श्री चन्द्रशेखरेन्द्रसरस्वती चतुर्दशमञ्जरिकास्तोत्रम्
देशिकं भवरोगघ्नं चन्द्रशेखर सद्गुरुम् ।
सुब्रह्मण्यात्मजं वन्दे सर्वलोकहितङ्करम् ॥ १॥
श्री कामकोटिपीठस्थं जन्मदुःखविनाशकम् ।
स्वामिनाथगुरुं वन्दे शरणागतरक्षकम् ॥ २॥
त्रिकालज्ञानसम्पन्नं त्रिपुराम्बाप्रपूजकम् ।
महादेवगुरोःशिष्यं वन्दे मधुरभाषिणम् ॥ ३॥
दण्डहस्तं दयासिन्धुं दक्षिणामूर्तिरूपिणम् ।
देहाभिमानहीनं तं दीनबन्धुमहं भजे ॥ ४॥
शिष्यानुग्रहकर्तारं महालक्ष्मीसुतं गुरुम् ।
काषायधारिणं वन्दे काञ्चीनगरवासिनम् ॥ ५॥
श्री जयेन्द्रसरस्वत्या स्वर्णपुष्पैः सुपूजितम् ।
ज्ञानमार्गोपदेष्टारं तं नमामि जगद्गुरुम् ॥ ६॥
शिष्याणान्तापहन्तारं सर्वशास्त्रविशारदम् ।
नमामि सुलभं शान्तं काञ्चीपुरनिवासिनम् ॥ ७॥
मन्दस्मितं महाश्रेष्ठं मोक्षमार्गप्रकाशकम ।
सङ्गीतरसिकं वन्दे सर्वपापप्रणाशकम् ॥ ८॥
शतायुर्जीवितं शिष्टं सर्वसिद्धिप्रदायकम् ।
गोरक्षणकरं वन्दे कामकोटिगुरुं परम् ॥ ९॥
वेदवेदान्ततत्त्वज्ञं योगलिङ्गप्रपूजकम् ।
प्रणौमि परयाभक्त्या परमानन्ददायकम् ॥ १०॥
कैवल्यपददातारं संसारार्णवतारकम् ।
``मैत्रीं भजत'' गीतस्य कर्तारं प्रणमाम्यहम् ॥ ११॥
भस्मोद्धूलितसर्वाङ्गं भवबन्धविमोचकम् ।
अपारकरुणामूर्तिमाचार्य मणिमाश्रये ॥ १२॥
श्रीरामनाममन्त्रस्य लेखकानां च पोषकम् ।
काशिकासेतुपर्यन्तं पादयात्राकृतं भजे ॥ १३॥
योगमूर्तिं धर्मनिष्ठं काष्ठमौनपरायणम् ।
अतिरुद्रादियज्ञानाम्पोषकं प्रणमाम्यहम् ॥ १४॥
इत्थं विरचितं स्तोत्रं चन्द्रशेखरशर्मणा ।
जन्मसाफल्यसिद्ध्यर्थं गुरुपादे समर्पितम् ॥ १५॥
इति श्रीचन्द्रशेखरेन्द्रसरस्वती चतुर्दशमञ्जरिकास्तोत्रं सम्पूर्णम् ।
Composed, entered, and proofread by S. Chandrasekaran