८।३
निवृत्य चैवाभिमुखस्तपोवनं भृशं जिहेषे करुणं मुहुर्मुहुः ।
क्षुधान्वितोऽप्यध्वनि शष्पमम्बु वा यथा पुरा नाभिननन्द नाददे ॥ ८।४
ततो विहीनं कपिलाह्वयं पुरं महात्मना तेन जगद्धितात्मना ।
क्रमेण तौ शून्यमिवोपजग्मतुर्दिवाकरेणेव विनाकृतं नभः ॥ ८।५
सपुण्डरीकैरपि शोभितं जलैरलङ्कृतं पुष्पधरैर्नगैरपि ।
तदेव तस्योपवनं वनोपमं गतप्रहर्षैर्न रराज नागरैः ॥ ८।६
ततो भ्रमद्भिर्दिशि दीनमानसैरनुज्ज्वलैर्वाष्पहतेक्षणैर्नरैः ।
निवार्यमाणाविव तावुभौ पुरं शनैरजःस्नातमिवाभिजग्मतुः ॥ ८।७
निशम्य च स्रस्तशरीरगामिनौ विनागतौ शाक्यकुलर्षभेण तौ ।
मुमोच वाष्पं पथि नागरो जनः पुरा रथे दाशरथेरिवागते ॥ ८।८
अथ ब्रुवन्तः समुपेतमन्यवो जनाः पथि च्चन्दकमागताश्रवः ।
क्व राजपुत्रः कुलराष्ट्रवर्धनो हृतस्त्वयासाविति पृष्ठतोऽन्वयुः ॥ ८।९
ततः स तान् भक्तिमतोऽब्रवीज्जनान्नरेन्द्रपुत्रं न परित्यजाम्यहम् ।
रुदन्नहं तेन तु निर्जने वने गृहस्थवेशश्च विसर्जिताविति ॥ ८।१०
इदं वचस्तस्य निशम्य ते जनाः सुदुष्करं खल्विति निश्चयं ययुः ।
पतद्विजह्रुः सलिलं न नेत्रजं मनो निनिन्दुश्च फलार्थमात्मनः ॥ ८।११
अथोचुरद्यैव विशाम तद्वनं गतः स यत्र द्विपराजविक्रमः ।
जिजीविषा नास्ति हि तेन नो विना यथेन्द्रियाणां विगमे शरीरिणाम् ॥ ८।१२
इदं पुरं तेन विवर्जितं वनं वनं च तत्तेन समन्वितं पुरम् ।
न शोभते तेन हि नो विना पुरं मरुत्वता वृत्रवधे यथा दिवम् ॥ ८।१३
पुनः कुमारो विनिवृत्त इत्यथौ गवाक्षमालाः प्रतिपेदिरेऽङ्गनाः ।
विविक्तपृष्ठं च निशम्य वाजिनं पुनर्गवाक्षाणि पिधाय चुक्रुशुः ॥ ८।१४
प्रविष्टदीक्षस्तु सुतोपलब्धये व्रतेन शोकेन च खिन्नमानसः ।
जजाप देवायतने नराधिपश्चकार तास्ताश्च यथाश्रयाः क्रियाः ॥ ८।१५
ततः स वाष्पप्रतिपूर्णलोचनस्तुरङ्गमादाय तुरङ्गमानसः ॥ ८।१६
विवेश शोकाभिहतो नृपालयं क्षयं विनीते रिपुणेव भर्तरि ॥
विगाहमानश्च नरेन्द्रमन्दिरं विलोकयन्नश्रुवहेन चक्षुषा ।
स्वरेण पुष्टेन रुराव कन्थको जनाय दुःखं प्रतिवेदयन्निव ॥ ८।१७
ततः खगाश्च क्षयमध्यगोचराः समीपबद्धास्तुरगाश्च सत्कृताः ।
हयस्य तस्य प्रतिसस्वनुः स्वनं नरेन्द्रसूनोरुपयानशङ्किताः ॥ ८।१८
जनाश्च हर्षातिशयेन वञ्चिता जनाधिपान्तःपुरसन्निकर्षगाः ।
यथा हयः कन्थक एष हेषते ध्रुवं कुमारो विशतीति मेनिरे ॥ ८।१९
अतिप्रहर्षादथ शोकमूर्छिताः कुमारसन्दर्शनलोललोचनाः ।
गृहाद्विनिश्चक्रमुराशया स्त्रियः शरत्पयोदादिव विद्युतश्चलाः ॥ ८।२०
विलम्बवेश्यो मलिनांशुकांबरा निरञ्जनैर्वाष्पहतेक्षणैर्मुखैः ।
स्त्रियो न रेजुर्मृजया विनाकृता दिवीव तारा रजनीक्षयारुणाः ॥ ८।२१
अरक्तताम्रैश्चरणैरनूपुरैरकुण्डलैरार्जवकर्णिकैर्मुखैः ।
स्वभावपीनैर्जघनैरमेखलैरहारयोक्त्रैर्मुषितैरिव स्तनैः ॥ ८।२२
निरीक्षिता वाष्पपरीतलोचनं निराश्रयं चन्दकमश्वमेव च ।
विवर्णवक्त्रा रुरुदुर्वराङ्गना वनान्तरे गाव इवर्षभोज्झिताः ॥ ८।२३
ततः सवाष्पा महिषी महीपतेः प्रनष्टवत्सा महिषीव वत्सला ।
प्रगृह्य बाहू निपपात गौतमी विलोलपर्णा कदलीव काञ्चनी ॥ ८।२४
हतत्विषोऽन्याः शिथिलात्मबाहवः स्त्रियो विषादेन विचेतना इव ।
न चुक्रुशुर्नाश्रु जहुर्न शश्वसुर्न चेतना उल्लिखिता इव स्थिताः ॥ ८।२५
अधीरमन्याः पतिशोकमूर्छिता विलोचनप्रस्रवणैर्मुखैः स्त्रियः ।
सिषिञ्चिरे प्रोषितचन्दनान् स्तनान् धराधरः प्रस्रवणैरिवोपलान् ॥ ८।२६
मुखैश्च तासां नयनाम्बुताडितैः रराज तद्राजनिवेशनं तदा ।
नवाम्बुकालेऽंबुदवृष्टिताडितैः स्रवज्जलैस्तामरसैर्यथा सरः ॥ ८।२७
सुवृत्तपीनाङ्गुलिभिर्निरन्तरैरभूषणैर्गूढशिरैर्वराङ्गनाः ।
उरांसि जघ्नुः कमलोपमैः करैः स्वपल्लवैर्वातचला लता इव ॥ ८।२८
करप्रहारप्रचलैश्च ता बभुर्यथापि नार्यः सहितोन्नतैः स्तनैः ।
वनानिलाघूर्णितपद्मकम्पितैः रथाङ्गनाम्नां मिथुनैरिवापगाः ॥ ८।२९
यथा च वक्षांसि करैरपीडयंस्तथैव वक्षोभिरपीडयन् करान् ।
अकारयंस्तत्र परस्परं व्यथाः कराग्रवक्षांस्यबला दयालसाः ॥ ८।३०
ततस्तु रोषप्रविरक्तलोचना विषादसम्बन्धकषायगद्गदम् ।
उवाच निःश्वासचलत्पयोधरा विगाधशोकाश्रुधरा यशोधरा ॥ ८।३१
निशि प्रसुप्तामवशां विहाय मां गतः क्व स च्चन्दक मन्मनोरथः ।
उपागते च त्वयि कन्थके च मे समं गतेषु त्रिषु कम्पते मनः ॥ ८।३२
अनार्यमस्निद्घममित्रकर्म मे नृशंस कृत्वा किमिहाद्य रोदिषि ।
नियच्च वाष्पं भव तुष्टमानसो न संवदत्यश्रु च तच्छ कर्म ते ॥ ८।३३
प्रियेण वश्येन हितेन साधुना त्वया सहायेन यथार्थकारिणा ।
गतोऽर्यपुत्रो ह्यपुनर्निवृत्तये रमस्व दिष्ट्या सफलः श्रमस्तव ॥ ८।३४
वरं मनुष्यस्य विचक्षणो रिपुर्न मित्रमप्राज्ञमयोगपेशलम् ।
सुहृद्ब्रुवेण ह्यविपश्चिता त्वया कृतः कुलस्यास्य महानुपप्लवः ॥ ८।३५
इमा हि शोच्या व्यवमुक्तभूषणाः प्रसक्तवाष्पाविलरक्तलोचनाः ।
स्थितेऽपि पत्यौ हिमवन्महीसमे प्रनष्टशोभा विधवा इव स्त्रियः ॥ ८।३६
इमाश्च विक्षिप्तविटङ्कबाहवः प्रसक्तपारावतदीर्घनिस्वनाः ।
विनाकृतास्तेन सहैव रोधनैर्भृशं रुदन्तीव विमानपङ्क्तयः ॥ ८।३७
अनर्थकामोऽस्य जनस्य सर्वथा तुरङ्गमोऽपि ध्रुवमेष कन्थकः ।
जहार सर्वस्वमितस्तथा हि मे जने प्रसुप्ते निशि रत्नचौरवत् ॥ ८।३८
यदा समर्थः खलु सोढुमागतानिषुप्रहारानपि किं पुनः कशाः ।
गतः कशापातभयात् कथं त्वयं श्रियं गृहीत्वा हृदयं च मे समम् ॥ ८।३९
अनार्यकर्मा भृशमद्य हेषते नरेन्द्रधिष्ण्यं प्रतिपूरयन्निव ।
यदा तु निर्वाहयति स्म मे प्रियं तदा हि मूकस्तुरगाधमोऽभवत् ॥ ८।४०
यदि ह्यहेषिष्यत बोधयञ्जनं खुरैः क्षितौ वाप्यकरिष्यत ध्वनिम् ।
हनुस्वनं वाजनयिष्यदुत्तमं न चाभविष्यन्मम दुःखमीदृशम् ॥ ८।४१
इतीह देव्याः परिदेविताश्रयं निशम्य वाष्पग्रथिताक्षरं वचः ।
अधोमुखः साश्रुकलः कृताञ्जलिः शनैरिदं छन्दक उत्तरं जगौ ॥ ८।४२
विगर्हितुं नार्हसि देवि कन्थकं न चापि रोषं मयि कर्तुमर्हसि ।
अनागसौ स्वः समवेहि सर्वशो गतो नृदेवः स हि देवि देववत् ॥ ८।४३
अहं हि जानन्नपि राजशासनं बलात्कृतः कैरपि दैवतैरिव ।
उपानयं तूर्णमिमं तुरङ्गमं तथान्वगच्चं विगतश्रमोऽध्वनि ॥ ८।४४
व्रजन्नयं वाजिवरोऽपि नास्पृशन्महीं खुराग्रैर्विधृतैरिवान्तरा ।
तथैव दैवादिव संयताननो हनुस्वनं नाकृत नाप्यहेषत ॥ ८।४५
यदा वहिर्गच्चति पार्थिवात्मजस्तदाभवद्द्वारमपावृतं स्वयम् ।
तमश्च नैशं रविणेव पाटितं ततोऽपि दैवो विधिरेष गृह्यताम् ॥ ८।४६
यदाप्रमत्तोऽपि नरेन्द्रशासनाद्गृहे पुरे चैव सहस्रशो जनः ।
तदा स नाबुध्यत निद्रया हृतस्ततोऽपि दैवो विधिरेष गृह्यताम् ॥ ८।४७
यतश्च वासो वनवाससम्मतं विसृष्टमस्मै समये दिवौकसा ।
दिवि प्रविद्धं मुकुटं च तद्धृतं ततोऽपि दैवो विधिरेष गृह्यताम् ॥ ८।४८
तदेवमावां नरदेवि दोषतो न तत्प्रयातं प्रतिगन्तुमर्हसि ।
न कामकारो मम नास्य वाजिनः कृतानुयात्रः स हि दैवतैर्गतः ॥ ८।४९
इति प्रयाणं बहुधैवमद्भुतं निशम्य तास्तस्य महात्मनः स्त्रियः ।
प्रनष्टशोका इव विस्मयं ययुर्मनोज्वरं प्रव्रजनात्तु लेभिरे ॥ ८।५०
विषादपारिप्लवलोचना ततः प्रनष्टपोता कुररीव दुःखिता ।
विहाय धैर्यं विरुराव गौतमी तताम चैवाश्रुमुखी जगाद च ॥ ८।५१
महोर्मिमन्तो मृदवोऽसिताः शुभाः पृथक्पृथग्मूलरुहाः समुद्गताः ।
प्रचेरितास्ते भुवि तस्य मूर्धजा नरेन्द्रमौलीपरिवेष्टनक्षमाः ॥ ८।५२
प्रलम्बबाहुर्मृगराजविक्रमो महार्षभाक्षः कनकोज्ज्वलद्युतिः ।
विशालवक्षा घनदुन्दुभिस्वनस्तथाविधोऽप्याश्रमवासमर्हति ॥ ८।५३
अभागिनी नूनमियं वसुन्धरा तमार्यकर्माणमनुत्तमं प्रति ।
गतस्ततोऽसौ गुणवान् हि तादृशो नृपः प्रजाभाग्यगुणैः प्रसूयते ॥ ८।५४
सुजातजालावतताङ्गुली मृदू निगूढगुल्फौ विषपुष्पकोमलौ ।
वनान्तभूमिं कठिनां कथं नु तौ सचक्रमध्यौ चरणौ गमिष्यतः ॥ ८।५५
विमानपृष्ठे शयनासनोचितं महार्हवस्त्रागुरुचन्दनार्चितम् ।
कथं नु शीतोष्णजलागमेषु तच्चरीरमोजस्वि वने भविष्यति ॥ ८।५६
कुलेन सत्त्वेन बलेन वर्चसा श्रुतेन लक्ष्म्या वयसा च गर्वितः ।
प्रदातुमेवाभ्युदितो न याचितुं कथं स भिक्षां परतश्चरिष्यति ॥ ८।५७
शुचौ शयित्वा शयने हिरण्मये प्रबोध्यमानो निशि तूर्यनिस्वनैः ।
कथं वत स्वप्स्यति सोऽद्य मे व्रती पटौकदेशान्तरिते महीतले ॥ ८।५८
इमं विलापं करुणं निशम्य ता भुजैः परिष्वज्य परस्परं स्त्रियः ।
विलोचनेभ्यः सलिलानि तत्यजुर्मधूनि पुष्पेभ्य इवेरिता लताः ॥ ८।५९
ततो धरायामपतद्यशोधरा विचक्रवाकेव रथाङ्गसाह्वया ।
शनैश्च तत्तद्विललाप विक्लवा मुहुर्मुहुर्गद्गदरुद्धया गिरा ॥ ८।६०
स मामनाथां सहधर्मचारिणीमपास्य धर्मं यदि कर्तुमिच्छति ।
कुतोऽस्य धर्मः सहधर्मचारिणीं विना तपो यः परिभोक्तुमिच्छति ॥ ८।६१
शृणोति नूनं स न पूर्वपार्थिवान् महासुदर्शप्रभृतीन् पितामहान् ।
वनानि पत्नीसहितानुपेयुषस्तथा स धर्मं मदृते चिकीर्षति ॥ ८।६२
मखेषु वा वेदविधानसंस्कृतौ न दम्पती पश्यति दीक्षितावुभौ ।
समं बुभुक्षू परतोऽपि तत्फलं ततोऽस्य जातो मयि धर्ममत्सरः ॥ ८।६३
ध्रुवं स जानन् मम धर्मवल्लभो मनः प्रियेऽप्याकलहं मुहुर्मिथः ।
सुखं विभीर्मामपहाय रोसणां महेन्द्रलोकेऽप्सरसो जिघृक्षति ॥ ८।६४
इयं तु चिन्ता मम कीदृशं नु ता वपुर्गुणं बिभ्रति तत्र योषितः ।
वने यदर्थं स तपांसि तप्यते श्रियं च हित्वा मम भक्तिमेव च ॥ ८।६५
न खल्वियं स्वर्गसुखाय मे स्पृहा न तज्जनस्यात्मवतोऽपि दुर्लभम् ।
स तु प्रियो मामिह वा परत्र वा कथं न जह्यादिति मे मनोरथः ॥ ८।६६
अभागिनी यद्यहमायतेक्षणं शुचिस्मितं भर्तुरुदीक्षितुं मुखम् ।
न मन्दभाग्योऽर्हति राहुलोऽप्ययं कदाचिदङ्के परिवर्तितुं पितुः ॥ ८।६७
अहो नृशंसं सुकुमारवर्चसः सुदारुणं तस्य मनस्विनो मनः ।
कलप्रलापं द्विषतोऽपि हर्षणं शिशुं सुतं यस्त्यजतीदृशं स्वतः ॥ ८।६८
ममापि कामं हृदयं सुदारुणं शिलामयं वाप्ययसापि वा कृतम् ।
अनाथवच्च्रीरहिते सुखोचिते वनं गते भर्तरि यन्न दीर्यते ॥ ८।६९
इतीह देवी पतिशोकमूर्छिता रुरोद दध्यौ विललाप चासकृत् ।
स्वभावधीरापि हि सा सती शुचा धृतिं न सस्मार चकार नो ह्रियम् ॥ ८।७०
ततस्तथा शोकविलापविक्लवां यशोधरां प्रेक्ष्य वसुन्धरागताम् ।
महारविन्दैरिव वृष्टिताडितैर्मुखैः सवाष्पैर्वनिता विचुक्रुशुः ॥ ८।७१
समाप्तजाप्यः कृतहोममङ्गलो नृपस्तु देवायतनाद्विनिर्ययौ ।
जनस्य तेनार्त्तरवेण चाहतश्चचाल वज्रध्वनिनेव वारणः ॥ ८।७२
निशाम्य च च्छन्दककन्थकावुभौ सुतस्य संश्रुत्य च निश्चयं स्थिरम् ।
पपात शोकाभिहतो महीपतिः शचीपतेर्वृत्त इवोत्सवे ध्वजः ॥ ८।७३
ततो मुहूर्तं सुतशोकमोहितो जनेन तुल्याभिजनेन धारितः ।
निरीक्ष्य दृष्ट्या जलपूर्णया हयं महीतलस्थो विललाप पार्थिवः ॥ ८।७४
बहूनि कृत्वा समरे प्रियाणि मे महत्त्वया कन्थक विप्रियं कृतम् ।
गुणप्रियो येन वने स मे प्रियः प्रियोऽपि सन्नप्रियवत् प्रचेरितः ॥ ८।७५
तदद्य मां वा नय तत्र यत्र स व्रज द्रुतं वा पुनरेनमानय ।
ऋते हि तस्मान्मम नास्ति जीवितं विगाढरोगस्य सदौषधादिव ॥ ८।७६
सुवर्णनिष्ठीविनि मृत्युना हृते सुदुष्करं यन्न ममार सृञ्जयः ।
अहं पुनर्धर्मरतौ सुते गतेऽमुमुक्षुरात्मानमनात्मवानिव ॥ ८।७७
विभोर्दशक्षत्रकृतः प्रजापतेः परापरज्ञस्य विवस्वदात्मनः ।
प्रियेण पुत्रेण सता विनाकृतं कथं न मुह्येद्धि मनो मनोरपि ॥ ८।७८
अजस्य राज्ञस्तनयाय धीमते नराधिपायेन्द्रसखाय मे स्पृहा ।
गते वनं यस्तनये दिवं गतो न मोघवाष्पः कृपणं जिजीव ह ॥ ८।७९
प्रचक्ष्व मे भद्र तदाश्रमाजिरं हृतस्त्वया यत्र स मे जलाञ्जलिः ।
इमे परीप्सन्ति हि ते पिपासवो ममासवः प्रेतगतिं यियासवः ॥ ८।८०
इति तनयवियोगजातदुःखं क्षितिसदृशं सहजं विहाय धैर्यम् ।
दशरथ इव रामशोकवश्यो बहु विललाप नृपो विसञ्ज्ञकल्पः ॥ ८।८१
श्रुतविनयगुणान्वितस्ततस्तं मतिसचिवः प्रवयाः पुरोहितश्च ।
अवधृतमिदमूचतुर्यथावन्न च परितप्तमुखौ न चाप्यशोकौ ॥ ८।८२
त्यज नरवर शोकमेहि धैर्यं कुधृतिरिवार्हसि धीर नाश्रु मोक्तुम् ।
स्रजमिव मृदितामपास्य लक्ष्मीं भुवि बहवो हि नृपा वनान्यतीयुः ॥ ८।८३
अपि च नियत एष तस्य भावः स्मर वचनं तदृषेः पुरासितस्य ।
न हि स दिवि न चक्रवर्तिराज्ये क्षणमपि वासयितुं सुखेन शक्यः ॥ ८।८४
यदि तु नृवर कार्य एव यत्नस्त्वरितमुदाहर यावदत्र यावः ।
बहुविधमिह युद्धमस्तु तावत्तव तनयस्य विधेश्च तस्य तस्य ॥ ८।८५
नरपतिरथ तौ शशास तस्माद्द्रुतमित एव युवामभिप्रयातम् ।
न हि मम हृदयं प्रयाति शान्तिं वनशकुनेरिव पुत्रलालसस्य ॥ ८।८६
परममिति नरेन्द्रशासनात्तौ ययतुरमात्यपुरोहितौ वनं तत् ।
कृतमिति सवधूजनः सदारो नृपतिरपि प्रचकार शेषकार्यम् ॥ ८।८७
इति श्रीबुद्धचरिते महाकाव्येऽन्तःपुरविलापो नामाष्टमः सर्गः ॥ ८ ॥
Book IX [कुमारान्वेषणो]
ततस्तदा मन्त्रिपुरोहितौ तौ वाष्पप्रतोदाभिहतौ नृपेण ।
विद्धौ सदश्वाविव सर्वयत्नात्सौहार्दशीघ्रं ययतुर्वनं तत् ॥ ९।१
तमाश्रमम् जातपरिश्रमौ तावुपेत्य काले सदृशानुयात्रौ ।
राजर्द्धिमुत्सृज्य विनीतचेष्टावुपेयतुर्भार्गवधिष्ण्यमेव ॥ ९।२
तौ न्यायतस्तं प्रतिपूज्य विप्रं तेनार्चितौ तावपि चानुरूपम् ।
कृतासनौ भार्गवमासनस्थं छित्त्वा कथामूचतुरात्मकृत्यम् ॥ ९।३
शुद्धौजसः शुद्धविशालकीर्तेरिक्ष्वाकुवंशप्रभवस्य राज्ञः ।
इमं जनं वेत्तु भवानधीरं श्रुतग्रहे मन्त्रपरिग्रहे च ॥ ९।४
तस्येन्द्रकल्पस्य जयन्तकल्पः पुत्रो जरामृत्युभयं तितीर्षुः ।
इहाभ्युपेतः किल तस्य हेतोरावामुपेतौ भगवानवैतु ॥ ९।५
तौ सोऽब्रवीदस्ति स दीर्घबाहुः प्राप्तः कुमारो न तु नावबुद्धः ।
धर्मोऽयमावर्तक इत्यवेत्य यातस्त्वराडाभिमुखो मुमुक्षुः ॥ ९।६
तस्मात्ततस्तावुपलभ्य तत्त्वं तं विप्रमामन्त्त्य तदैव सद्यः ।
खिन्नावखिन्नाविव राजपुत्रः प्रसस्रतुस्तेन यतः स यातः ॥ ९।७
यान्तौ ततस्तौ सृजया विहीनमपश्यतां तं वपुषा ज्वलन्तम् ।
नृपोपविष्टं पथि वृक्षमूले सूर्यं घनाभोगमिव प्रविष्टम् ॥ ९।८
यानं विहायोपययौ ततस्तं पुरोहितो मन्त्रधरेण सार्धम् ।
यथा वनस्थं सहवामदेवो रामं दिदृक्षुर्मुनिरौर्वशेयः ॥ ९।९
तावर्चयामासतुरर्हतस्तं दिवीव शुक्राङ्गिरसौ महेन्द्रम् ।
प्रत्यर्चयामास स चार्हतस्तौ दिवीव शुक्राङ्गिरसौ महेन्द्रः ॥ ९।१०
कृताभ्यनुज्ञावभितस्ततस्तौ निषीदतुः शाक्यकुलध्वजस्य ।
विरेजतुस्तस्य च सन्निकर्षे पुनर्वसू योगगताविवेन्दोः ॥ ९।११
तं वृक्षमूलस्थमभिज्वलन्तं पुरोहितो राजसुतं बभाषे ।
यथोपविष्टं दिवि पारिजाते बृहस्पतिः शक्रसुतं जयन्तम् ॥ ९।१२
त्वच्चोकशल्ये हृदयावगाढे मोहं गतो भूमितले मुहूर्तम् ।
कुमार राजा नयनाम्बुवर्षो यत्त्वामवोचत्तदिदं निबोध ॥ ९।१३
जानामि धर्मं प्रति निश्चयं ते परैमि तेऽच्याविनमेतमर्थम् ।
अहं त्वकाले वनसंश्रयात्ते शोकाग्निनाग्निप्रतिमेन दह्ये ॥ ९।१४
तदेहि धर्मप्रिय मत्प्रियार्थं धर्मार्थमेव त्यज बुद्धिमेताम् ।
अयं हि मा शोकरयः प्रवृद्धो नदीरयः कूलमिवाभिहन्ति ॥ ९।१५
मेघाम्बुकक्षाद्रिषु या हि वृत्तिः समीरणार्काग्निमहाशनीनाम् ।
तां वृत्तिमस्मासु करोति शोको विकर्षणोच्चोषणदाहभेदैः ॥ ९।१६
तद्भुङ्क्ष्व तावद्वसुधाधिपत्यं काले वनं यास्यसि शास्त्रदृष्टे ।
अनिष्टबन्धौ कुरु माप्युपेक्षां सर्वेषु भूतेषु दया हि धर्मः ॥ ९।१७
न चैष धर्मो वन एव सिद्धः पुरेऽपि सिद्धिर्नियता यतीनाम् ।
बुद्धिश्च यत्नश्च निमित्तमत्र वनं च लिङ्गं च हि भीरुचिह्नम् ॥ ९।१८
मौलीधरैरंसविषक्तहारैः केयूरविष्टब्धभुजैर्नरेन्द्रैः ।
लक्ष्म्यङ्कमध्ये परिवर्तमानैः प्राप्तो गृहस्थैरपि मोक्षधर्मः ॥ ९।१९
ध्रुवानुजौ यौ बलिवज्रबाहू वैभ्राजमाषाढमथान्तिदेवम् ।
विदेहराजं जनकं तथैव पाकद्रुमं सेनजितश्च राज्ञः ॥ ९।२०
एतान् गृहस्थान् नृपतीनवेहि नैःश्रेयसे धर्मविधौ विनीतान् ।
उभेऽपि तस्माद्युगपद्भजस्व चित्ताधिपत्यं च नृपश्रियं च ॥ ९।२१
इच्चामि हि त्वामुपगुह्य गाढं कृताभिषेकं सलिलार्द्रमेव ।
धृतातपत्रं समुदीक्षमाणस्तेनैव हर्षेण वनं प्रवेष्टुम् ॥ ९।२२
इत्यब्रवीद्भूमिपतिर्भवन्तं वाक्येन वाष्पग्रथिताक्षरेण ।
श्रुत्वा भवानर्हति तत्प्रियार्थं स्नेहेन तत्स्नेहमनुप्रयातुम् ॥ ९।२३
शोकाम्भसि त्वत्प्रभवे ह्यगाधे दुःखार्णवे मज्जति शाक्यराजः ।
तस्मात्तमुत्तारय नाथहीनं निराश्रयं मग्नमिवार्णवे गाम् ॥ ९।२४
भीष्मेण गङ्गोदरसम्भवेन रामेण रामेण च भार्गवेण ।
श्रुत्वा कृतं कर्म पितुः प्रियार्थं पितुस्त्वमप्यर्हसि कर्तुमिष्टम् ॥ ९।२५
संवर्धयित्रीं च समेहि देवीमगस्त्यजुष्टां दिशमप्रयाताम् ।
प्रनष्टवत्सामिव वत्सलां गामजस्रमार्त्तां करुणं रुदन्तीं ॥ ९।२६
हंसेन हंसीमिव विप्रयुक्तां त्यक्तां गजेनेव वने करेणुम् ।
आर्त्तां सनाथामपि नाथहीनां त्रातुं वधूमर्हसि दर्शनेन ॥ ९।२७
एकं सुतं बालमनर्हदुःखं सन्तापमन्तर्गतमुद्वहन्तम् ।
तं राहुलं मोक्षय बन्धुशोकाद् राहूपसर्गादिव पूर्णचन्द्रम् ॥ ९।२८
शोकाग्निना त्वद्विरहेन्धनेन निःश्वासधूमेन तमःशिखेन ।
त्वद्दर्शनायर्छति दह्यमानः सोऽन्तःपुरं चैव पुरं च कृत्स्नम् ॥ ९।२९
स बोधिसत्त्वः परिपूर्णसत्त्वः श्रुत्वा वचस्तस्य पुरोहितस्य ।
ध्यात्वा मुहूर्तं गुणवद्गुणज्ञः प्रत्युत्तरं प्रश्रितमित्युवाच ॥ ९।३०
अवैमि भावं तनयप्रसक्तं विशेषतो यो मयि भूमिपस्य ।
जानन्नपि व्याधिजराविपद्भ्यो भीतस्त्वगत्या स्वजनं त्यजामि ॥ ९।३१
द्रष्टुं प्रियं कः स्वजनं हि नेच्चेन्नासौ यदि स्यात्प्रियविप्रयोगः ।
यदा तु भूत्वापि भवेद्वियोगस्ततो गुरुं स्निग्धमपि त्यजामि ॥ ९।३२
मद्धेतुकं यत्तु नराधिपस्य शोकं भवानर्हति न प्रियं मे ।
यत्स्वप्नभूतेषु समागमेषु सन्तप्यते भाविनि विप्रयोगैः ॥ ९।३३
एवं च ते निश्चयमेतु बुद्धिर्दृष्ट्वा विचित्रं विविधप्रचारम् ।
सन्तापहेतुर्न सुतो न बन्धुरज्ञाननैमित्तिक एष तापः ॥ ९।३४
यदाध्वगानामिव सङ्गतानां काले वियोगो नियतः प्रजानाम् ।
प्राज्ञो जनः को नु भजेत शोकं बन्धुप्रियः सन्नपि बन्धुहीनः ॥ ९।३५
इहैति हित्वा स्वजनं परत्र प्रलभ्य चेहापि पुनः प्रयाति ।
गत्वापि तत्राप्यपरत्र गच्चेत्येवं जनो योगिनि कोऽनुरोधः ॥ ९।३६
यदा च गर्भात्प्रभृति प्रवृत्तः सर्वास्व् अवस्थासु वधाय मृत्युः ।
कस्मादकाले वनसंश्रयं मे पुत्रप्रियस्तत्र भवान् अवोचत् ॥ ९।३७
भवत्यकालो विषयाभिपत्तौ कालस्तथैवाभिविधौ प्रदिष्टः ॥ ९।३८
कालो जगत्कर्षति सर्वकालानर्चार्हके श्रेयसि सर्वकालः ॥
राज्यं मुमुक्षुर्मयि यच्च राजा तदप्युदारं सदृशं पितुश्च ।
प्रतिग्रहीतुं मम न क्षमं तु लोभादपथ्यान्नमिवातुरस्य ॥ ९।३९
कथं नु मोहायतनं नृपत्वं क्षमं प्रपत्तुं विदुषा नरेण ।
सोद्वेगता यत्र मदः श्रमश्च परोपचारेण च धर्मपीडा ॥ ९।४०
जाम्बूनदं हर्म्यमिव प्रदीप्तं विषेण संयुक्तमिवोत्तमान्नम् ।
ग्राहाकुलं चाम्ब्विव सारविन्दं राज्यं हि रम्यं व्यसनाश्रयं च ॥ ९।४१
इत्थं च राज्यं न सुखं न धर्मः पूर्वे यथा जातघृणा नरेन्द्राः ।
वयःप्रकर्षेऽपरिहार्यदुःखे राज्यानि मुक्त्वा वनमेव जग्मुः ॥ ९।४२
वरं हि भुक्तानि तृणान्यरण्ये तोषं परं रत्नमिवोपगुह्य ।
सहोषितं श्रीसुलभैर्न चैव दोषैरदृश्यैरिव कृष्णसर्पैः ॥ ९।४३
श्लाघ्यं हि राज्यानि विहाय राज्ञां धर्माभिलाषेण वनं प्रवेष्टुम् ।
भग्नप्रतिज्ञस्य न तूपपन्नं वनं परित्यज्य गृहं प्रवेष्टुम् ॥ ९।४४
जातः कुले को हि नरः ससत्त्वो धर्माभिलाषेण वनं प्रविष्टः ।
काषायमुत्सृज्य विमुक्तलज्जः पुरन्दरस्यापि पुरं श्रयेत ॥ ९।४५
लोभाद्धि मोहादथवा भयेन यो वान्तमन्नं पुनराददीत ।
लोभात्स मोहादथवा भयेन सन्त्यज्य कामान् पुनराददीत ॥ ९।४६
यश्च प्रदीप्ताच्छरणात्कथञ्चिन्निष्क्रम्य भूयः प्रविशेत्तदेव ।
गार्हस्थ्यमुत्सृज्य स दृष्टदोषो मोहेन भूयोऽभिलषेद्ग्रहीतुम् ॥ ९।४७
या च श्रुतिर्मोक्षमवाप्तवन्तो नृपा गृहस्था इति नैतदस्ति ।
शमप्रधानः क्व च मोक्षधर्मो दण्डप्रधानः क्व च राजधर्मः ॥ ९।४८
शमे रतिश्चेच्छिथिलं च राज्यं राज्ये मतिश्चेच्छमविप्लवश्च ।
शमश्च तैक्ष्ण्यं च हि नोपपन्नं शीतोष्णयोरैक्यमिवोदकाग्न्योः ॥ ९।४९
तन्निश्चयाद्वा वसुधाधिपास्ते राज्यानि मुक्त्वा शममाप्तवन्तः ।
राज्याङ्गिता वा निभृतेन्द्रियत्वादनैष्ठिके मोक्षकृताभिमानाः ॥ ९।५०
तेषां च राज्येऽस्तु शमो यथावत्प्राप्तो वनं नाहमनिश्चयेन ।
छित्त्वा हि पाशं गृहबन्धुसञ्ज्ञं मुक्तः पुनर्न प्रविविक्षुरस्मि ॥ ९।५१
इत्यात्मविज्ञानगुणानुरूपं मुक्तस्पृहं हेतुमदूर्जितं च ।
श्रुत्वा नरेन्द्रात्मजमुक्तवन्तं प्रत्युत्तरं मन्त्रधरोऽप्युवाच ॥ ९।४२ (९।५२)
यो निश्चयो मन्त्रवरस्तवायं नायं न युक्तो न तु कालयुक्तः ।
शोकाय हित्वा पितरं वयःस्थं स्याद्धर्मकामस्य हि ते न धर्मः ॥ ९।४३ (९।५३)
नूनं च बुद्धिस्तव नातिसूक्ष्मा धर्मार्थकामेष्वविचक्षणा वा ।
हेतोरदृष्टस्य फलस्य यस्त्वं प्रत्यक्षमर्थं परिभूय यासि ॥ ९। ४४ (९।५४)
पुनर्भवोऽस्तीति च केचिदाहुर्नास्तीति केचिन्नियतप्रतिज्ञाः ।
एवं यदा संशयितोऽयमर्थस्तस्मात् क्षमं भोक्तुमुपस्थिता श्रीः ॥ ९।४५ (९।५५)
भूयः प्रवृत्तिर्यदि काचिदस्ति रंस्यामहे तत्र यथोपपत्तौ ।
अथ प्रवृत्तिः परतो न काचित्सिद्धोऽप्रयत्नाज्जगतोऽस्य मोक्षः ॥ ९।४६ (९।५६)
अस्तीति केचित्परलोकमाहुर्मोक्षस्य योगं न तु वर्णयन्ति ।
अग्नेर्यथा ह्युष्णमपां द्रवत्वं तद्वत्प्रवृत्तौ प्रकृतिं वदन्ति ॥ ९।४७ (९।५७)
केचित्स्वभावादिति वर्णयन्ति शुभाशुभं चैव भवाभवौ च ।
स्वाभाविकं सर्वमिदं च यस्मादतोऽपि मोघो भवति प्रयत्नः ॥ ९।४८ (९।५८)
यदिन्द्रियाणां नियतः प्रचारः प्रियाप्रियत्वं विषयेषु चैव ।
संयुज्यते यज्जरयार्त्तिभिश्च कस्तत्र यत्नो ननु स स्वभावः ॥ ९।४९ (९।५९)
अद्भिर्हुताशः शममभ्युपैति तेजांसि चापो गमयन्ति शोषम् ।
भिन्नानि भूतानि शरीरसंस्थान्यैक्यं च दत्त्वा जगदुद्वहन्ति ॥ ९।५० (९।६०)
यत्पाणिपादोदरपृष्ठमूर्ध्ना निर्वर्तते गर्भगतस्य भावः ।
यदात्मनस्तस्य च तेन योगः स्वाभाविकं तत्कथयन्ति तज्ज्ञाः ॥ ९।५१ (९।६१)
कः कण्टकस्य प्रकरोति तैक्ष्ण्यं विचित्रभावं मृगपक्षिणां वा ।
स्वभावतः सर्वमिदं प्रवृत्तं न कामकारोऽस्ति कुतः प्रयत्नः ॥ ९।५२ (९।६२)
सर्गं वदन्तीश्वरतस्तथान्ये तत्र प्रयत्ने पुरुषष्य कोऽर्थः ।
य एव हेतुर्जगतः प्रवृत्तौ हेतुर्निवृत्तौ नियतः स एव ॥ ९।५३ (९।६३)
केचिद्वदन्त्यात्मनिमित्तमेव प्रादुर्भवं चैव भवक्षयं च ।
प्रादुर्भवं तु प्रवदन्त्ययत्नाद्यत्नेन मोक्षाधिगमं ब्रुवन्ति ॥ ९।५४ (९।६४)
नरः पितॄणामनृणः प्रजाभिर्वेदैरृषीणां क्रतुभिः सुराणाम् ।
उत्पद्यते सार्धमृणैस्त्रिभिस्तैर्यस्यास्ति मोक्षः किल तस्य मोक्षः ॥ ९।५५ (९।६५)
इत्येवमेतेन विधिक्रमेण मोक्षं सयत्नस्य वदन्ति तज्ज्ञाः ।
प्रयत्नवन्तोऽपि हि विक्रमेण मुमुक्षवः खेदमवाप्नुवन्ति ॥ ९।५६ (९।६६)
तत्सौम्य मोक्षे यदि भक्तिरस्ति न्यायेन सेवस्व विधिं यथोक्तम् ।
एवं भविष्यत्युपपत्तिरस्य सन्तापनाशश्च नराधिपस्य ॥ ९।५७ (९।६७)
या च प्रवृत्ता भवदोषबुद्धिस्तपोवनेभ्यो भवनं प्रवेष्टुम् ।
तत्रापि चिन्ता तव तात मा भूत् पूर्वेऽपि जग्मुः स्वगृहं वनेभ्यः ॥ ९।५८ (९।६८)
तपोवनस्थोऽपि वृतः प्रजाभिर्जगाम राजा पुरमम्बरीषः ।
तथा महीं विप्रकृतामनार्यैस्तपोवनादेत्य ररक्ष रामः ॥ ९।५९ (९।६९)
तथैव शाल्वाधिपतिर्द्रुमाक्षो वनात्ससूनुः स्वपुरं प्रविश्य ।
ब्रह्मर्षिभूतश्च मुनेर्वशिष्ठाद्दध्रे श्रियं साङ्कृतिरन्तिदेवः ॥ ९।६० (९।७०)
एवंविधा धर्मयशःप्रदीप्ता वनानि हित्वा भवनान्यभीयुः ।
तस्मान्न दोषोऽस्ति गृहं प्रवेष्टुं तपोवनाद्धर्मनिमित्तमेव ॥ ९।६१ (९।७१)
ततो वचस्तस्य निशम्य मन्त्रिणः प्रियं हितं चैव नृपस्य चक्षुषः ।
अनूनमव्यस्तमसक्तमद्रुतं धृतौ स्थितो राजसुतोऽब्रवीद्वचः ॥ ९।६२ (९।७२)
इहास्ति नास्तीति य एष संशयः परस्य वाक्यैर्न ममात्र निश्चयः ।
अवेत्य तत्त्वं तपसा शमेन वा स्वयं ग्रहीष्यामि यदत्र निश्चितम् ॥ ९।६३ (९।७३)
न मे क्षमं सङ्गशतं हि दर्शनं ग्रहीतुमव्यक्तपरं पराहतम् ।
बुद्धः परप्रत्ययतो हि को व्रजेज्जनोऽन्धकारेऽन्ध इवान्धदेशितः ॥ ९।६४ (९।७४)
अदृष्टतत्त्वस्य सतोऽपि किं तु मे शुभाशुभे संशयिते शुभे मतिः ।
वृथापि खेदोऽपि वरं शुभात्मनः सुखं न तत्त्वेऽपि विगर्हितात्मनः ॥ ९।६५ (९।७५)
इमं तु दृष्ट्वागममव्यवस्थितं यदुक्तमाप्तैस्तदवेहि साध्विति ।
प्रहीणदोषत्वमवेहि चाप्ततां प्रहीणदोषो ह्यनृतं न वक्ष्यति ॥ ९।६६ (९।७६)
गृहप्रवेशं प्रति यच्च मे भवानुवाच रामप्रभृतीन् निदर्शनम् ।
न ते प्रमाणं न हि धर्मनिश्चयेष्वलं प्रमाणाय परिक्षतव्रताः ॥ ९।६७ (९।७७)
तदेवमप्येव रविर्महीं पतेदपि स्थिरत्वं हिमवान् गिरिस्त्यजेत् ।
अदृष्टतत्त्वो विषयोन्मुखेन्द्रियः श्रयेय न त्वेव गृहान् पृथग्जनः ॥ ९।६८ (९।७८)
अहं विशेयं ज्वलितं हुताशनं न चाकृतार्थः प्रविशेयमालयम् ।
इति प्रतिज्ञां स चकार गर्वितो यथेष्टमुत्थाय च निर्ममो ययौ ॥ ९।६९ (९।७९)
ततः सवाष्पौ सचिवद्विजावुभौ निशम्य तस्य स्थिरमेव निश्चयम् ।
विषण्णवक्त्रावनुगम्य दुःखितौ शनैरगत्या पुरमेव जग्मतुः ॥ ९।७० (९।८०)
तत्स्नेहादथ नृपतेश्च भक्तितस्तौ सापेक्षं प्रतिययतुश्च तस्थतुश्च ।
दुर्धर्षं रविमिव दीप्तमात्मभासा तं द्रष्टुं न हि पथि शेकतुर्न मोक्तुम् ॥ ९।७१ (९।८१)
तौ ज्ञातुं परमगतेर्गतिं तु तस्य प्रच्चन्नांश्चरपुरुषाञ्चुचीन् विधाय ।
राजानं प्रियसुतलालसं नु गत्वा द्रक्ष्यावः कथमिति जग्मतुः कथञ्चित् ॥ ९।७२ (९।८२)
इति श्रीबुद्धचरिते महाकाव्ये कुमारान्वेषणो नाम नवमः सर्गः ॥ ९ ॥
Book X [श्रेण्याभिगमनो]
स राजवत्सः पृथुपीनवक्षास्तौ हव्यमन्त्राधिकृतौ विहाय ।
उत्तीर्य गङ्गां प्रचलत्तरङ्गां श्रीमद्गृहं राजगृहं जगाम ॥ १०।१
शैलैः सुगुप्तं च विभूषितं च धृतं च पूतं च शिवैस्तपोदैः ।
पञ्चाचलाङ्कं नगरं प्रपेदे शान्तः स्वयम्भूरिव नाकपृष्ठम् ॥ १०।२
गाम्भीर्यमोजश्च निशाम्य तस्य वपुश्च दीप्तं पुरुषानतीत्य ।
विसिस्मिये तत्र जनस्तदानीं स्थाणुव्रतस्येव वृषध्वजस्य ॥ १०।३
तं प्रेक्ष्य योऽन्येन ययौ स तस्थौ यश्चात्र तस्थौ पथि सोऽन्वगच्छत् ।
द्रुतं ययौ यं सदयं सधीरं यः कश्चिदास्ते स्म स चोत्पपात ॥ १०।४
कश्चित्तमानर्च जनः कराभ्यां सत्कृत्य कश्चिच्छिरसा ववन्दे ।
स्निग्धेन कश्चिद्वचसाभ्यनन्दन्नैवं जगामाप्रतिपूज्य कश्चित् ॥ १०।५
तं जिह्रियुः प्रेक्ष्य विचित्रवेषाः प्रकीर्णवाचः पथि मौनमीयुः ।
धर्मस्य साक्षादिव सन्निकर्षान्न कश्चिदन्यायमतिर्बभूव ॥ १०।६
अन्यक्रियाणामपि राजमार्गे स्त्रीणां नृणां वा बहुमानपूर्वम् ।
तदेव कल्पं नरदेवसूत्रं निरीक्षमाणा न तु तस्य दृष्टिः ॥ १०।७
भ्रुवौ ललाटं मुखमीक्षणं वा वपुः करौ वा चरणौ गतिं वा ।
यदेव यस्तस्य ददर्श तत्र तदेव तस्यानुबबन्ध चक्षुः ॥ १०।८
दृष्ट्वा शुभोर्णभ्रुवमायताक्षं ज्वलच्चरीरं शुभजालहस्तम् ।
तं भिक्षुवेशं क्षितिपालनार्हं सञ्चुक्षुभे राजगृहस्य लक्ष्मीः ॥ १०।९
श्रेण्योऽथ भर्ता मगधाजिरस्य वाह्याद्विमानाद्विपुलं जनौघम् ।
ददर्श पप्रच्च च तस्य हेतुं ततस्तमस्मै पुरुषः शशंस ॥ १०।१०
ज्ञानं परं वा पृथिवीश्रियं वा विप्रैर्य उक्तोऽधिगमिष्यतीति ।
स एव शाक्याधिपतेस्तनूजो निरीक्ष्यते प्रव्रजितो जनेन ॥ १०।११
ततः श्रुतार्थो मनसा गतार्थो राजा बभाषे पुरुषं तमेव ।
विज्ञायतां क्व प्रतिगच्चतीति तथेत्यथैनं पुरुषोऽन्वगच्छत् ॥ १०।१२
अलोलचक्षुर्युगमात्रदर्शी निवृत्तवाग्यन्त्रितमन्दगामी ।
चचार भिक्षां स तु भिक्षुवर्यो निधाय गात्राणि चलं च चेतः ॥ १०।१३
आदाय भैक्षं च यथोपपन्नं ययौ गिरेः प्रस्रवणं विविक्तम् ।
न्यायेन तत्राभ्यवहृत्य चैनन्महीधरं पाण्डवमारुरोह ॥ १०।१४
तस्मिन्वने लोध्रवनोपगूढे मयूरनादप्रतिपूर्णकुञ्जे ।
काषायवासाः स बभौ नृसूर्यो यथोदयस्योपरि बालसूर्यः ॥ १०।१५
तत्रैवमालोक्य स राजभृत्यः श्रेण्याय राज्ञे कथयां चकार ।
संश्रुत्य राजा स च बाहुमान्यात्तत्र प्रतस्थे निभृतानुयात्रः ॥ १०।१६
स पाण्डवं पाण्डवतुल्यवीर्यः शैलोत्तमं शैलसमानवर्ष्मा ।
मौलीधरः सिंहगतिर्नृसिंहश्चलत्सटः सिंह इवारुरोह ॥ १०।१७
चलस्य तस्योपरि शृङ्गभूतं शान्तेन्द्रियं पश्यति बोधिसत्त्वम् ।
पर्यङ्कमास्थाय विरोचमानं शशाङ्कमुद्यन्तमिवाभ्रकूटात् ॥ १०।१८
तं रूपलक्ष्म्या च शमेन चैव धर्मस्य निर्माणमिवोपदिष्टम् ।
सविस्मयः प्रश्रयवान् नरेन्द्रः स्वयम्भुवं शक्र इवोपतस्थे ॥ १०।१९
तं न्यायतो न्यायवतां वरिष्ठः समेत्य पप्रच्च च धातुसाम्यम् ।
स चाप्यवोचत्सदृशेन साम्ना नृपं मनःस्वास्थ्यमनामयं च ॥ १०।२०
ततः शुचौ वारणकर्णनीले शिलातलेऽसौ निषसाद राजा ।
नृपोपविश्यानुमतश्च तस्य भावं विजिज्ञासुरिदं बभाषे ॥ १०।२१
प्रीतिः परा मे भवतः कुलेन क्रमागता चैव परीक्षिता च ।
जाता विवक्षा सुत या यतो मे तस्मादिदं स्नेहवचो निबोध ॥ १०।२२
आदित्यपूर्वं विपुलं कुलं ते नवं वयो दीप्तमिदं वपुश्च ।
कस्मादियं ते मतिरक्रमेण भैक्षाक एवाभिरता न राज्ये ॥ १०।२३
गात्रं हि ते लोहितचन्दनार्हं काषायसंश्लेषमनर्हमेतत् ।
हस्तः प्रजापालनयोग्य एष भोक्तुं न चार्हः परदत्तमन्नम् ॥ १०।२४
तत्सौम्य राज्यं यदि पैतृकं त्वं स्नेहात्पितुर्नेच्चसि विक्रमेण ।
न च क्षमं मर्षयितुं मतिस्ते भुक्त्वार्धमस्मद्विषयस्य शीघ्रम् ॥ १०।२५
एवं हि न स्यात्स्वजनावमर्दः कालक्रमेणापि शमश्रया श्रीः ।
तस्मात्कुरुष्व प्रणयं मयि त्वं सद्भिः सहीया हि सतां समृद्धिः ॥ १०।२६
अथ त्विदानीं कुलगर्वितत्वादस्मासु विश्रम्भगुणो न तेऽस्ति ।
व्यूहान्यनेकानि विगाह्य वाणैर्मया सहायेन पराञ्जिगीष ॥ १०।२७
तद्बुद्धिमत्रान्यतरां वृणीष्व धर्मार्थकामान् विधिवद्भजस्व ।
व्यत्यस्य रागादि ह हि त्रिवर्गं प्रेत्येह विभ्रंशमवाप्नुवन्ति ॥ १०।२८
यो ह्यर्थधर्मौ परिपीड्य कामः स्याद्धर्मकाम्ये परिभूय चार्थः ।
कामार्थयोश्चोपरमेण धर्मस्त्याज्यः स कृत्स्नो यदि काङ्क्षितार्थः ॥ १०।२९
तस्मात्त्रिवर्गस्य निषेवणेन त्वं रूपमेतत्सफलं कुरुष्व ।
धर्मार्थकामाधिगमं ह्यनूनं नृणामनूनं पुरुषार्थमाहुः ॥ १०।३०
तन्निष्फलौ नार्हसि कर्तुमेतौ पीनौ भुजौ चापविकर्षणार्हौ ।
मान्धातृवज्जेतुमिमौ हि योग्यौ लोकानि हि त्रीणि हि किं पुनर्गाम् ॥ १०।३१
स्नेहेन खल्वेतदहं ब्रवीमि नैश्वर्यरागेण न विस्मयेन ।
इमं हि दृष्ट्वा तव भिक्षुवेशं जातानुकम्पोऽस्म्यपि चागताश्रुः ॥ १०।३२
तद्भुङ्क्ष्व भिक्षाश्रमकाम कामाङ्कालेऽसि कर्ता प्रियधर्म धर्मम् ।
यावत्स्ववंशप्रतिरूपरूपं न ते जराभ्येत्यभिभूय भूयः ॥ १०।३३
शक्नोति जीर्णः खलु धर्ममाप्तुं कामोपभोगेष्वगतिर्जरायाः ।
अतश्च यूनः कथयन्ति कामान्मध्यस्य वित्तं स्थविरस्य धर्मम् ॥ १०।३४
धर्मस्य चार्थस्य च जीवलोके प्रत्यर्थिभूतानि हि यौवनानि ।
संरक्ष्यमाणान्यपि दुर्ग्रहाणि कामा यतस्तेन यथा हरन्ति ॥ १०।३५
वयांसि जीर्णानि विमर्शयन्ति धीराण्यवस्थानपरायणानि ।
अल्पेन यत्नेन शमात्मकानि भवन्त्यगत्येव च लज्जया च ॥ १०।३६
अतश्च लोलं विषयप्रधानं प्रमत्तमक्षान्तमदीर्घदर्शि ।
बहुच्चलं यौवनमभ्यतीत्य निस्तीर्य कान्तारमिवाश्वसन्ति ॥ १०।३७
तस्मादधीरं चपलप्रमादि नवं वयस्तावदिदं व्यपैतु ।
कामस्य पूर्वं हि वयः शरव्यं न शक्यते रक्षितुमिन्द्रियेभ्यः ॥ १०।३८
अथौ चिकीर्षा तव धर्म एव यजस्व यज्ञं कुलधर्म एषः ।
यज्ञैरधिष्ठाय हि नाकपृष्ठं ययौ मरुत्वानपि नाकपृष्ठम् ॥ १०।३९
सुवर्णकेयूरविदष्टबाहवो मणिप्रदीपोज्ज्वलचित्रमौलयः ।
नृपर्षयस्तां हि गतिं गता मखैः श्रमेण यामेव महार्षयो ययुः ॥ १०।४०
इत्येवं मगधपतिर्[वचो] बभाषे यः सम्यग्वलभिदिव ध्रुवं बभाषे ।
तच्च्रुत्वा न स विचचार राजसूनुः कैलासो गिरिरिव नैकचित्रसानुः ॥ १०।४१
इति श्रीबुद्धचरिते महाकाव्येऽश्वघोषकृते श्रेण्याभिगमनो नाम दशमः सर्गः ॥ १० ॥
Book XI [कामविगर्हणो]
अथैवमुक्तो मगधाधिपेन सुहृन्मुखेन प्रतिकूलमर्थम् ।
स्वस्थोऽविकारः कुलशौचशुद्धः शौद्धोदनिर्वाक्यमिदं जगाद ॥ ११।१
नाश्चर्यमेतद्भवतोऽभिधातुं जातस्य हर्यङ्ककुले विशाले ।
यन्मित्रपक्षे तव मित्रकाम स्याद्वृत्तिरेषा परिशुद्धवृत्तेः ॥ ११।२
असत्सु मैत्री स्वकुलानुरूपा न तिष्ठति श्रीरिव विक्लवेषु ।
पूर्वैः कृतां प्रीतिपरम्पराभिस्तामेव सन्तस्तु विवर्धयन्ति ॥ ११।३
ये चार्थकृच्छ्रेषु भवन्ति लोके समानकार्याः सुहृदां मनुष्याः ।
मित्राणि तानीति परैमि बुद्ध्या स्वस्थस्य वृद्धिष्विह को हि न स्यात् ॥ ११।४
एवं च ये द्रव्यमवाप्य लोके मित्रेषु धर्मे च नियोजयन्ति ।
अवाप्तसाराणि धनानि तेषां भ्रष्टानि नान्ते जनयन्ति तापम् ॥ ११।५
सुहृत्तया चार्यतया च राजन् विभाव्य मामेव विनिश्चयस्ते ।
अत्रानुनेष्यामि सुहृत्तयैव ब्रूयामहं नोत्तरमन्यदत्र ॥ ११।६
अहं जरामृत्युभयं विदित्वा मुमुक्षया धर्ममिमं प्रपन्नः ।
बन्धून्प्रियानश्रुमुखान् विहाय प्रागेव कामानशुभस्य हेतून् ॥ ११।७
नाशीविषेभ्योऽपि तथा बिभेमि नैवाशनिभ्यो गगनाच्च्युतेभ्यः ।
न पावकेभ्योऽनिलसंहितेभ्यो यथा भयं मे विषयेभ्य एभ्यः ॥ ११।८
कामा ह्यनित्याः कुशलार्थचौरा रिक्ताश्च मायासदृशाश्च लोके ।
आशास्यमाना अपि मोहयन्ति चित्तं नृणां किं पुनरात्मसंस्थाः ॥ ११।९
कामाभिभूता हि न यान्ति शर्म त्रिपिष्टपे किं वत मर्त्यलोके ।
कामैः सतृष्णस्य हि नास्ति तृप्तिर्यथेन्धनैर्वातसखस्य वह्नेः ॥ ११।१०
जगत्यनर्थो न समोऽस्ति कामैर्मोहाच्च तेष्वेव जनः प्रसक्तः ।
तत्त्वं विदित्वैवमनर्थभीरुः प्राज्ञः स्वयं कोऽभिलषेदनर्थम् ॥ ११।११
समुद्रवस्त्रामपि गामवाप्य पारं जिगीषन्ति महार्णवस्य ।
लोकस्य कामैर्न वितृप्तिरस्ति पतद्भिरम्भोभिरिवार्णवस्य ॥ ११।१२
देवेन वृष्टेऽपि हिरण्यवर्षे द्वीपान्समुद्रांश्चतुरोऽपि जित्वा ।
शक्रस्य चार्धासनमप्यवाप्य मान्धातुरासीद्विषयेष्वतृप्तिः ॥ ११।१३
भुक्त्वापि राज्यं दिवि देवतानां शतक्रतौ वृत्रभयात्प्रनष्टे ।
दर्पान्महार्षीनपि वाहयित्वा कामेष्वतृप्तो नहुषः पपात ॥ ११।१४
ऐडश्च राजा त्रिदिवं विगाह्य नीत्वापि देवीं वशमुर्वशीं ताम् ।
लोभादृषिभ्यः कनकं जिहीर्षुर्जगाम नाशं विषयेष्वतृप्तः ॥ ११।१५
बलेर्महेन्द्रं नहुषं महेन्द्रादिन्द्रं पुनर्ये नहुषादुपेयुः ।
स्वर्गे क्षितौ वा विषयेषु तेषु को विश्वसेद्भाग्यकुलाकुलेषु ॥ ११।१६
चीराम्बरा मूलफलांबुभक्षा जटा वहन्तोऽपि भुजङ्गदीर्घाः ।
यैरन्यकार्या मुनयोऽपि भग्नाः कः कामसञ्ज्ञान् मृगयेत शत्रून् ॥ ११।१७
उग्रायुधश्चौग्रधृतायुधोऽपि येषां कृते मृत्युमवाप भीष्मात् ।
चिन्तापि तेषामशिवा वधाय तद्वृत्तिनां किं पुनरव्रतानाम् ॥ ११।१८
आस्वादमल्पं विषयेषु मत्वा संयोजनोत्कर्षमतृप्तिमेव ।
सद्भ्यश्च गर्हां नियतं च पापं कः कामसञ्ज्ञं विषमाससाद ॥ ११।१९
कृष्यादिभिर्धर्मभिरन्वितानां कामात्मकानां च निशम्य दुःखम् ।
स्वास्थ्यं च कामेष्वकुतूहलानां कामान् विहातुं क्षममात्मवद्भिः ॥ ११।२०
ज्ञेया विपत्कामिनि कामसम्पत्सिद्धेषु कामेषु मदं ह्युपैति ।
मदादकार्यं कुरुते न कार्यं येन क्षतो दुर्गतिमभ्युपैति ॥ ११।२१
यत्नेन लब्धाः परिरक्षिताश्च ये विप्रलभ्य प्रतियान्ति भूयः ।
तेष्वात्मवान् याचितकोपमेषु कामेषु विद्वानिह को रमेत ॥ ११।२२
अन्विष्य चादाय च जाततर्षा यानत्यजन्तः परियान्ति दुःखम् ।
लोके तृणोल्कासदृशेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ ११।२३
अनात्मवन्तो हृदि यैर्विदष्टा विनाशमर्छन्ति न यान्ति शर्म ।
क्रुद्धौग्रसर्पप्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ ११।२४
अस्थि क्षुधार्त्ता इव सारमेया भुक्त्वापि यान्नैव भवन्ति तृप्ताः ।
जीर्णास्थिकङ्कालसमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ ११।२५
ये राजचौरोदकपावकेभ्यः साधारणत्वाज्जनयन्ति दुःखम् ।
तेषु प्रविद्धामिषसन्निभेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ ११।२६
यत्र स्थितानामभितो विपत्तिः शत्रोः सकाशादपि बान्धवेभ्यः ।
हिंस्रेषु तेष्वायतनोपमेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ ११।२७
गिरौ वने चाप्सु च सागरे च यद्भ्रंशमर्चन्त्यभिलङ्घमानाः ।
तेषु द्रुमप्राग्रफलोपमेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ ११।२८
तीर्थैः प्रयत्नैर्विविधैरवाप्ताः क्षणेन ये नाशमिह प्रयान्ति ॥ ११।२९
स्वप्नोपभोगप्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ।
यानर्चयित्वापि न यान्ति शर्म विवर्धयित्वा परिपालयित्वा ।
अङ्गारकर्षप्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ ११।३०
विनाशमीयुः कुरवो यदर्थं वृष्ण्यन्धका मैथिलदण्डकाश्च ।
शूलासिकाष्ठप्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ ११।३१
सुन्दोपसुन्दावसुरौ यदर्थमन्योन्यवैरप्रसृतौ विनष्टौ ।
सौहार्दविश्लेषकरेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ ११।३२
कामान्धसञ्ज्ञाः कृपया व के च क्रव्यात्सु नात्मानमिहोत्सृजन्ति ।
सपत्नभूतेष्वशिवेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ ११।३३
कामान्धसञ्ज्ञः कृपणं करोति प्राप्नोति दुःखं वधबन्धनादि ।
कामार्थमाशाकृपणस्तपस्वी मृत्युश्रमं चार्हति जीवलोके ॥ ११।३४
गीतैर्ह्रियन्ते हि मृगा वधाय रूपार्थमग्नौ शलभाः पतन्ति ।
मत्स्यो गिरत्यायसमामिषार्थी तस्मादनर्थं विषयाः फलन्ति ॥ ११।३५
कामास्तु भोगा इति यन्मतं स्याद्भोग्या न केचित्परिगण्यमानाः ।
वस्त्रादयो द्रव्यगुणा हि लोके दुःखप्रतीकार इति प्रधार्याः ॥ ११।३६
इष्टं हि तर्षप्रशमाय तोयं क्षुन्नाशहेतोरशनं तथैव ।
वातातपाम्ब्वावरणाय वेश्म कौपीनशीतावरणाय वासः ॥ ११।३७
निद्राविघाताय तथैव शय्या यानं तथाध्वश्रमनाशनाय ।
तथासनं स्थानविनोदनाय स्नानं मृजारोग्यबलाश्रयाय ॥ ११।३८
दुःखप्रतीकारनिमित्तभूतास्तस्मात्प्रजानां विषया न भोग्याः ।
अश्नामि भोगानिति कोऽभ्युपेयात्प्राज्ञः प्रतीकारविधौ प्रवृत्तान् ॥ ११।३९
यः पित्तदाहेन विदह्यमानः शीतक्रियां भोग इति व्यवस्येत् ।
दुःखप्रतीकारविधौ प्रवृत्तः कामेषु कुर्यात्स हि भोगसञ्ज्ञाम् ॥ ११।४०
कामेष्वनैकान्तिकता च यस्मादतोऽपि मे तेषु न भोगसञ्ज्ञा ।
य एव भावा हि सुखं दिशन्ति त एव दुःखं पुनरावहन्ति ॥ ११।४१
गुरूणि वासांस्यगुरूणि चैव सुखाय शीते ह्यसुखाय घर्मे ।
चन्द्रांशवश्चन्दनमेव चोष्णे सुखाय दुःखाय भवन्ति शीते ॥ ११।४२
द्वन्द्वानि सर्वस्य यतः प्रसक्तान्यलाभलाभप्रभृतीनि लोके ।
अतोऽपि नैकान्तसुखोऽस्ति कश्चिन्नैकान्तदुःखः पुरुषः प्र्ठिव्याम् ॥ ११।४३
दृष्ट्वा च मिश्रां सुखदुःकतां मे राज्यं च दास्यं च मतं समानम् ।
नित्यं हसत्येव हि नैव राजा न चापि सन्तप्यत एव दासः ॥ ११।४४
आज्ञा नृपत्वेऽभ्यधिकेति यस्मात्महान्ति दुःखान्यत एव राज्ञः ।
आसङ्गकाष्ठप्रतिमो हि राजा लोकस्य हेतोः परिखेदमेति ॥ ११।४५
राज्ये नृपस्त्यागिनि वङ्कमित्रे विश्वासमागच्चति चेद्विपन्नः ।
अथापि विश्रम्भमुपैति नेह किं नाम सौख्यं चकितस्य राज्ञः ॥ ११।४६
यदा च जित्वापि महीं समग्रां वासाय दृष्टं पुरमेकमेव ।
तत्रापि चैकं भवनं निषेव्यं श्रमः परार्थे ननु राजभावः ॥ ११।४७
राज्योऽपि वासे युगमेकमेव क्षुत्सन्निरोधाय तथान्नमात्रा ।
शय्या तथैकासनमेकमेव शेषा विशेषा नृपतेर्मदाय ॥ ११।४८
तुष्ट्यर्थमेतच्च फलं यदीष्टमृतेऽपि राज्यान्मम तुष्टिरस्ति ।
तुष्टौ च सत्यां पुरुषस्य लोके सर्वे विशेषा ननु निर्विशेषाः ॥ ११।४९
तन्नास्ति कामान् प्रति सम्प्रतार्यः क्षेमे शिवं मार्गमनुप्रपन्नः ।
स्मृत्वा सुहृत्त्वं तु पुनः पुनर्मां ब्रूहि प्रतिज्ञां खलु पालयन्ति ॥ ११।५०
न ह्यस्म्यमर्षेण वनप्रविष्टो न शत्रुबाणैरवधूतमौलिः ।
कृतस्पृहो नापि फलाधिकेभ्यो गृह्णामि नैतद्वचनं यतस्ते ॥ ११।५१
यो दन्दशूकं कुपितं भुजङ्गं मुक्त्वा व्यवस्येद्धि पुनर्ग्रहीतुम् ।
दाहात्मिकां वा ज्वलितां तृणौल्कां सन्त्यज्य कामान्स पुनर्भजेत ॥ ११।५२
अन्धाय यश्च स्पृहयेदनन्धो बद्धाय मुक्तो विधनाय वाढ्यः ।
उन्मत्तचित्ताय च कल्यचित्तः स्पृहां स कुर्याद्विषयात्मकाय ॥ ११।५३
भिक्षोपभोगी वर नानुकम्प्यः कृती जरामृत्युभयं तितीर्षुः ।
इहोत्तमं शान्तिसुखं च यस्य परत्र दुःखानि च संवृतानि ॥ ११।५४
लक्ष्म्यां महत्यामपि वर्तमानस्तृष्णाभिभूतस्त्वनुकम्पितव्यः ।
प्राप्नोति यः शान्तिसुखं न चेह परत्र दुःखं प्रतिगृह्यते च ॥ ११।५५
एवं तु वक्तुं भवतोऽनुरूपं सत्त्वस्य वृत्तस्य कुलस्य चैव ।
ममापि वोढुं सदृशं प्रतिज्ञां सत्त्वस्य वृत्तस्य कुलस्य चैव ॥ ११।५६
अहं हि संसाररसेन विद्धो विनिःसृतः शान्तमवाप्तुकामः ।
नेच्चेयमाप्तुं त्रिदिवेऽपि राज्यं निरामयं किं वत मानुषेषु ॥ ११।५७
त्रिवर्गसेवां नृप यत्तु कृत्स्नतः परो मनुष्यार्थ इति त्वमात्थ माम् ।
अनर्थ इत्यात्थ ममार्थदर्शनं क्षयी त्रिवर्गो हि न चापि तर्पकः ॥ ११।५८
पदे तु यस्मिन्न जरा न भीरुता न जन्म नैवोपरमो न वाधयः ।
तमेव मन्ये पुरुषार्थमुत्तमं न विद्यते यत्र पुनः पुनः क्रिया ॥ ११।५९
यदप्यवोचः परिपाल्यतां जरा नवं वयो गच्छति विक्रियामिति ।
अनिश्चयोऽयं चपलं हि दृश्यते जराप्यधीरा धृतिमच्छ यौवनम् ॥ ११।६०
स्वकर्मदक्षश्च यदा तु को जगद्वयःसु सर्वेषु च संविकर्षति ।
विनाशकाले कथमव्यवस्थिते जरा प्रतीक्ष्या विदुषा शमेप्सुना ॥ ११।६१
जरायुधो व्याधिविकीर्णसायको यदान्तको व्याध इवाश्रितः स्थितः ।
प्रजामृगान् भाग्यवनाश्रितांस्तुदन् वयःप्रकर्षं प्रति को मनोरथः ॥ ११।६२
सुतो युवा वा स्थविरोऽथवा शिशुस्तथा त्वरावानिह कर्तुमर्हति ।
यथा भवेद्धर्मवतः कृपात्मनः प्रवृत्तिरिष्टा विनिवृत्तिरेव वा ॥ ११।६३
यदात्थ वा दीप्तफलां कुलोचितां कुरुष्व धर्माय मखक्रियामिति ।
नमो मखेभ्यो न हि कामये सुखं परस्य दुःखक्रिययापदिश्यते ॥ ११।६४
परं हि हन्तुं विवशं फलेप्सया न युक्तरूपं करुणात्मनः सतः ।
क्रतोः फलं यद्यपि शाश्वतं भवेत् तथापि कृत्वा किमुपक्षयात्मकम् ॥ ११।६५
भवेच्च धर्मो यदि नापरो विधिर्व्रतेन शीलेन मनःशमेन वा ।
तथापि नैवार्हति सेवितुं क्रतुं विशस्य यस्मिन् परमुच्यते फलम् ॥ ११।६६
इहापि तावत्पुरुषस्य तिष्ठतः प्रवर्तते यत्परहिंसया सुखम् ।
तदप्यनिष्टं सघृणस्य धीमतो भवान्तरे किं वत यन्न दृश्यते ॥ ११।६७
न च प्रतार्योऽस्मि फलप्रवृत्तये भवेषु राजन् रमते न मे मनः ।
लता इवाम्भोधरवृष्टिताडिताः प्रवृत्तयः सर्वगता हि चञ्चला ॥ ११।६८
इहागतश्चाहमितो दिदृक्षया मुनेरराडस्य विमोक्षवादिनः ।
प्रयामि चाद्यैव नृपास्तु ते शिवं वचः क्षमेथाः शमतत्त्वनिष्ठुरम् ॥ ११।६९
अथेन्द्रवद्दिव्यव शश्वदर्कवद्गुणैरव श्रेय इहाव गामव ।
अवायुरार्यैरव सत्सुतान् अव श्रियश्च राजन्नव धर्ममात्मनः ॥ ११।७०
हिमारिकेतूद्भवसम्प्लवान्तरे यथा द्विजो याति विमोक्षयंस्तनुम् ।
हिमारिशत्रुं क्षयशत्रुघातिनस्तथान्तरे याहि विमोचयन्मनः ॥ ११।७१
नृपोऽब्रवीत्साञ्जलिरागतस्पृहो यथेष्टमाप्नोति भवानविघ्नतः ।
अवाप्य काले कृतकृत्यतामिमां ममापि कार्यो भवता त्वनुग्रहः ॥ ११।७२
स्थिरं प्रतिज्ञाय तथेति पार्थिवे ततः स वैश्वन्तरमाश्रमं ययौ ।
परिव्रजन्तं समुदीक्ष्य विस्मितो नृपोऽपि च प्रापुरिमं गिरिं व्रजन् ॥ ११।७३
इति श्रीबुद्धचरिते महाकाव्येऽश्वघोषकृते कामविगर्हणो नामैकादशः सर्गः ॥ ११ ॥
Book XII [अराडदर्शनो]
ततः शमविहारस्य मुनेरिक्ष्वाकुचन्द्रमाः ।
अराडस्याश्रमं भेजे वपुषा पूरयन्निव ॥ १२।१
स कालामसगोत्रेण तेनालोक्यैव दूरतः ।
उच्चैः स्वागतमित्युक्तः समीपमुपजग्मिवान् ॥ १२।२
तावुभौ न्यायतः पृष्ट्वा धातुसाम्यं परस्परम् ।
दारव्योर्मेध्ययोर्वृष्योः शुचौ देशे निषीदतुः ॥ १२।३
तमासीनं नृपसुतं सोऽब्रवीन्मुनिसत्तमः ।
बहुमानविशालाभ्यां दर्शनाभ्यां पिबन्निव ॥ १२।४
विदितं मे यथा सौम्य निष्क्रान्तो भवनादसि ।
छित्त्वा स्नेहमयं पाशं पाशं दृप्त इव द्विपः ॥ १२।५
सर्वथा धृतिमच्चैव प्राज्ञं चैव मनस्तव ।
यस्त्वं प्राप्तः श्रियं त्यक्त्वा लतां विषफलामिव ॥ १२।६
नाश्चर्यं जीर्णवयसो यज्जग्मुः पार्थिवा वनम् ।
अपत्येभ्यः श्रियं दत्त्वा भुक्तोच्चिष्टामिव स्रजम् ॥ १२।७
इदं मे मतमाश्चर्यं नवे वयसि यद्भवान् ।
अभुक्त्वेव श्रियं प्राप्तः स्थितो विषयगोचरे ॥ १२।८
तद्विज्ञातुमिमं धर्मं परमं भाजनं भवान् ।
ज्ञानपूर्वमधिष्ठाय शीघ्रं दुःखार्णवं तर ॥ १२।९
शिष्ये यद्यपि विज्ञाते शास्त्रं कालेन वर्तते ।
गाम्भीर्याद्व्यवसायाच्च सुपरीक्ष्यो भवान् मम ॥ १२।१०
इति वाक्यमराडस्य विज्ञाय स नराधिपः ।
बभूव परमप्रीतः प्रोवाचोत्तरमेव च ॥ १२।११
विरक्तस्यापि यदिदं सौमुख्यं भवतः परम् ।
अकृतार्थोऽप्यनेनास्मि कृतार्थ इव सम्प्रति ॥ १२।१२
दिदृक्षुरिव हि ज्योतिर्यियासुरिव दैशिकम् ।
त्वद्दर्शनादहं मन्ये तितीर्षुरिव च प्लवम् ॥ १२।१३
तस्मादर्हसि तद्वक्तुं वक्तव्यं यदि मन्यसे ।
जरामरणरोगेभ्यो यथायं परिमुच्यते ॥ १२।१४
इत्यराडः कुमारस्य माहात्म्यादेव चोदितः ।
सङ्क्षिप्तं कथयां चक्रे स्वस्य शास्त्रस्य निश्चयम् ॥ १२।१५
श्रूयतामयमस्माकं सिद्धान्तः शृण्वतां वर ।
यथा भवति संसारो यथा वै परिवर्तते ॥ १२।१६
प्रकृतिश्च विकारश्च जन्म मृत्युर्जरैव च ।
तत्तावत्सत्त्वमित्युक्तं स्थिरसत्त्व परेहि नः ॥ १२।१७
तत्र तु प्रकृतिर्नाम विद्धि प्रकृतिकोविद ।
पञ्च भूतान्यहङ्कारं बुद्धिमव्यक्तमेव च ॥ १२।१८
विकार इति बुद्धिं तु विषयानिन्द्रियाणि च ।
पाणिपादं च वादं च पायूपस्थं तथा मनः ॥ १२।१९
अस्य क्षेत्रस्य विज्ञानात् क्षेत्रज्ञ इति सञ्ज्ञि च ।
क्षेत्रज्ञ इति चात्मानं कथयन्त्यात्मचिन्तकाः ॥ १२।२०
सशिष्यः कपिलश्चेह प्रतिबुद्ध इति स्मृतिः ।
सपुत्रः प्रतिबुद्धश्च प्रजापतिरिहोच्यते ॥ १२।२१
जायते जीर्यते चैव बुध्यते म्रियते च यत् ।
तद्व्यक्तमिति विज्ञेयमव्यक्तं तु विपर्ययात् ॥ १२।२२
अज्ञानं कर्म तृष्णा च ज्ञेयाः संसारहेतवः ।
स्थितोऽस्मिंस्त्रितये यस्तु तत्सत्त्वं नाभिवर्तते ॥ १२।२३
विप्रत्ययादहङ्कारात्सन्देहादभिसम्प्लवात् ।
अविशेषानुपायाभ्यां सङ्गादभ्यवपाततः ॥ १२।२४
तत्र विप्रत्ययो नाम विपरीतं प्रवर्तते ।
अन्यथा कुरुते कार्यं मन्तव्यं मन्यतेऽन्यथा ॥ १२।२५
ब्रवीम्यहमहं वेद्मि गच्चाम्यहमहं स्थितः ।
इतीहैवमहङ्कारस्त्वनहङ्कार वर्तते ॥ १२।२६
यस्तु भावेन सन्दिग्धानेकीभावेन पश्यति ।
मृत्पिण्डवदसन्देह सन्देहः स इहोच्यते ॥ १२।२७
य एवाहं स एवेदं मनो बुद्धिश्च कर्म च ।
यश्चैवं स गणः सोऽहमिति यः सोऽभिसम्प्लवः ॥ १२।२८
अविशेषं विशेषज्ञ प्रतिबुद्धाप्रबुद्धयोः ।
प्रकृतीनां च यो वेद सोऽविशेष इति स्मृतः ॥ १२।२९
नमस्कारवषट्कारौ प्रोक्षणाभ्युक्षणादयः ।
अनुपाय इति प्राज्ञैरुपायज्ञ प्रवेदितः ॥ १२।३०
सज्जते येन दुर्मेधा मनोवाक्कर्मबुद्धिभिः ।
विषयेष्वनभिष्वङ्ग सोऽभिष्वङ्ग इति स्मृतः ॥ १२।३१
ममेदमहमस्येति यद्दुःखमभिमन्यते ।
विज्ञेयोऽभ्यवपातः स संसारे येन पात्यते ॥ १२।३२
इत्यविद्या हि विद्वांसः पञ्चपर्वा समीहते ।
तमो मोहं महामोहं तामिस्रद्वयमेव च ॥ १२।३३
तत्रालस्यं तमो विद्धि मोहं मृत्युं च जन्म च ।
महामोहस्त्वसम्मोह काम इत्यवगम्यताम् ॥ १२।३४
यस्मादत्र च भूतानि प्रमुह्यन्ति महान्त्यपि ।
तस्मादेष महाबाहो महामोह इति स्मृतः ॥ १२।३५
तामिस्रमिति चाक्रोध क्रोधमेवाधिकुर्वते ।
विषादं चान्धतामिस्रमविषाद प्रचक्षते ॥ १२।३६
अनयाविद्यया बालः संयुक्तः पञ्चपर्वया ।
संसारे दुःखभूयिष्ठे जन्मस्वभिनिषिच्यते ॥ १२।३७
द्रष्टा श्रोता च मन्ता च कार्यं करणमेव च ।
अहमित्येवमागम्य संसारे परिवर्तते ॥ १२।३८
इत्येभिर्हेतुभिर्धीमन् तमःस्रोतः प्रवर्तते ।
हेत्वभावे फलाभाव इति विज्ञातुमर्हसि ॥ १२।३९
तत्र सम्यग्मतिर्विद्यान्मोक्षकाम चतुष्टयम् ।
प्रतिबुद्धाप्रबुद्धौ च व्यक्तमव्यक्तमेव च ॥ १२।४०
यथावदेतद्विज्ञाय क्षेत्रज्ञो हि चतुष्टयम् ।
आर्जवं जवतां हित्वा प्राप्नोति पदमक्षरम् ॥ १२।४१
इत्यर्थं ब्राह्मणा लोके परमब्रह्मवादिनः ।
ब्रह्मचर्यं चरन्तीह ब्राह्मणान् वासयन्ति च ॥ १२।४२
इति वाक्यमिदं श्रुत्वा मुनेस्तस्य नृपात्मजः ।
अभ्युपायं च पप्रच्छ पदमेव च नैष्ठिकम् ॥ १२।४३
ब्रह्मचर्यमिदं चर्यं यथा यावच्छ यत्र च ।
धर्मस्यास्य च पर्यन्तं भवान् व्याख्यातुमर्हति ॥ १२।४४
इत्यराडो यथाशास्त्रं विस्पष्टार्थं समासतः ।
तमेवान्येन कल्पेन धर्ममस्मै व्यभाषत ॥ १२।४५
अयमादौ गृहान्मुक्त्वा भैक्षाकं लिङ्गमाश्रितः ।
समुदाचारविस्तीर्णं शीलमादाय वर्तते ॥ १२।४६
सन्तोषं परमास्थाय येन तेन यतस्ततः ।
विविक्तं सेवते वासं निर्द्वन्द्वः शास्त्रवित्कृती ॥ १२।४७
ततो रागाद्भयं दृष्ट्वा वैराग्याच्च परं शिवम् ।
निगृह्णन्निन्द्रियग्रामं यतते मनसः श्रमे ॥ १२।४८
अथो विविक्तं कामेभ्यो व्यापादादिभ्य एव च ।
विवेकजमवाप्नोति पूर्वध्यानं वितर्कवत् ॥ १२।४९
तच्च ध्यानं सुखं प्राप्य तत्तदेव वितर्कयन् ।
अपूर्वसुखलाभेन ह्रियते बालिशो जनः ॥ १२।५०
शमेनैवंविधेनायं कामद्वेषविगर्हिणा ।
ब्रह्मलोकमवाप्नोति परितोषेण वञ्चितः ॥ १२।५१
ज्ञात्वा विद्वान् वितर्कांस्तु मनःसङ्क्षोभकारकान् ।
तद्वियुक्तमवाप्नोति ध्यानं प्रीतिसुखान्वितम् ॥ १२।५२
ह्रियमाणस्तया प्रीत्या यो विशेषं न पश्यति ।
स्थानं भास्वरमाप्नोति देवेष्वाभासुरेष्वपि ॥ १२।५३
यस्तु प्रीतिसुखात्तस्माद्विवेचयति मानसम् ।
तृतीयं लभते ध्यानं सुखं प्रीतिविवर्जितम् ॥ १२।५४
तत्र केचिद्व्यवस्यन्ति मोक्ष इत्यपि मानिनः ।
सुखदुःखपरित्यागादव्यापाराच्च चेतसः ॥ १२।५५ (५७)
यस्तु तस्मिन्सुखे मग्नो न विशेषाय यत्नवान् ।
शुभकृत्स्नैः स सामान्यं सुखं प्राप्नोति दैवतैः ॥ १२।५६ (५५)
तादृशं सुखमासाद्य यो न रज्यन्नुपेक्षते ।
चतुर्थं ध्यानमाप्नोति सुखदुःखविवर्जितम् ॥ १२।५७ (५६)
अस्य ध्यानस्य तु फलं समं देवैर्वृहत्फलैः ।
कथयन्ति बृहत्कालं वृहत्प्रज्ञापरीक्षकाः ॥ १२।५८
समाधेर्व्युत्थितस्तस्माद्दृष्ट्वा दोषांश्छरीरिणाम् ।
ज्ञानमारोहति प्राज्ञः शरीरविनिवृत्तये ॥ १२।५९
ततस्तद्ध्यानमुत्सृज्य विशेषे कृतनिश्चयः ।
कामेभ्य इव सत्प्राज्ञो रूपादपि विरज्यते ॥ १२।६०
शरीरे खानि यान्यस्य तान्यादौ परिकल्पयन् ।
घनेष्वपि ततो द्रव्येष्वाकाशमधिमुच्यते ॥ १२।६१
आकाशसममात्मानं सङ्क्षिप्य त्वपरो बुधः ।
तदैवानन्ततः पश्यन् विशेषमधिगच्चति ॥ १२।६२
अध्यात्मकुशलेष्वन्यो निवर्त्यात्मानमात्मना ।
किञ्चिन्नास्तीति सम्पश्यन्नाकिञ्चन्य इति स्मृतः ॥ १२।६३
ततो मुञ्जादिषीकेव शकुनिः पञ्जरादिव ।
क्षेत्रज्ञो निःसृतो देहान्मुक्त इत्यभिधीयते ॥ १२।६४
एतत्तत्परमं ब्रह्म निर्लिङ्गं ध्रुवमक्षरम् ।
यन्मोक्ष इति तत्त्वज्ञाः कथयन्ति मनीषिणः ॥ १२।६५
इत्युपायश्च मोक्षश्च मया सन्दर्शितस्तव ।
यदि ज्ञातं यदि रुचिर् यथावत्प्रतिपद्यताम् ॥ १२।६६
जैगीषव्योऽथ जनको वृद्धश्चैव पराशरः ।
इमं पन्थानमासाद्य मुक्ता ह्यन्ये च मोक्षिणः ॥ १२।६७
इति तस्य स तद्वाक्यं गृहीत्वा न विचार्य च ।
पूर्वहेतुबलप्राप्तः प्रत्युत्तरमुवाच सः ॥ १२।६८
श्रुतं ज्ञानमिदं सूक्ष्मं परतः परतः शिवम् ।
क्षेत्रेष्वस्यापरित्यागादवैम्येतदनैष्ठिकम् ॥ १२।६९
विकारप्रकृतिभ्यो हि क्षेत्रज्ञं मुक्तमप्यहम् ।
मन्ये प्रसवधर्माणं वीजधर्माणमेव च ॥ १२।७०
विशुद्धो यद्यपि ह्यात्मा निर्मुक्त इति कल्प्यते । (अब् = १२।७१अब्)
भूयः प्रत्ययसद्भावादमुक्तः स भविष्यति ॥ १२।७१
ऋतुभूम्यम्बुविरहाद्यथा बीजं न रोहति ।
रोहति प्रत्ययैस्तैस्तैस्तद्वत्सोऽपि मतो मम ॥ १२।७२
यत्कर्माज्ञानतृष्णानां त्यागान्मोक्षश्च कल्प्यते ।
अत्यन्तस्तत्परित्यागः सत्यात्मनि न विद्यते ॥ १२।७१ (च्द् = १२।७३च्द्)
हित्वा हित्वा त्रयमिदं विशेषस्तूपलभ्यते ।
आत्मनस्तु स्थितिर्यत्र तत्र सूक्ष्ममिदं त्रयम् ॥ १२। ७२ (१२।७४)
सूक्ष्मत्वाच्चैव दोषाणामव्यापाराच्छ चेतसः ।
दीर्घत्वादायुषश्चैव मोक्षस्तु परिकल्प्यते ॥ १२।७३ (१२।७५)
अहङ्कारपरित्यागो यश्चैष परिकल्प्यते ।
सत्यात्मनि परित्यागो नाहङ्कारस्य विद्यते ॥ १२।७४ (१२।७६)
सङ्ख्यादिभिरमुक्तश्च निर्गुणो न भवत्ययम् ।
तस्मादसति नैर्गुण्ये नास्य मोक्षोऽभिधीयते ॥ १२।७५ (१२।७७)
गुणिनो हि गुणानां च व्यतिरेको न विद्यते ।
रूपोष्णाभ्यां विरहितो न ह्यग्निरुपलभ्यते ॥ १२।७६ (१२।७८)
प्राग्देहान्न भवेद्देही प्राग्गुणेभ्यस्तथा गुणी ।
कस्मादादौ विमुक्तः सञ्शरीरी बध्यते पुनः ॥ १२।७७ (१२।७९)
क्षेत्रज्ञो विशरीरश्च ज्ञो वा स्यादज्ञ एव वा ।
यदि ज्ञो ज्ञेयमस्यास्ति ज्ञेये सति न मुच्यते ॥ १२।७८ (१२।८०)
अथाज्ञ इति सिद्धो वः कल्पितेन किमात्मना ।
विनापि ह्यात्मनाज्ञानं प्रसिद्धं काष्ठकुड्यवत् ॥ १२।७९ (१२।८१)
परतः परतस्त्यागो यस्मात्तु गुणवान् स्मृतः ।
तस्मात्सर्वपरित्यागान्मन्ये कृत्स्नां कृतार्थताम् ॥ १२।८० (१२।८२)
इति धर्ममराडस्य विदित्वा न तुतोष सः ।
अकृत्स्नमिति विज्ञाय ततः प्रतिजगाम ह ॥ १२।८१ (१२।८३)
विशेषमथ शुश्रूषुरुद्रकस्याश्रमं ययौ ।
आत्मग्राहाच्च तस्यापि जगृहे न स दर्शनम् ॥ १२।८२ (१२।८४)
सञ्ज्ञासञ्ज्ञित्वयोर्दोषं ज्ञात्वा हि मुनिरुद्रकः ।
आकिञ्चिन्यात्परं लेभे सञ्ज्ञासञ्ज्ञात्मिकां गतिम् ॥ १२।८३ (१२।८५)
यस्माच्चालम्बने सूक्ष्मे सञ्ज्ञासञ्ज्ञे ततः परम् ।
नासञ्ज्ञी नैव सञ्ज्ञीति तस्मात्तत्र गतस्पृहः ॥ १२।८४ (१२।८६)
यतश्च बुद्धिस्तत्रैव स्थितान्यत्राप्रचारिणी ।
सूक्ष्मापादि ततस्तत्र नासञ्ज्ञित्वं न सञ्ज्ञिता ॥ १२।८५ (१२।८७)
यस्माच्च तमपि प्राप्य पुनरावर्तते जगत् ।
बोधिसत्त्वः परं प्रेप्सुस्तस्मादुद्रकमत्यजत् ॥ १२।८६ (१२।८८)
ततो हित्वाश्रमं तस्य श्रेयोऽर्थी कृतनिश्चयः ।
भेजे गयस्य राजर्षेर्नगरीसञ्ज्ञमाश्रमम् ॥ १२।८७ (१२।८९)
अथ नैरञ्जनातीरे शुचौ शुचिपराक्रमः ।
चकार वासमेकान्तविहाराभिव्रती मुनिः ॥ १२।८८ (१२। ९०)
तत्पूर्वं पञ्चेन्द्रियवशोद्धतान् ।
तपः व्रतिनो भिक्षून् पञ्च निरैक्षत ॥ (१२।९१)
पञ्चोपतस्थुर्दृष्ट्वात्र भिक्षवस्तं मुमुक्षवः ।
पुण्यार्जितधनारोग्यमिन्द्रियार्था इवेश्वरम् ॥ १२।८९ (१२।९२)
सम्पूज्यमानस्तैः प्रह्वैर्विनयानतमूर्तिभिः ।
तद्वंशस्थायिभिः शिष्यैर्लोलैर्मन इवेन्द्रियैः ॥ १२।९० (१२।९३)
मृत्युजन्मान्तकरणे स्यादुपायोऽयमित्यथ ।
दुष्कराणि समारेभे तपांस्यनशनेन सः ॥ १२।९१ (१२।९४)
उपवासविधीन् नेकान् कुर्वन् नरदुराचरान् ।
वर्षाणि षट्कर्मप्रेप्सुरकरोत्कार्श्यमात्मनः ॥ १२।९२ (१२।९५)
अन्नकालेषु चैकैकैः सकोलतिलतण्डुलैः ।
अपारपारसंसारपारं प्रेप्सुरपारयत् ॥ १२।९३ (१२।९६)
देहादपचयस्तेन तपसा तस्य यः कृतः ।
स एवोपचयो भूयस्तेजसास्य कृतोऽभवत् ॥ १२।९४ (१२।९७)
कृशोऽप्यकृशकीर्तिश्रीर्ह्लादं चक्रेऽन्यचक्षुषम् ।
कुमुदानामिव शरच्चुक्लपक्षादिचन्द्रमाः ॥ १२।९५ (१२।९८)
त्वगस्थिशेषो निःशेषैर्मेदःपिशितशोणितैः ।
क्षीणोऽप्यक्षीणगाम्भीर्यः समुद्र इव स व्यभात् ॥ १२।९६ (१२।९९)
अथ कष्टतपःस्पष्टव्यर्थक्लिष्टतनुर्मुनिः ।
भवभीरुरिमां चक्रे बुद्धिं बुद्धत्वकाङ्क्षया ॥ १२।९७ (१२।१००)
नायं धर्मो विरागाय न बोधाय न मुक्तये ।
जम्बुमूले मया प्राप्तो यस्तदा स विधिर्ध्रुवः ॥ १२।९८ (१२।१०१)
न चासौ दुर्बलेनाप्तुं शक्यमित्यागतादरः ।
शरीरबलवृद्ध्यर्थमिदं भूयोऽन्वचिन्तयत् ॥ १२।९९ (१२।१०२)
क्षुत्पिपासाश्रमक्लान्तः श्रमादस्वस्थमानसः ।
प्राप्नुयान्मनसावाप्यं फलं कथमनिर्वृतः ॥ १२।१०० (१२।१०३)
निर्वृतिः प्राप्यते सम्यक्सततेन्द्रियतर्पणात् ।
सन्तर्पितेन्द्रियतया मनःस्वास्थ्यमवाप्यते ॥ १२।१०१ (१२।१०४)
स्वस्थप्रसन्नमनसः समाधिरुपपद्यते ।
समाधियुक्तचित्तस्य ध्यानयोगः प्रवर्तते ॥ १२।१०२ (१२।१०५)
ध्यानप्रवर्तनाद्धर्माः प्राप्यन्ते यैरवाप्यते ।
दुर्लभं शान्तमजरं परं तदमृतं पदम् ॥ १२।१०३ (१२।१०६)
तस्मादाहारमूलोऽयमुपाय इतिनिश्चयः ।
असूरिकरणे धीरः कृत्वामितमतिर्मतिम् ॥ १२।१०४ (१२।१०७)
स्नातो नैरञ्जनातीरादुत्ततार शनैः कृशः ।
भक्त्यावनतशाखाग्रैर्दत्तहस्तस्तटद्रुमैः ॥ १२।१०५ (१२।१०८)
अथ गोपाधिपसुता दैवतैरभिचोदिता ।
उद्भूतहृदयानन्दा तत्र नन्दबलागमत् ॥ १२।१०६ (१२।१०९)
सितशङ्खोज्ज्वलभुजा नीलकम्बलवासिनी ।
सफेणमालानीलाम्बुर्यमुनेव सरिद्वरा ॥ १२।१०७ (१२।११०)
सा श्रद्धावर्धितप्रीतिर्विकसल्लोचनोत्पला ।
शिरसा प्रणिपत्यैनं ग्राहयामास पायसम् ॥ १२।१०८ (१२।१११)
कृत्वा तदुपभोगेन प्राप्तजन्मफलां स ताम् ।
बोधिप्राप्तौ समर्थोऽभूत्सन्तर्पितषडिन्द्रियः ॥ १२।१०९ (१२।११२)
पर्याप्ताप्यानमूर्तश्च सार्धं सुयशसा मुनिः ।
कान्तिधैर्यैकभारैकः शशाङ्कार्णववल्बभौ ॥ १२।११० (१२।११३)
आवृत्त इति विज्ञाय तं जहुः पञ्चभिक्षवः ।
मनीषिणमिवात्मानं निर्मुक्तं पञ्चधातवः ॥ १२।१११ (१२।११४)
व्यवसायद्वितीयोऽथ शाद्वलास्तीर्णभूतलम् ।
सोऽश्वत्थमूलं प्रययौ बोधाय कृतनिश्चयः ॥ १२।११२ (१२।११५)
ततस्तदानीं गजराजविक्रमः पदस्वनेनानुपमेन बोधितः ।
महामुनेरागतबोधिनिश्चयो जगाद कालो भुजगोत्तमः स्तुतिम् ॥ १२।११३ (१२।११६)
यथा मुने त्वच्चरणावपीडिता मुहुर्मुहुर्निष्टनतीव मेदिनी ।
यथा च ते राजति सूर्यवत्प्रभा ध्रुवं त्वमिष्टं फलमद्य भोक्ष्यसे ॥ १२।११४ (१२।११७)
यथा भ्रमन्त्यो दिवि वायपङ्क्तयः प्रदक्षिणं त्वां कमलाक्ष कुर्वते ।
यथा च सौम्या दिवि वान्ति वायवस्त्वमद्य बुद्धो नियतं भविष्यसि ॥ १२।११५ (१२।११८)
ततो भुजङ्गप्रवरेण संस्तुतस्तृणान्युपादाय शुचीनि लावकात् ।
कृतप्रतिज्ञो निषसाद बोधये महातरोर्मूलमुपाश्रितः शुचेः ॥ १२।११६ (१२।११९)
ततः स पर्यङ्कमकम्प्यमुत्तमं बबन्ध सुप्तोरगभोगपिण्डितम् ।
भिनद्मि तावद्भुवि नैतदासनं न यामि तावत्कृतकृत्यतामिति ॥ १२।११७ (१२।१२०)
ततो ययुर्मुदमतुलां दिवौकसो ववासिरे न मृगगना न पक्षिणः ।
न सस्वनुर्वनतरवोऽनिलाहताः कृतासने भगवति निश्चलात्मनि ॥ १२।११८ (१२।१२१)
इति श्रीबुद्धचरिते महाकाव्येऽश्वघोषकृतेऽराडदर्शनो नाम द्वादशः सर्गः ॥ १२ ॥
Book XIII [मारविजयो]
तस्मिन्श्च बोधाय कृतप्रतिज्ञे राजर्षिवंशप्रभवे महार्षौ ।
तत्रोपविष्टे प्रजहर्ष लोकस्तत्रास सद्धर्मरिपुस्तु मारः ॥ १३।१
यं कामदेवं प्रवदन्ति लोके चित्रायुधं पुष्पशरं तथैव ।
कामप्रचाराधिपतिं तमेव मोक्षद्विषं मारमुदाहरन्ति ॥ १३।२
तस्यात्मजा विभ्रमहर्षदर्पास्तिस्रो रतिप्रीतितृषश्च कन्याः ।
पप्रच्चुरेनं मनसो विकारं स तांश्च ताश्चैव वचो बभाषे ॥ १३।३
असौ मुनिर्निश्चयवर्म बिभ्रत् सत्त्वायुधं बुद्धिशरं विकृष्य ।
जिगीषुरास्ते विषयान्मदीयान् तस्मादयं मे मनसो विषादः ॥ १३।४
यदि ह्यसौ मामभिभूय याति लोकाय चाख्यात्यपवर्गमार्गम् ।
शून्यस्ततोऽयं विषयो ममाद्य वृत्ताच्च्युतस्येव विदेहभर्तुः ॥ १३।५
तद्यावदेवैष न लब्धचक्षुर्मद्गोचरे तिष्ठति यावदेव ।
यास्यामि तावद्व्रतमस्य भेत्तुं सेतुं नदीवेग इवाभिवृद्धः ॥ १३।६
ततो धनुः पुष्पमयं गृहीत्वा शरांस्तथा मोहकरांश्च पञ्च ।
सोऽश्वत्थमूलं ससुतोऽभ्यगच्चदस्वास्थ्यकारी मनसः प्रजानाम् ॥ १३।७
अथ प्रशान्तं मुनिमासनस्थं पारं तितीर्षुं भवसागरस्य ।
विषज्य सव्यं करमायुधाग्रे क्रीडञ्शरेणेदमुवाच मारः ॥ १३।८
उत्तिष्ठ भोः क्षत्रिय मृत्युभीत वरस्व धर्मं त्यज मोक्षधर्मम् ।
वाणैश्च [यज्ञैश्च] विनीय लोकान् लोकान् परान् प्राप्नुहि वासवस्य ॥ १३।९
पन्था हि निर्यातुमयं यशस्यो यो वाहितः पूर्वतमैर्नरेन्द्रैः ।
जातस्य राजर्षिकुले विशाले भैक्षाकमश्लाघ्यमिदं प्रपत्तुम् ॥ १३।१०
अथाद्य नोत्तिष्ठसि निश्चितात्मा भव स्थिरो मा विमुचः प्रतिज्ञाम् ।
मयोद्यतो ह्येष शरः स एव यः सूर्यके मीनरिपौ विमुक्तः ॥ १३।११
पृष्टः स चानेन कथञ्चिदैडः सोमस्य नप्ताप्यभवद्विचित्तः ।
स चाभवच्छान्तनुरस्वतन्त्रः क्षीणे युगे किं वत दुर्बलोऽन्यः ॥ १३।१२
तत्क्षिप्रमुत्तिष्ठ लभस्व सञ्ज्ञां वाणो ह्ययं तिष्ठति लेलिहानः ।
प्रियाभिधेयेषु रतिप्रियेषु यं चक्रवाकेष्वपि नोत्सृजामि ॥ १३।१३
इत्येवमुक्तोऽपि यदा निरास्थो नैवासनं शाक्यमुनिर्बिभेद ।
शरं ततोऽस्मै विससर्ज मारः कन्याश्च कृत्वा पुरतः सुतांश्च ॥ १३।१४
तस्मिंस्तु वाणेऽपि स विप्रमुक्ते चकार नास्थां न धृतेश्चचाल ।
दृष्ट्वा तथैनं विषसाद मारश्चिन्तापरीतश्च शनैर्जगाद ॥ १३।१५
शैलेन्द्रपुत्रीं प्रति येन विद्धो देवोऽपि शम्भुश्चलितो बभूव ।
न चिन्तयत्येष तमेव वाणं किं स्यादचित्तो न शरः स एषः ॥ १३।१६
तस्मादयं नार्हति पुष्पवाणं न हर्षणं नापि रतेर्नियोगम् ।
अर्हत्ययं भूतगणैरशेषैः सन्त्रासनातर्जनताडनानि ॥ १३।१७
सस्मार मारश्च ततः स्वसैन्यं विध्वंसनं शाक्यमुनेश्चिकीर्षन् ।
नानाश्रयाश्चानुचराः परीयुः शरद्रुमप्रासगदासिहस्ताः ॥ १३।१८
वराहमीनाश्वखरोष्ट्रवक्त्रा व्याघ्रर्क्षसिंहद्विरदाननाश्च ।
एकेक्षणा नैकमुखास्त्रिशीर्षा लम्बोदराश्चैव पृषोदराश्च ॥ १३।१९
अजासु सक्ता घटजानवश्च दंष्ट्रायुधाश्चैव नखायुधाश्च ।
कबन्धहस्ता बहुमूर्तयश्च भग्नार्धवक्त्राश्च महामुखाश्च ॥ १३।२०
ताम्रारुणा लोहितविन्दुचित्राः खट्वाङ्गहस्ता हरिधूम्रकेशाः ।
लम्बस्रजो वारणलंबकर्णाश्चर्मांबराश्चैव निरंबराश्च ॥ १३।२१
श्वेतार्धवक्त्रा हरितार्धकायास्ताम्राश्च धूम्रा हरयोऽसिताश्च ।
व्याडोत्तरासङ्गभुजास्तथैव प्रघुष्टघण्टाकुलमेखलाश्च ॥ १३।२२
तालप्रमाणाश्च गृहीतशूला दंष्ट्राकरालाश्च शिशुप्रमाणाः ।
उरभ्रवक्त्राश्च विहङ्गमाश्च मार्जारवक्त्राश्च मनुष्यकायाः ॥ १३।२३
प्रकीर्णकेशाः शिखिनोऽर्धमुण्डा रज्ज्वम्बरा व्याकुलवेष्टनाश्च ।
प्रहृष्टवक्त्रा भृकुटीमुखाश्च तेजोहराश्चैव मनोहराश्च ॥ १३।२४
केचिद्व्रजन्तो भृशमाववल्गुरन्योऽन्यमापुप्लुविरे तथान्ये ।
चिक्रीडुराकाशगताश्च केचित्केचिच्छ चेरुस्तरुमस्तकेषु ॥ १३।२५
ननर्त कश्चिद्भ्रमयंस्त्रिशूलं कश्चिद्ध पुस्फूर्ज गदां विकर्षन् ।
हर्षेण कश्चिद्वृषवन्ननर्त कश्चित्प्रजज्वाल तनूरुहेभ्यः ॥ १३।२६
एवंविधा भूतगणाः समन्तात्तद्बोधिमूलं परिवार्य तस्थुः ।
जिघृक्षवश्चैव जिघांसवश्च भर्तुर्नियोगं परिपालयन्तः ॥ १३।२७
तं प्रेक्ष्य मारस्य च पूर्वरात्रे शाक्यर्षभस्यैव च युद्धकालम् ।
न द्यौश्चकाशे पृथिवी चकम्पे प्रजज्वलुश्चैव दिशः सशब्दाः ॥ १३।२८
विष्वग्ववौ वायुरुदीर्णवेगस्तारा न रेजुर्न बभौ शशाङ्कः ।
तमश्च भूयो विततार रात्रेः सर्वे च सञ्चुक्षुभिरे समुद्राः ॥ १३।२९
महीभृतो धर्मपराश्च नागा महामुनेर्विघ्नममृष्यमाणाः ।
मारं प्रति क्रोधविवृत्तनेत्रा निःशश्वसुश्चैव जजृम्भिरे च ॥ १३।३०
शुद्धाधिवासा विबुधर्षयस्तु सद्धर्मसिद्ध्यर्थमिव प्रवृत्ताः ।
मारेऽनुकम्पां मनसा प्रचक्रुर्विरागभावात्तु न रोषमीयुः ॥ १३।३१
तद्बोधिमूलं समवेक्ष्य कीर्णं हिंसात्मना मारबलेन तेन ।
धर्मात्मभिर्लोकविमोक्षकामैर्बभूव हाहाकृतमन्तरीक्षम् ॥ १३।३२
उपप्लुतं धर्मविदस्तु तस्य दृष्ट्वा स्थितं मारबलं महार्षिः ।
न चुक्षुभे नापि ययौ विकारं मध्ये गवां सिंह इवोपविष्टः ॥ १३।३३
मारस्ततो भूतचमूमुदीर्णामाज्ञापयामास भयाय तस्य ।
स्वैः स्वैः प्रभावैरथ सास्य सेना तद्धैर्यभेदाय मतिं चकार ॥ १३।३४
केचिच्छलन्नैकविलम्बिजिह्वास्तीक्ष्णोग्रदंष्ट्रा हरिमण्डलाक्षाः ।
विदारितास्याः स्थिरशङ्कुकर्णाः सन्त्रासयन्तः किल नाम तस्थुः ॥ १३।३५
तेभ्यः स्थितेभ्यः स तथाविधेभ्यः रूपेण भावेन च दारुणेभ्यः ।
न विव्यथे नोद्विविजे महार्षिः क्रीडन् सुबालेभ्य इवोद्धतेभ्यः ॥ १३।३६
कश्चित्ततो रौद्रविवृत्तदृष्टिस्तस्मै गदामुद्यमयाञ्चकार ।
तस्तम्भ बाहुः सगदस्ततोऽस्य पुरन्दरस्येव पुरा सवज्रः ॥ १३।३७
केचित्समुद्यम्य शिलास्तरूंश्च विषेहिरे नैव मुनौ विमोक्तुम् ।
पेतुः सवृक्षाः सशिलास्तथैव वज्रावभग्ना इव विन्ध्यपादाः ॥ १३।३८
कैश्चित्समुत्पत्य नभो विमुक्ताः शिलाश्च वृक्षाश्च परश्वधाश्च ।
तस्थुर्नभस्येव न चावपेतुः सन्ध्याभ्रपादा इव नैकवर्णाः ॥ १३।३९
चिक्षेप तस्योपरि दीप्तमन्यः कडङ्गरं पर्वतशृङ्गमात्रम् ।
यन्मुक्तमात्रं गगनस्थमेव तस्यानुभावाच्चतधा बभूव ॥ १३।४०
कश्चिज्ज्वलन्नर्क इवोदितः खादङ्गारवर्षं महदुत्ससर्ज ।
चूर्नानि चामीकरकन्दराणां कल्पात्यये मेरुरिव प्रदीप्तः ॥ १३।४१
तद्बोधिमूले प्रविकीर्यमाणमङ्गारवर्षं तु सविस्फुलिङ्गम् ।
मैत्रीविहारादृषिसत्तमस्य बभूव रक्तोत्पलपत्रवर्षः ॥ १३।४२
शरीरचित्तव्यसनातपैस्तैरेवंविधैस्तैश्च निपात्यमानैः ।
नैवासनाच्चाक्यमुनिश्चचाल स्वं निश्चयं बन्धुमिवोपगुह्य ॥ १३।४३
अथापरे निर्जगलुर्मुखेभ्यः सर्पान्विजीर्णेभ्य इव द्रुमेभ्यः ।
ते मन्त्रबद्धा इव तत्समीपे न शश्वसुर्नोत्ससृजुर्न चेलुः ॥ १३।४४
भूत्वापरे वारिधरा वृहन्तः सविद्युतः साशनिचण्डघोषाः ।
तस्मिन् द्रुमे तत्यजुरश्मवर्षं तत्पुष्पवर्षं रुचिरं बभूव ॥ १३।४५
चापेऽथ वाणो निहितोऽपरेण जज्वाल तत्रैव न निष्पपात ।
अनीश्वरस्यात्मनि धूर्यमाणो दुर्मर्षणस्येव नरस्य मन्युः ॥ १३।४६
पञ्चेषवोऽन्येन तु विप्रमुक्तास्तस्थुर्नयत्येव मुनौ न पेतुः ।
संसारभीरोर्विषयप्रवृत्तौ पञ्चेन्द्रियाणीव परीक्षकस्य ॥ १३।४७
जिघांसयान्यः प्रससार रुष्टो गदां गृहीत्वाभिमुखो महार्षेः ।
सोऽप्राप्तकालो विवशः पपात दोषेष्विवानर्थकरेषु लोकः ॥ १३।४८
स्त्री मेघकाली तु कपालहस्ता कर्तुं महार्षेः किल मोहचित्तम् ।
बभ्राम तत्रानियतं न तस्थौ चलात्मनो बुद्धिरिवागमेषु ॥ १३।४९
कश्चित्प्रदीप्तं प्रणिधाय चक्षुर्नेत्राग्निनाशीविषवद्दिधक्षुः ।
तत्रैव नासीत्तमृषिं ददर्श कामात्मकः श्रेय इवोपदिष्टम् ॥ १३।५०
गुर्वीं शिलामुद्यमयंस्तथान्यः शश्राम मोघं विहतप्रयत्नः ।
निःश्रेयसं ज्ञानसमाधिगम्यं कायक्लमैर्धर्ममिवाप्तुकामः ॥ १३।५१
तरक्षुसिंहाकृतयस्तथान्ये प्रणेदुरुच्चैर्महतः प्रणादान् ।
सत्त्वानि यैः सञ्चुकुचुः समन्ताद्वज्राहता द्यौः फलतीति मत्वा ॥ १३।५२
मृगा गजाश्चार्त्तरवान् सृजन्तो विदुद्रुवुश्चैव निलिल्यिरे च ।
रात्रौ च तस्यामहनीव दिग्भ्यः खगा रुवन्तः परिपेतुरार्त्ताः ॥ १३।५३
तेषां प्रणादैस्तु तथाविधैस्तैः सर्वेषु भूतेष्वपि कम्पितेषु ।
मुनिर्न तत्रास न सञ्चुकोच रवैर्गरुत्मानिव वायसानाम् ॥ १३।५४
भयावहेभ्यः परिषद्गणेभ्यो यथा यथा नैव मुनिर्बिभाय ।
तथा तथा धर्मभृतां सपत्नः शोकाच्च रोषाच्छ ससार मारः ॥ १३।५५
भूतं ततः किञ्चिददृश्यरूपं विशिष्टरूपं गगनस्थमेव ।
दृष्ट्वार्षये द्रुग्धमवैररुष्टं मारं बभाषे महता स्वरेण ॥ १३।५६
मोघं श्रमं नार्हसि मार कर्तुं हिंस्रात्मतामुत्सृज गच्च शर्म ।
नैष त्वया कम्पयितुं हि शक्यो महागिरिर्मेरुरिवानिलेन ॥ १३।५७
अप्युष्णभावं ज्वलनः प्रजह्यादापो द्रवत्वं पृथिवी स्थिरत्वम् ।
अनेककल्पाचितपुण्यकर्मा न त्वेव जह्याद्व्यवसायमेषः ॥ १३।५८
यो निश्चयो ह्यस्य पराक्रमश्च तेजश्च यद्या च दया प्रजासु ।
अप्राप्य नोत्थास्यति तत्त्वमेष तमांस्यहत्वेव सहस्ररश्मिः ॥ १३।५९
काष्ठं हि मथ्नन् लभते हुताशं भूमिं खनन् विन्दति चापि तोयम् ।
निर्बन्धिनः किञ्च न नास्य साध्यं न्यायेन युक्तं च कृतं च सर्वम् ॥ १३।६०
तल्लोकमार्त्तं करुणायमानो रोगेषु रागादिषु वर्तमानम् ।
महाभिषग्नार्हति विघ्नमेष ज्ञानौषधार्थं परिखिद्यमानः ॥ १३।६१
हृते च लोके बहुभिः कुमार्गैः सन्मार्गमन्विच्छति यः श्रमेण ।
स दैशिकः क्षोभयितुं न युक्तं सुदेशिकः सार्थ इव प्रनष्टे ॥ १३।६२
सत्त्वेषु नष्टेषु महान्धकारैर्ज्ञानप्रदीपः क्रियमाण एषः ।
आर्यस्य निर्वापयितुं न साधु प्रज्वाल्यमानस्तमसीव दीपः ॥ १३।६३
दृष्ट्वा च संसारमये महौघे मग्नं जगत्पारमविन्दमानम् ।
यश्चेदमुत्तारयितुं प्रवृत्तः कश्चिन्नयेत्तस्य तु पापमार्यः ॥ १३।६४
क्षमाशिफो धैर्यविगाढमूलश्चारित्रपुष्पः स्मृतिबुद्धिशाखः ।
ज्ञानद्रुमो धर्मफलप्रदाता नोत्पाटनं ह्यर्हति वर्धमानः ॥ १३।६५
बद्धां दृढैश्चेतसि मोहपाशैर्यस्य प्रजां मोक्षयितुं मनीषा ।
तस्मिन् जिघांसा तव नोपपन्ना श्रान्ते जगद्बन्धनमोक्षहेतोः ॥ १३।६६
बोधाय कर्माणि हि यान्यनेन कृतानि तेषां नियतोऽद्य कालः ।
स्थाने तथास्मिन्नुपविष्ट एष यथैव पूर्वे मुनयस्तथैव ॥ १३।६७
एषा हि नाभिर्वसुधातलस्य कृत्स्नेन युक्ता परमेण धाम्ना ।
भूमेरतोऽन्योऽस्ति हि न प्रदेशो वेशं समाधेर्विषयो हितस्य ॥ १३।६८
तन्मा कृथाः शोकमुपेहि शान्तिं मा भून्महिम्ना तव मार मानः ।
विश्रम्भितुं न क्षममध्रुवा श्रीश्चले पदे किं पदमभ्युपैषि ॥ १३।६९
ततः स संश्रुत्य च तस्य तद्वचो महामुनेः प्रेक्ष्य च निष्प्रकम्पताम् ।
जगाम मारो विमना हतोद्यमः शरैर्जगच्चेतसि यैर्विहन्यसे ॥ १३।७०
गतप्रहर्षा विफलीकृतश्रमा प्रविद्धपाषाणकडङ्गरद्रुमा ।
दिशः प्रदुद्राव ततोऽस्य सा चमूर्हताश्रयेव द्विषता द्विषच्छमूः ॥ १३।७१
द्रवति सपरपक्षे निर्जिते पुष्पकेतौ
जयति जिततमस्के नीरजस्के महार्षौ ।
युवतिरिव सहासा द्यौश्चकाशे सचन्द्रा
सुरभि च जलगर्भं पुष्पवर्षं पपात ॥ १३।७२
तथापि पापीयसि निर्जिते गते दिशः प्रसेदुः प्रबभौ निशाकरः ।
दिवो निपेतुर्भुवि पुष्पवृष्टयो रराज योषेव विकल्मषा निशा ॥ १३।७३*
इति श्रीबुद्धचरिते महाकाव्येऽश्वघोषकृते मारविजयो नाम त्रयोदशः सर्गः ॥ १३ ॥
Book XIV
ततो मारबलं जित्वा धैर्येण च शमेन च ।
परमार्थं विजिज्ञासुः स दध्यौ ध्यानकोविदः ॥ १४।१
सर्वेषु ध्यानविधिषु प्राप्य चैश्वर्यमुत्तमम् ।
सस्मार प्रथमे यामे पूर्वजन्मपरम्पराम् ॥ १४।२
अमुत्राहमयं नाम च्युतस्तस्मादिहागतः ।
इति जन्मसहस्राणि सस्मारानुभवन्निव ॥ १४।३
स्मृत्वा जन्म च मृत्युं च तासु तासूपपत्तिषु ।
ततः सत्त्वेषु कारुण्यं चकार करुणात्मकः ॥ १४।४
कृत्वेह स्वजनोत्सर्गं पुनरन्यत्र च क्रियाः ।
अत्राणः खलु लोकोऽयं परिभ्रमति चक्रवत् ॥ १४।५
इत्येवं स्मरतस्तस्य बभूव नियतात्मनः ।
कदलीगर्भनिःसारः संसार इति निश्चयः ॥ १४।६
द्वितीये त्वागते यामे सोऽद्वितीयपराक्रमः ।
दिव्यं चक्षुः परं लेभे सर्वचक्षुष्मतां वरः ॥ १४।७
ततस्तेन स दिव्येन परिशुद्धेन चक्षुषा ।
ददर्श निखिलं लोकमादर्श इव निर्मले ॥ १४।८
सत्त्वानां पश्यतस्तस्य निकृष्टोत्कृष्टकर्मणाम् ।
प्रच्युतिं चोपपत्तिं च ववृधे करुणात्मता ॥ १४।९
इमे दुष्कृतकर्माणः प्राणिनो यान्ति दुर्गतिम् ।
इमेऽन्ये शुभकर्माणः प्रतिष्ठन्ते त्रिपिष्टपे ॥ १४।१०
उपपन्नाः प्रतिभये नरके भृशदारुणे ।
अमी दुःखैर्बहुविधैः पीड्यन्ते कृपणं वत ॥ १४।११
पाय्यन्ते क्वथितं केचिदग्निवर्णमयोरसम् ।
आरोप्यन्ते रुवन्तोऽन्ये निष्टप्तस्तम्भमायसम् ॥ १४।१२
पच्यन्ते पिष्टवत्केचिदयस्कुम्भीष्ववाङ्मुखाः ।
दह्यन्ते करुणं केचिद्दीप्तेष्वङ्गारराशिषु ॥ १४।१३
केचित्तीक्ष्णैरयोदंष्ट्रैर्भक्ष्यन्ते दारुणैः श्वभिः ।
केचिद्धृष्टैरयस्तुण्डैर्वायसैरायसैरिव ॥ १४।१४
केचिद्दाहपरिश्रान्ताः शीतच्छायाभिकाङ्क्षिणः ।
असिपत्रं वनं नीलं बद्धा इव विशन्त्यमी ॥ १४।१५
पाट्यन्ते दारुवत् केचित्कुठारैर्बहुबाहवः ।
दुःखेऽपि न विपद्यन्ते कर्मभिर्धारितासवः ॥ १४।१६
सुखं स्यादिति यत्कर्म कृतं दुःखनिवृत्तये ।
फलं तस्येदमवशैर्दुःखमेवोपभुज्यते ॥ १४।१७
सुखार्थमशुभं कृत्वा य एते भृशदुःखिताः ।
आस्वादः स किमेतेषां करोति सुखमण्वपि ॥ १४।१८
हसद्भिर्यत्कृतं कर्म कलुषं कलुषात्मभिः ।
एतत्परिणते काले क्रोशद्भिरनुभूयते ॥ १४।१९
यद्येव पापकर्माणः पश्येयुः कर्मणां फलम् ।
वमेयुरुष्णरुधिरं मर्मस्वभिहता इव ॥ १४।२०
शारीरेभ्योऽपि दुःखेभ्यो नारकेभ्यो मनस्विनः ।
अनार्यैः सह संवासो मम कृच्च्रतमो मतः ॥ १४।२१*
इमेऽन्ये कर्मभिश्चित्रैश्चित्तविस्पन्दसम्भवैः ।
तिर्यग्योनौ विचित्रायामुपपन्नास्तपस्विनः ॥ १४।२२ (१४।२१)
मांसत्वग्बालदन्तार्थं वैरादपि मदादपि ।
हन्यन्ते कृपणा यत्र बन्धूनां पश्यतामपि ॥ १४।२३ (१४।२२)
अशक्नुवन्तोऽप्यवशाः क्षुत्तर्षश्रमपीडिताः ।
गोऽश्वभूताश्च वाह्यन्ते प्रतोदक्षतमूर्तयः ॥ १४।२४ (१४।२३)
वाह्यन्ते गजभूताश्च बलीयांसोऽपि दुर्बलैः ।
अङ्कुशक्लिष्टमूर्धानस्ताडिताः पादपार्ष्णिभिः ॥ १४।२५ (१४।२४)
सत्स्वप्यन्येषु दुःखेषु दुःखं यत्र विशेषतः ।
परस्परविरोधाच्च पराधीनतयैव च ॥ १४।२६ (१४।२५)
खस्थाः खस्थैर्हि बाध्यन्ते जलस्था जलचारिभिः ।
स्थलस्थाः स्थलसंस्थैस्तु प्राप्यन्ते चेतरेतरैः ॥ १४।२७ (१४।२६)
उपपन्नास्तथा चेमे मात्सर्याक्रान्तचेतसः ।
पितृलोके निरालोके कृपणं भुञ्जते फलम् ॥ १४।२८ (१४।२७)
सूचीचिद्रोपममुखाः पर्वतोपमकुक्षयः ।
क्षुत्तर्षजनितैर्दुःखैः पीड्यन्ते दुःखभागिनः ॥ १४।२९ (१४।२८)
पुरुषो यदि जानीत मात्सर्यस्येदृशं फलम् ।
सर्वथा शिविवद्दद्याच्चरीरावयवानपि ॥ १४।३० (१४।३०)
आशया समभिक्रान्ता घार्यमाणाः स्वकर्मभिः ।
लभन्ते न ह्यमी भोक्तुं प्रवृद्धान्यशुचीन्यपि ॥ १४।३१ (१४।२९)
इमेऽन्ये नरकं प्राप्य गर्भसञ्ज्ञेऽशुचिह्रदे ।
उपपन्ना मनुष्येषु दुःखमर्छन्ति जन्तवः ॥ १४।३२ (१४।३१)
Anandajoti Bhikkhu
http://www.ancient-buddhist-texts.net/Texts-and-Translations/Buddhacarita/indextm