श्रीचन्द्रशेखरेन्द्रसरस्वती सहस्रनामस्तोत्रम्

श्रीचन्द्रशेखरेन्द्रसरस्वती सहस्रनामस्तोत्रम्

श्रीगुरुभ्यो नमः । श्रीकाञ्चीकामकोटिपीठाधीश्वरजगद्गुरु श्रीशङ्कराचार्य परमपूज्य श्रीचन्द्रशेखरेन्द्रसरस्वतीश्रीचरण सहस्रनामस्तोत्रम् । शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं वन्दे सर्वविघ्नोपशान्तये ॥ १॥ पुस्तकजपवटहस्ते वरदाभयचिह्नचारुबाहुलते । कर्पूरामलदेहे वागीश्वरि शोधयाशु मम चेतः ॥ २॥ नारायणः पद्मभवो वसिष्ठः शक्तिश्च तत्पुत्रपराशरश्च । व्यासः शुको गौडपदो यमीन्द्रो गोविन्दयोगीति गुरुक्रमोऽयम् ॥ ३॥ आद्यः श्रीशङ्कराचार्योभगवत्पादसंज्ञकः । अवतीर्णः शम्भुरिति प्रथितः कालटीपदे ॥ ४॥ सुरेश्वरः पद्मपादो हस्तामलकतोटकौ । सर्वज्ञश्चेति तच्छिष्याः प्रथिता गुरुसन्निभाः ॥ ५॥ शङ्करः कामकोट्याख्यं पीठं काञ्च्यां व्यराजयत् । प्रत्यस्थापयदद्वैतं पीठेसर्वज्ञके स्थितः ॥ ६॥ आत्मानमनु सर्वज्ञं सुरेश्वरमते स्थितम् । गोप्तारं कामकोट्याख्यपीठस्य व्यदधाद्गुरुः ॥ ७॥ तदाद्येन्द्रसरस्वत्याख्याऽविच्छिन्ना परम्परा । पाति नो गुरुवर्याणां शारदामठसुस्थिता ॥ ८॥ अष्टषष्टितमाचार्यः शङ्करश्चन्द्रशेखरः । विराजते ब्रह्मभूतः स्वं वृन्दावनमास्थितः ॥ ९॥ तस्य नामान्यनन्तानि तदनुग्रहभाजनैः । गीयन्तेऽनुदिनं भक्त्या तदनुग्रहकाम्यया ॥ १०॥ नाम्नां सहस्रं गौणेभ्यस्तन्नामभ्यः प्रकीर्तये । चित्तशुद्धयै तत्प्रसादलब्ध्यै लोकशिवाय च ॥ ११॥ तदार्हन्त्यै प्रपद्ये तान् कामकोटिगुरूत्तमान् । प्रपन्नवत्सलान् लोकहिताचरणतत्परान् ॥ १२॥ ध्यानम् - अपारकरुणासिन्धुं ज्ञानदं शान्तरूपिणम् । श्रीचन्द्रशेखरगुरुं ध्यायामि तमहर्निशम् ॥ १३॥ श्रीशङ्करार्यमपरं श्रीशिवाशिवरूपिणम् । पूज्यश्रीकामकोट्याख्यपीठगं तं दयानिधिम् ॥ १४॥ अथ सहस्रनामस्तोत्रम् । ॐ अपारकरुणासिन्धुर्ज्ञानदः शान्तमानसः । श्रीचन्द्रशेखरगुरुः शुचिर्दान्तस्तपोरतः ॥ १॥ ऋजुः क्षमापरोऽतर्क्यः स्थिरधीरचलोऽमलः । अष्टषष्टितमाचार्यशङ्करो देशिकाग्रणीः ॥ २॥ काञ्चीराजत्कामकोटिपीठालङ्कृतिविश्रुतः । कामकोटीपीठकृत्यनिर्वाहोद्युक्तपूर्वजः ॥ ३॥ जयाब्दवैशाखजातः प्रतिपत्तिथिसम्भवः । आर्याभिख्यातगोविन्दयज्वदौहित्रवंशजः ॥ ४॥ कुलदेवतयाऽऽख्यात स्वामिशैलेशनामवान् । नागेश्वरार्यदौहित्रो मीनाक्षीतनुजाभवः ॥ ५॥ सुब्रह्मण्यात्मजः सूरिरनुराधाभवः सुहृत् । महालक्ष्मीगर्भधृतः ऋग्वेदी हरितान्वयः ॥ ६॥ होसलस्मार्तकुलजः कर्णाटीमातृभाषणः । गणपत्यनुजः साम्बललितादिपुरोभवः ॥ ७॥ पराभवाब्दमाघात्ततुर्याश्रम उदारधीः । सर्वज्ञभगवत्पादाचार्यरूपो महायशाः ॥ ८॥ महादेवेन्द्रयतिराडनुगो बालसंयमी । रक्तशुक्लप्रभामिश्रश्रीगुरुध्याननिर्वृतः ॥ ९॥ कलवैग्राम आरूढपीठो गुरुपदस्थितः । प्लवङ्गचैत्रे पट्टाभिषिक्तो देशिकसत्तमः ॥ १०॥ गृहीतविद्यः प्रमुखसूरिभ्यस्तत्त्ववित्तमः । महेन्द्रमङ्गलगुरुकुलवासी द्विजावृतः ॥ ११॥ दक्षस्तीर्थात्तशास्त्रार्थस्तीर्थीकृतनिजाश्रितः । सर्वतः सारसङ्ग्राही सम्भाषारसिकाग्रणीः ॥ १२॥ सारज्ञाताऽविसंवादी ज्ञातज्ञेयो विशालधीः । परचित्तविदेकान्तचिन्तकोऽमर्षवर्जितः ॥ १३॥ संस्कृतद्राविडान्ध्रादिबहुभाषाविशारदः । स्वयं शिष्टः शिष्टजनवृतो धर्म्ये पथि स्थितः ॥ १४॥ शुद्धस्त्रिषवणस्नायी काषायाम्बरवेष्टितः । आद्यशङ्करयोगीन्द्रसमयानुगतौरतः ॥ १५॥ बाहुदण्डलसद्दण्डः कराग्रगकमण्डलुः । फालभागलसद्भूति पुण्ड्रोऽतिविमलाननः ॥ १६॥ स्वदण्डपूजनरतो दण्डदृष्टेश्वरः सुधीः । भूतिप्रलिप्तावयवः पुण्यतीर्थकृताप्लवः ॥ १७॥ अग्निर्वायुर्जलं सर्वं भस्मेति मनने रतः । सदा त्रियम्बकमनुजापी शिवतनुः शिवः ॥ १८॥ धृतरुद्राक्षमकुटो जनदृष्टशिवाकृतिः । रुद्राक्षमालाभरणः कम्रो मन्दगतिर्व्रती ॥ १९॥ धर्ममार्गाग्रगामी चानुगमार्गप्रदर्शकः । वाणीविहारिजिह्वाग्रो लोकसङ्ग्रहणेरतः ॥ २०॥ सुन्दरीचन्द्रमौलीशपदाब्जमधुपान्तरः । श्रीमहादेवयतिराडीप्सिताचार संयतः ॥ २१॥ श्रीचन्द्रशेखरयतिदृष्टतुर्याश्रमस्थितिः । श्रीमेरुमध्यबिन्दुस्थ सुन्दरीध्यानतत्परः ॥ २२॥ कैलासानीतयोगाख्यशिवलिङ्गकृतार्हणः । पूजामण्डपवाहादिसमलङ्कृतितत्परः ॥ २३॥ गणेशादित्यगोविन्द शिवाशङ्करपूजकः । अद्वैतभावनापेतभेदधीः (१००) सगुणेक्षणः ॥ २४॥ सर्वं ब्रह्मेति कृतधीः सर्वत्रब्रह्मभावनः । पञ्चायतनसुज्ञेयदेवपूजनतत्परः ॥ २५॥ श्रीरुद्रपाठनिरतोऽतिरुद्रादिप्रवर्तकः । शिवार्पितमनःकायः सर्वत्र श्रीशिवेक्षणः ॥ २६॥ क्षेत्रयात्रापरो विश्वाकारब्रह्मविमर्शकः । क्षेत्रेशपूजकश्चिन्ताक्रियान्वयकृतौ क्षमः ॥ २७॥ सद्वृत्तजनताभाग्यं साधुतर्पणभाषणः । चिद्रसार्द्रः सत्तमानामतिरोधापितक्रमः ॥ २८॥ ऊहाद्यगम्यव्यापारोऽनलसः सफलोद्यमः । सुव्रतः सुखदाचारः सुकृती सुकृतार्हणः ॥ २९॥ कष्टावहव्रती कष्टाचिन्तकः सुकरोद्यमः । निर्व्यापारलवः स्वार्थे व्यापृतो जनताहिते ॥ ३०॥ दुर्ज्ञेयवस्तुनिवहलघूकरणभाषणः । निर्लक्ष्यो लब्धलक्ष्यार्थो वाङ्मनोऽतीतचिन्तकः ॥ ३१॥ विविधाप्तजनप्रार्थ्यदर्शनोऽगूढचर्यकः । कालदेशावधिकृतनियन्त्रणबहिर्भवः ॥ ३२॥ निगमागमनिर्भाततत्त्वान्वेषी विचारवान् । अस्पष्टो दृष्टमात्रेण शान्तः सुग्रहविग्रहः ॥ ३३॥ भूतभूतेन्द्रियमनोवशीकरणतत्परः । दुर्लभ्यवस्तुसुलभीकरणे मार्गदर्शकः ॥ ३४॥ उद्युक्तः पुरुषार्थार्थी सान्द्रानन्दावबोधकः । तन्वा वाचा धियाऽक्षुद्रः क्षुद्रचेतोविदूरगः ॥ ३५॥ विश्वपीडापहानाय यतः स्थिरतरात्मधीः । रजस्तमोऽनाकुलितसत्ववृत्तिः प्रशान्तधीः ॥ ३६॥ परानन्दामृतास्वादी निष्कम्पः कुपरिस्थितौ । नित्यपूर्णपरब्रह्मलीनधीरकृतान्तरः ॥ ३७॥ अव्यापृतोऽनेककृत्यव्यापृतोरागदूरगः । उद्यत्सूर्याभवक्त्रश्रीः भालराजित्रिरेखकः ॥ ३८॥ प्रव्राट् प्रव्राड्गणोद्दीपः काषायाम्बरशायनः । कौपीनराजत्कटिको वस्त्रालङ्कृत्यनिर्भरः ॥ ३९॥ महितो वेदवचसा मोहितो वेदवाचनैः । कान्तः स्वाचरणैः कान्तिनिधानं मधुरेहितः ॥ ४०॥ पूर्वभाषी मधुरवाक् निकटस्थो हितैषणः । विभुर्हृदा प्रभुःशक्त्या कुतुकी लोकसङ्ग्रहे ॥ ४१॥ प्रभविष्णुः प्रभविता निश्चेष्टश्चेष्टिताखिलः । नेत्रद्वयमतिप्रीतिदायकाचरणः कृती ॥ ४२॥ अम्बाध्यानामृतस्यन्दसन्दोहाप्लुतमानसः । धराधरसुतादिव्यकथामृतकृतादरः ॥ ४३॥ सौन्दर्यलहरीपाने पायनेऽश्रुपरिप्लुतः । पुरः सन्निहितानम्रजनाभीष्टदवाक्सुधः ॥ ४४॥ परमानन्दसान्द्रात्मभाषणाल्लोकनन्दकः । परभक्तिप्लतो देवीचन्द्रमौलिप्रपूजकः ॥ ४५॥ कारुण्यात्माऽऽश्रितहिताचरणोऽमेयहृद्गतः । वागीशानो मधुरवाक् स्वात्मदश्चाविशेषदृक् ॥ ४६॥ दयागुरुर्लोकहितप्रवणीकृतसज्जनः । अनभ्यर्थ्यर्थिनिवहविश्राणितधनादिकः (२०१) ॥ ४७॥ लोकाहितावहजननेतृसौमत्यदायकः । निग्रहानुग्रहचणोऽसङ्गोभगवदाश्रितः ॥ ४८॥ भक्तेष्टदः पारिजातसमः स्वात्मन ईशिता । अर्थिव्रजार्तिहरणनियोजितधनिव्रजः ॥ ४९॥ स्फीतभाग्यप्रदानोत्कचरणः स्वात्मनिष्ठितः । कीर्त्यो गुणगणाधारः सौन्दर्यलहरीरतः ॥ ५०॥ स्वाङ्गभास्वत्तपःश्रीको विश्वतेजा विभावितः । महिताचार्यचरणोऽखिलविद्वेद्यदर्शनः ॥ ५१॥ ईशितेशितसन्मर्त्यः शारदामठसुस्थितः । विद्यावान्विमलोद्योगो विज्ञो निःस्पृहचेष्टितः ॥ ५२॥ असक्तः सुखसंवेत्ताऽदीनः शोकविवर्जितः । विवासी विजने गानरतो वीणाविनोदवन् ॥ ५३॥ शक्रवाटीद्रुमततिलघूकारिशिवास्मृतिः । शिवयोर्ध्यानयोगेन शिवीकृतजगत्त्रयः ॥ ५४॥ आत्मारामात्मदृष्टिपावितस्वजनो महान् । शङ्कृत्यधिकृतैश्वर्यः शङ्करार्पितचिन्तनः ॥ ५५॥ विगीतो निःस्पृहैः सेव्यः सङ्गवार्ताविनाकृतः । प्रेमार्द्रहासो मधुरवचाः क्षिप्रप्रसादनः ॥ ५६॥ दृश्यः सुनासः सुग्रीवो विभूत्यङ्कित फालकः । कण्ठोज्ज्वलत्सुरुद्राक्षमालयोन्नतकन्धरः ॥ ५७॥ रुद्राक्षभूषितश्रोत्रो रुद्राक्षावलिशेखरः । करलम्बितरुद्राक्षजपमालः सुदर्शनः ॥ ५८॥ तुलसीबिल्वमालाधृक्शिराः प्रणतवत्सलः । नारायणेतिव्याहारदत्ताशीर्वचनोऽनघः ॥ ५९॥ नारायणेति व्याहार स्मृतगोविन्ददत्तधीः । भगवद्रूपकलनाव्यापृतक्षण ईडिता ॥ ६०॥ आत्मसम्पद्रतः सम्पद्यश्रद्धः स्वाश्रिताश्रयः । अच्युतस्मृतिलीनात्माऽच्युतोऽच्युतनिजाश्रितः ॥ ६१॥ चिरन्तनोक्तिमहितवेदरक्षापरायणः । आश्चर्यदर्शी कुतुकी विश्वगाश्चर्यदर्शने ॥ ६२॥ महीयसाऽपिमहितः महनीयो महामनाः । दर्पणालोकितजगद्बोधितात्मस्वरूपदृक् ॥ ६३॥ लघ्वायाससुनिर्वर्त्यसत्कर्मसु नियोजकः । क्लिष्टतर्कारतो नीतिमार्गज्ञो नीतिबोधकः ॥ ६४॥ ऐहिकश्रेयसो वक्ता चामुष्मिकहितावहः । मृदुर्मृदुतरस्वान्तो बह्वर्थललितस्मितः ॥ ६५॥ ललितान्यस्तसर्वस्वः सदयो दयिताश्रितः । महामहिमराष्ट्रेशसचिवाद्यभिवन्दितः ॥ ६६॥ काशीनेपालराष्ट्रेशकृतपादाभिवन्दनः । धर्म्यमार्गगसन्नेतृन्यस्तधर्माभिरक्षणः ॥ ६७॥ सौन्दर्यलहरीमुख्यस्तुतितत्त्वविदग्रणीः । शिवाकारः शिवानन्दलहरीमग्नमानसः ॥ ६८॥ भगवत्पादरचितस्तोत्रपारायणोत्सुकः । आद्याचार्याखिलग्रन्थसारवेत्ता प्रगल्भवाक् ॥ ६९॥ क्रोधदूरः क्रोधयन्ता यतो(३००) दान्तनिजान्तरः । स्वच्छन्दवृत्तिरच्छन्दो धर्मच्छन्दानुवर्तनः ॥ ७०॥ तच्छब्दवाच्यचिन्ताकस्तदर्थात्मनियोजकः । तद्वशस्तत्पदज्ञेयसगुणाज्ञावशंवदः ॥ ७१॥ सगुणब्रह्मदत्तेक्षः सगुणाभ्यर्हणेरतः । सगुणेऽर्पितसर्वस्वः सगुणान्निर्गुणेक्षकः ॥ ७२॥ भक्तप्रियोभक्तिवेद्यः भक्तिवश्यो भवार्चकः । भक्तसौभाग्यघटको भक्तेष्टाचरणप्रियः ॥ ७३॥ मन्त्रजापी मन्त्रसिद्धो मन्त्रार्थमनने रतः । भावनागम्यललितामहिमावेक्षणेरतः ॥ ७४॥ भवारण्यकुठारात्मानन्दलब्धिसुनिर्वृतः । महायोगेश्वरस्तन्त्रमन्त्रयोगविदर्हितः ॥ ७५॥ परात्मभावनालीनो मन्त्रतन्त्राद्युपेक्षकः । निर्ममो निरहङ्कारो निष्कामो निष्परिग्रहः ॥ ७६॥ अक्लेशतो धीकालुष्यहारी विमलधीप्रदः । प्रमोदभरितस्वान्तो निर्वृतात्मेशचिन्तकः ॥ ७७॥ धन्यो धन्यस्मृतिर्धन्यतापादकवचःस्मृतिः । तपसाऽधिगतस्वेष्टोऽगदोगदनिवारणः ॥ ७८॥ देवीपदाब्जस्मरणरसिको नामजापकः । आधिव्याधिहरोदीनजनविश्रान्तिदायकः ॥ ७९॥ चिद्रूपसद्दर्शनाप्तानन्दः सम्मोदसम्भृतः । गूढात्मगतिरव्यग्रः प्रौढयोगगतौचणः ॥ ८०॥ देवीनामस्मृतिप्राप्तनैरुजस्तापवर्जितः । धर्म्याचारे दृढमतिः ईशेज्याधूतकल्मषः ॥ ८१॥ ईशालोकोत्कनयनः ईशगाथारतश्रवाः । पराङ्मुखस्याभिमुखीकरणे चाटुवाक्ततिः ॥ ८२॥ आर्तप्रलापिजनतोत्साहकृत् दैन्यनाशकः । यमादिनिरतः शान्तिदान्तिभूमा समाधिमान् ॥ ८३॥ शुभदर्भासनासीनो मृगाजिनकृतासनः । तारमन्त्रजपेलीनः प्राणवायुनियामकः ॥ ८४॥ ईशे विश्वात्मभावाढ्यः विश्वे ईशात्मभावनः । तारत्र्यवयवध्याता तारनादोन्मुखश्रवाः ॥ ८५॥ धारणाच्यवनक्लिन्नः पुनः सिद्धात्मधारणः । धारणानिर्वृतो ध्यानलब्धात्मानन्द आत्मवान् ॥ ८६॥ अनावृतपदस्थायी ब्रह्मभावादविच्युतः । अक्लिष्टकारी सुकरध्यानमार्गप्रदर्शकः ॥ ८७॥ स्निग्धः समो मधुरगीर्मधुरान्मधुरेक्षणः । अव्याजकरुणापूर्णहृदयः करुणेक्षणः ॥ ८८॥ निस्तुलस्तुलनाहीनब्रह्मवस्तुनिविष्टधीः । दुष्टदूरो दुष्टजनपावनो दुष्टतापहः ॥ ८९॥ आर्यधर्मकामकोटिमुखपत्रप्रवर्तकः । बिम्बग्रहकलाभिज्ञो गायको गीतसारवित् ॥ ९०॥ ज्ञानसम्बन्धवागीशमुखगीतान्तरार्थदृक् । मणिवाचकगोदेशसुप्रभातस्तुतेश्वरः ॥ ९१॥ श्रीमद्रामायणकथाश्रवणे कुतुकी शमी (४००) । रामनामप्रभावज्ञो रामचारित्रविस्मितः ॥ ९२॥ श्रीरामनामलेखोत्कजनतोत्साहवर्धनः । कोटिसङ्ख्याक श्रीरामनामलेख प्रवर्तकः ॥ ९३॥ शुकवागमृतास्वादी श्रीकृष्णध्यानलीनधीः । कृतार्थचित्तो धन्यात्मा धन्यवाक्कायमण्डलः ॥ ९४॥ समाकूतिः सहृदयः समनाः सङ्गवर्जितः । समः स्वपरभेदाज्ञः क्षमया पृथिवीसमः ॥ ९५॥ करुणास्यन्दिदृक्पातो गीतदेवाररञ्जितः । देवारश्रवणप्रीतिधाता देवारतत्त्ववित् ॥ ९६॥ देवारगायकगणरक्षको मधुगायनः । विद्वन्महितदेवारगीतः परशिवाकृतिः ॥ ९७॥ सुधामधुरभाष्यल्पाक्षरोभूर्यर्थवेदकः । अक्षितेजोधूतपापो गोब्राह्मणहिते रतः ॥ ९८॥ गोशालापालनव्यग्रो वृद्धानाथसुपोषकः । यतिमण्डलसंवीतो बालचित्तविनोदनः ॥ ९९॥ भक्तमानसराजीवमित्रो मैत्रीदयाव्रती । आङ्ग्ल्यादिबहुभाषावित् नव्यविज्ञानसूक्ष्मवित् ॥ १००॥ स्वभाषयाऽन्यभाषाविद्गणसम्भाषणोत्सुकः । नव्यविज्ञानविन्मुख्यैस्तत्त्वविद्याविचारकृत् ॥ १०१॥ सम्भाषाज्ञातविज्ञानतारतम्यगवेषकः । पादमूलनतानेकविपश्चिद्गणसंवृतः ॥ १०२॥ सद्गोष्ठीमहितः साधुहिताचारः सताङ्गतिः । भगवच्छङ्करगुरोरपराकृतिरुत्तमः ॥ १०३॥ काषायवासा विध्वस्तकषायोदेशिकोत्तमः । शिरोवेष्टितकाषायवासोऽच्छन्नमुखाम्बुजः ॥ १०४॥ विशालवक्षा निष्टप्तहेमाभतनुरूर्जितः । वेदाध्ययनशालाकृद्वेदाधीतिकृतादरः ॥ १०५॥ वेदरक्षासमितिकृद्वेदाध्यापकमण्डनः । त्रयीपदविभागज्ञवेदाध्यापकरक्षकः ॥ १०६॥ अनधीतिवशाल्लुप्तवेदशाखागवेषकः । विमानितद्विजगणसम्माननकृतादरः ॥ १०७॥ पदक्रमजटापाठे विद्यार्थ्युत्साहवर्धनः । जयाख्येन्द्रसरस्वत्या कृतपादाभिवन्दनः ॥ १०८॥ श्रीशङ्करविजयेन्द्रसरस्वत्यभिवन्दितः । श्रीजयेन्द्रगुरुप्रेरकेच्छाशक्तिः प्रभावनः ॥ १०९॥ क्रियाशक्तिश्रीजयेन्द्र पूरितेच्छो विभावनः । गुरुप्रियाब्रह्मसूत्रवृत्तिकृच्छिष्यतोषितः ॥ ११०॥ राजराजाख्यचोलस्य स्वर्णमौलिकृतार्हणः । गुरोर्हृद्गतसङ्कल्पक्रियान्वयकृदाश्रवः ॥ १११॥ कामाक्षीवाहकस्वर्णरथकल्पननिर्भरः । कामाक्ष्यम्बालयस्वर्णच्छादको हेमदीप्तिमान् ॥ ११२॥ काश्यां श्रीकामकोटीशालयकर्ता विदांवरः । कुम्भाभिषेचनादीप्तदेवालय उदारधीः ॥ ११३॥ कालट्यां शङ्करगुरोः कीर्तिस्तम्भकृतार्हणः । चिदम्बरेशकरुणाप्लावितः शैववाग्रतः ॥ ११४॥ रत्नभूषितनृत्येशहस्तशीर्षपदाम्बुजः । श्रीचक्रात्मकताटङ्कनवीकरणमोदितः ॥ ११५॥ श्रीकामाक्ष्याः सहस्राख्यामालालङ्करणक्षमः । पदयात्रालङ्घिताध्वा क्षेत्रतीर्थाटनः सदा ॥ ११६॥ क्षेमदो जनतायोगक्षेमविद्भद्रकारकः । वर्णधर्मरहस्यज्ञो ब्रह्मचर्यव्रते स्थितः ॥ ११७॥ भस्मीकृतैषणाभत्रिभूतिरेखाललाटकः । ऊरीकृतजगद्रक्षो दृक्कोणकरुणेक्षणः ॥ ११८॥ सुधास्रुतिसमाभाषः कण्ठगस्फटिकावलिः । अम्बिकाक्रीडसौधाभाभयहस्तः पुरानवः ॥ ११९॥ षड्भावदूरस्तपसा दीप्ततेजा बुधार्हितः (५००) । अन्तर्मुखः सदा मौनी जिततृष्णो जितक्षुधः ॥ १२०॥ गीर्वाणवाणीसम्पोषलग्नः क्षामोदरः कृशः । बहिर्मुखो लोकहिते उपवासरतोऽक्लमः ॥ १२१॥ धर्मपोषणसङ्कल्पो धर्मज्ञो धर्म्यपालनः । असङ्गविवृतज्ञानयोगो वेत्ता जितेन्द्रियः ॥ १२२॥ शिष्योपदेशनिरतः कार्याकार्यप्रबोधकः । ज्ञानमुद्राञ्चितकरः कुक्कुटासनसुस्थितः ॥ १२३॥ कान्तः पद्मासनासीनः क्वचिदुत्कटकस्थितः । पारिव्राज्याश्रमयशःकारको मन्त्रतन्त्रवित् ॥ १२४॥ त्रयीमार्गोप्रदेष्टाऽर्च्यः सर्वतन्त्रस्वतन्त्रधीः । वेदान्तस्मृतितत्त्वज्ञो द्वैताद्वैतविचक्षणः ॥ १२५॥ श्रुतिस्मृतिपुराणादिसारविद्विज्ञसम्मतः । सारस्वतानुग्रहदोगुणत्रयविभागवित् ॥ १२६॥ कलिघ्नः कल्युचितसत्सङ्गधाता विरक्तधीः । शैववैष्णवशाक्तादिलक्ष्यभेदप्रदर्शकः ॥ १२७॥ भगवन्नामरतिकृत् नामजपकमध्यगः । अमानुषचरित्राढ्यश्चातिमानुषवीर्यवान् ॥ १२८॥ तत्तद्भाषागभजनस्तुतिगीतप्रकाशकः । चित्रकर्मरतश्चित्रदर्शनोत्सुकमानसः ॥ १२९॥ शिल्पचित्रकलाभिज्ञसंरक्षणविधौरतः । शिल्पचित्रकलाबोधिविद्यालयविधायकः ॥ १३०॥ शिल्पि प्रचोदकः शिल्पैः कृतालयपरिष्कृतिः । स्वनामविख्यातविश्वविद्यालयसमीक्षकः ॥ १३१॥ विश्वराष्ट्रीयसद्ग्रन्थालयलब्धात्मतोषणः । विद्यालयव्रातकृतितुष्टो विद्याविवर्धनः ॥ १३२॥ भेरीपटहवाद्यादिमहितस्वागतोत्सवः । सकृत्स्मरणसन्तुष्टः सर्वज्ञो ज्ञानदायकः ॥ १३३॥ दरस्मितमुखाम्भोजः कान्त्या विजितभास्करः । स्वानुष्ठित्याख्यातकर्मयोगो नेता स्वकर्मवित् ॥ १३४॥ स्वभक्तियोगघटितचन्द्रमौलिपदद्वयः । सप्तकोटिमहामन्त्रवेत्ता जप्तमहामनुः ॥ १३५॥ मैत्र्यादिवासनावाप्तसमधीर्लोकशर्मदः । वैखरीजितवागीशाशावर्गजिदग्रणीः ॥ १३६॥ प्राच्याग्रहाररचनारसिकः स्थितरक्षकः । ग्रामीणजनसद्वृत्तिविधाता विहितार्थदृक् ॥ १३७॥ शैवः शाक्तो गाणपतो वैष्णवोऽभेददर्शकः । ब्रह्मचर्यात्प्रव्रजित एषणात्रयवर्जितः ॥ १३८॥ भगवत्पादस्मृत्युत्थरोमाञ्चोऽरतिवर्जितः । भक्त्यावनम्रविजयजयेन्द्रेड्यो यमीश्वरः ॥ १३९॥ प्रपञ्चव्यवहाराणां साक्षी सङ्गविवर्जितः । द्वन्द्वातीतः सुहृदयो राजयोगस्थिरान्तरः ॥ १४०॥ अवस्थात्रितयातीतभानवान् सूरितल्लजः । वीक्षाविवशिताशेषजनस्वान्तः स्वराड् गुहः ॥ १४१॥ शिवो गुरुः शिवगुरुः शिवगुर्वात्मजाश्रितः । श्रीकामकोटिपीठाग्र्यनिकेतो गुरुतल्लजः (६००) ॥ १४२॥ स्ववृत्तप्रीणिताशेषविबुधो विबुधोत्तमः । महावाक्यसमाम्नाततत्त्वज्ञस्तत्त्वबोधकः ॥ १४३॥ भक्तोपहृतसद्ग्रन्थकृतेक्षस्तत्स्थसारवित् । ज्ञानदानोत्कमधुरवाग्विलासो महामहाः ॥ १४४॥ मर्यादोल्लङ्घनरतजनदूरोऽविदूरगः । बालकोत्साहदो बालसुलभो बालदेशिकः ॥ १४५॥ व्यक्तोऽव्यक्तोऽतिविशदश्चिन्मयश्चित्कलाधरः । आकाङ्क्ष्यदर्शनो नव्यनव्यरूपधृगीश्वरः ॥ १४६॥ मूकवाचालकृत्पङ्गुसुकराद्रीशलङ्घनः । सच्छिष्यरक्षितः शिष्यरक्षाकृत् शिष्यवत्सलः ॥ १४७॥ पदवाक्यप्रमाणज्ञः प्रस्थानत्रयपण्डितः । भक्तानां परमस्पष्टः परमाख्यगुरुप्रियः ॥ १४८॥ परर्द्ध्यस्पृह आर्तेष्टदाता धर्मपरायणः । पर्जन्यवद्धितकरः परिग्रहविवर्जितः ॥ १४९॥ पवनः पावनः पूतस्वाचारे पर्यवस्थितः । स्मरणादाधिशतहृत् भवरुग्भेषजं भिषक् ॥ १५०॥ पुण्यकीर्तिः पुण्यलभ्यदर्शनः स्मृतिपावनः । पुष्कराक्षः पुष्पहासः पुरुजित्पुरुसत्तमः ॥ १५१॥ भूतभव्यभवद्द्रष्टा भव्यो रुद्राक्षभूषणः । प्रग्रहः पेशलः प्रांशुः शिष्यदोषप्रतर्दनः ॥ १५२॥ ब्रह्म ब्रह्मविदामग्र्यः प्रसन्नोब्रह्मभावदः । भ्राजिष्णुः प्राणदः प्राणनिलयोमङ्गलं परम् ॥ १५३॥ मनोजवो मारुतजित्श्वासायामो महाक्रमः । महोनिधिर्महाभागो महाबुद्धिर्महार्हणः ॥ १५४॥ मृदुस्वनो महावाग्मी परा मुक्त्यर्थिनां गतिः । सुमेधया दृष्टलोकवार्ताकोऽदृश्यदर्शनः ॥ १५५॥ भगवत्पदविश्रान्तो नेता योगविदां सताम् । रविमण्डलमध्यस्थश्रीमात्रालोकतत्परः ॥ १५६॥ चन्द्रमण्डलदृष्टात्मदैवतो भावनाबली । वनमालिस्तुतिपरो वरारोह उदारवाक् ॥ १५७॥ कर्ता विकर्ता गहनचेष्टो गुह्यस्वविक्रमः । विश्वदृष्टिविशेषज्ञो विधेयविनयावहः ॥ १५८॥ विरजोमार्गसञ्चारी विरामो विरजोऽयनः । आत्मारामो जितमनाः विहायसगतिप्रियः ॥ १५९॥ वीरो वीतभयो विष्णुर्वेगवान् वीतदुर्भगः (७००) । व्यग्रो व्यवस्थितोऽक्लिष्टव्यवसायोऽव्यथक्रमः ॥ १६०॥ व्याससूक्तिरतो व्यासदृष्टभारतभाववित् । रामसेतुधनुष्कोटिरामेश्वरचिरस्थितिः ॥ १६१॥ अग्नितीर्थे द्वादशेशलिङ्गदर्शननिर्वृतः । अब्धिवेलातिक्रमणरोधिमारुतिपूजकः ॥ १६२॥ वृषारूढमहेशानदर्शनासक्त उत्तरः । वात्यादिनष्टमार्गस्थदीनानाथान्नदानकृत् ॥ १६३॥ विविक्तसेवी विजितकरणः पूतहृच्छयः । जन्ममृत्युजराभीतिपदादायी जितान्तरः ॥ १६४॥ जितमन्युर्जितक्रोधो जितामर्षोऽव्यथेन्द्रियः । ज्योतिरादित्यदत्तेक्षः आत्मज्योतिषि निष्ठितः ॥ १६५॥ प्रबलेन्द्रियसङ्घर्षजयीन्द्रियविनोदनः । स्वकृत्यभरसंक्षेप्ता सदायोगी सतां गतिः ॥ १६६॥ सत्कृतो द्विजसत्कर्तासत्पथाचारदेशिकः । सत्वस्थः सत्ववान्साधुसन्धाता सुसमीहितः ॥ १६७॥ समितिञ्जयवाग्भूतिः सर्वशास्त्रविदांवरः । सर्वदर्शी सर्वसहः सर्वयोगविनिःसृतः ॥ १६८॥ सर्वासुनिलयश्रीमत्कामाक्षी पदनिष्ठितः । सहः सहिष्णुः सर्वज्ञ साक्ष्यात्मा सिद्धसाधनः ॥ १६९॥ पराहन्ताभरन्यस्तस्वाहम्भाव उपेक्षकः । धन्यनामा धन्यकृतिः धन्यतापादनक्षमः ॥ १७०॥ धराधरक्षमाशीलो दर्पहा सौम्यभावनः । धर्मगुब्धर्मकृद्धर्मी धर्माध्यक्षो दुरारिहा ॥ १७१॥ दाक्षिण्यनिधिराशान्तख्यातकीर्तिरदारुणः । धृतिमान् जितषड्वर्गो दीप्तिमान्दुर्गमान्तरः ॥ १७२॥ दुर्मर्षणोऽप्रतिरथः तुरीयात्मनि निष्ठितः । दुःस्वप्नहा दुष्कृतिहा वरदेशप्रसादनः ॥ १७३॥ तेजोनिधिर्द्युतिधरो निर्धनो द्रविणप्रदः । धृतात्माऽऽनन्दनो नन्दी नयनीतस्वजीवनः ॥ १७४॥ निग्रहो निगृहीतात्मा निग्रहाध्वप्रदर्शकः । नियतोऽनियमोजेताध्याननीतक्षणान्तरः ॥ १७५॥ नैककर्मकृदव्यग्रो नैकरूपोऽनिरूपितः । भगवान्भगवत्पादस्मृतिधन्यो भवापहः ॥ १७६॥ अनुत्तमपदद्रष्टा भयकृद्भयनाशनः । अक्रूरोऽतीन्द्रियद्रष्टाऽग्राह्योऽशोकोऽतमा (८००) दृढः ॥ १७७॥ अचिन्त्यवेगोऽधिष्ठानस्थितोऽधोक्षज आश्रमः । कृते लोकहितेऽतृप्तोऽनन्तरूप उदीरतः ॥ १७८॥ अनिरोध्योऽप्रमेयात्मा वादेऽतिरथ उग्रधीः । अनुकूलोऽरविन्दाक्षोऽमेयश्रीर्धरणीशयः ॥ १७९॥ अमानी मानदो मान्यो मिताशी मितभाषणः । करणीयादनावृत्तोऽक्षोभ्य आनन्दभावनः ॥ १८०॥ उदारचिन्तो निःस्वार्थ ऊर्जावानूर्जितः स्वतः । कपीन्द्रभक्तो गरुडवाहनारायणार्चकः ॥ १८१॥ कविहृद्यकथावक्ताऽकामो गुरुतमः स्वयम् । गोविन्दाष्टकगायी सुकृताशीर्गातृमध्यगः ॥ १८२॥ भजगोविन्दगानेन तुच्छरागव्यपोहनः । कृतज्ञो गुरुपादेषु कृतधीः स्वकृतौ स्वतः ॥ १८३॥ बालादपि श्रुतनयः चतुरश्रः शुचिश्रवाः । स्वामी शक्तिमतांश्रेष्ठः चतुर्वेदविदर्हणः ॥ १८४॥ स्वान्तर्गतारिनिवहनियन्ताऽबाह्यशत्रुकः । गोक्षीरचन्दनक्षोदघृताद्यैरीशसेचकः ॥ १८५॥ शब्दातिगब्रह्मरतः शब्दब्रह्मणि निष्ठितः । अक्षुब्धचेता अक्रुद्धः स्वशास्ता शिष्यशासकः ॥ १८६॥ इष्ठोऽविशिष्टः शिष्टेष्टः शुभाङ्गः शुभदेक्षणः । शिवार्पितमनाः श्रीशसेवी श्रेयोदसूक्तिमान् ॥ १८७॥ दान्तो दमयिताऽदम्यः तीर्णश्रुत्यादिसागरः । सिद्धार्थः सिद्धसङ्कल्पः सुतपा शुभदर्शनः ॥ १८८॥ आश्रितावननिष्णातसुप्रसादः सुलोचनः । सुमुखः सुरुचिः सेवाऽऽयातार्थिसुलभः सुदृक् ॥ १८९॥ सोमयागादिविप्रेन्द्रनिर्वर्त्यक्रतुरक्षकः । स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोतास्तुतातिगः ॥ १९०॥ स्थविरो दण्डधृत् दण्डापनीताश्रितरुक्चयः । स्थिरः स्पष्टाक्षरो बिल्वतुलसीस्रग्विभूषितः ॥ १९१॥ स्वस्तिकृत्स्ववशः स्वङ्गः स्वभावमृदुरक्षितः । हवनप्रीतहुतभुङ्मध्यगेश्वरदर्शनः ॥ १९२॥ अनुग्रहक्षमः क्षामद्रष्टा क्षेमकृदीक्षणः । क्षेत्रक्षेत्रज्ञदृष्ट्याप्तसमदृष्टिर्हितङ्करः (९०१) ॥ १९३॥ महनीयगुणग्रामो जयेन्द्रन्यस्तपीठधूः । स्वहंसगमनव्याप्तभारतो विबुधाकृतिः ॥ १९४॥ कदन्नतृप्तः क्षामोदरो मुग्धतराननः । महाध्वगमनाश्रान्तो महापाशुपताकृतिः ॥ १९५॥ सामगानप्रियः सामगानतोषितशङ्करः । महामन्त्रजपप्राप्तविभूतिर्भूतिदोनृणाम् ॥ १९६॥ सुधाधरीकृतिचणसूक्तिः स्वीकृतसंयमः । वृत्तौ मधुकरश्चित्ते हिमोवागीश्वरो धिया ॥ १९७॥ सुवासिन्यर्चनरतो नवकन्यासमर्चकः । सुवासिनीमण्डलगदेवीदर्शननिर्वृतः ॥ १९८॥ अजपाजपसुप्रीतः कामाक्षीप्रकटाकृतिः । देव्यै नवनवस्निग्धमधुरान्ननिवेदकः ॥ १९९॥ अग्रजाग्रोऽचिन्त्यगुणोऽगर्वितोऽमरवाग्वदः । वैदिकैस्तान्त्रिकैर्मन्त्रैरर्हिताम्बोह्यतान्त्रिकः ॥ २००॥ अनाकलितसादृश्यः श्रीविद्यामन्त्रतन्त्रवित् । सर्वाधिशायिकरुणोललितः स्मितरोचिषा ॥ २०१॥ अद्वैतं सत्यमित्याख्यन्मध्यार्जुनशिवार्चकः । त्र्याश्रमस्थैरर्हिताङ्घ्रिः प्रत्यक् चितिविमर्शकः ॥ २०२॥ दयमानो दीर्घदृष्टिः गुरुसङ्केतपालकः । निजसंलापमाधुर्यहृतसज्जनमानसः ॥ २०३॥ उपचारैः षोडशभिर्मानसैर्महितेश्वरः । आबालगोपविदितः कर्माकर्मविभागवित् ॥ २०४॥ लुप्तविघ्नः स्वाश्रितानां ऋजुचित्तसमीपगः । दैवीसम्पद्धृताकारो दैवीसम्पन्निधानभूः ॥ २०५॥ अम्बापादावलम्बिस्वजीवनः सुखजीवनः । मौन्यचेष्टोऽवचनप्रवक्ता श्रोतृतर्पकः ॥ २०६॥ जराशोषितसर्वाङ्गो जरयाऽजरितान्तरः । वाचापनीतवैमत्यः शास्त्ररक्षणतत्परः ॥ २०७॥ गुरुवारे शास्त्रविद्भिः कृतशास्त्रविचारणः । स्वजन्मभानुराधासु वेदरक्षाविचारकृत् ॥ २०८॥ अप्रौढकन्योद्वाहार्थनिधिदो लोकनायकः । अनाथप्रेतसंस्कारोपकृन्निधिविधायकः ॥ २०९॥ वेदभाष्याधीतिपालः क्षुधितान्नवितारकः । मुष्टितण्डुलचित्त्यात्तनिःस्वालयसुपोषणः ॥ २१०॥ रुग्णालयगतार्तानां ईशानुग्रहवेदकः । कलवैस्थस्वगुरुराड्वृन्दावनचिरस्थितिः ॥ २११॥ सताराक्षेत्रगोदीच्य चिदम्बरशिवाश्रयः । देहलीनिर्मिताद्र्यग्र्य स्वामिशैलेशमन्दिरः ॥ २१२॥ शरणागतदीनार्तपरित्राणपरायणः । आम्नायसारगुलिकाचूषकः स्वच्छहृच्छयः ॥ २१३॥ विदितात्मरसानन्दास्वादत्यक्तैषणः स्वभूः । सिंहासनेशीमनुराड्जपनिस्तन्द्रितान्तरः ॥ २१४॥ आत्मानन्दरसास्वादार्धसम्मीलितपक्ष्मकः । पूजागेहानन्तरभूकृतवासोऽनिकेतनः ॥ २१५॥ महागुरुमहास्वामिपरमाचार्यसंज्ञकः । नवोमहानितिख्यात शिष्यः शिष्योपनायकः ॥ २१६॥ देशपालैरर्चिताङ्घ्रिः कोट्यतीतजनैर्नुतः । श्रीजयेन्द्रसरस्वत्यै स्वयमद्वैतबोधकः ॥ २१७॥ शिष्याय योगलिङ्गार्चामार्गनिर्देशकारकः । सुन्दरीवरिवस्यार्ह श्रीविद्यादीक्षिताश्रवः ॥ २१८॥ प्रख्यापितप्रशिष्यश्च बालस्वामीति संज्ञया । स्वसन्निधौ प्रशिष्याय बोधिताद्वैत आशुकृत् ॥ २१९॥ शिष्यप्रशिष्यनिर्वृत्तशताब्दीपरमोत्सवः । वेदैश्चतुर्भिर्विप्रौघघोषितैर्मुदितान्तरः ॥ २२०॥ पादपीठे न्यस्तपादो हेमसिंहासनास्थितः । गुरुद्वितयशिष्याग्र्यकृतचामरवीजनः ॥ २२१॥ शिष्यैर्जयेन्द्रैः कनकमुद्राकृतपदार्चनः । वृन्दावनेसन्निहितः काञ्च्यन्तरितविग्रहः (१०००) । स्वर्च्यः स्तवेड्यः स्तुत्यात्मापुरःस्फुरितभातनुः ॥ २२३॥ नाद्यास्तीति भ्रान्तिभीतस्वान्तेऽस्मीतिप्रदर्शकः । काञ्च्यां श्रीकामकोट्याख्यपीठगः शङ्करो गुरुः ॥ २२४॥ पूज्यश्रीचरणः चन्द्रशेखरेन्द्रसरस्वती । महास्वामी विजयताच्छारदामठसुस्थितः (१००८) ॥ २२५॥ नमस्ते परमाचार्य महास्वामिन् महागुरो । वृन्दावने सन्निहित रक्ष वृन्दमिमं स्वकम् ॥ २२६॥ नामस्तवनमात्रेणपुरः स्फुरितविग्रहः । दर्शयत्यात्मचरितं मोदयन्नः परोगुरुः ॥ २२७॥ इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः । आप्नोति सम्पदं सर्वामिष्टामर्थ्यां शुभेक्षणः ॥ २२८॥ श्रीचन्द्रशेखरेन्द्रसरस्वती सहस्रनामस्तोत्रं सम्पूर्णम् । श्री गुरो जय विजयीभव । Proofread by Aruna Narayanan
% Text title            : chandrashekharendrasarasvatI sahasranAmastotram nAmAvalI
% File name             : chandrashekharendrasahasranAmastotram.itx
% itxtitle              : chandrashekharendrasarasvatI sahasranAmastotram nAmAvalI
% engtitle              : chandrashekharendrasarasvatI sahasranAmastotram nAmAvalI
% Category              : deities_misc, gurudev, sahasranAma
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Indexextra            : (Text, Tamil, Info)
% Latest update         : November 20, 2020
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org