श्रीचन्द्रशेखरेन्द्रसरस्वतीमङ्गलाशासनम्
गोविन्ददीक्षितकुलतिलकाय महात्मने ।
काञ्चीपुरनिवासाय स्वामिनाथाय मङ्गलम् ॥ १॥
ज्ञानभानुस्वरूपाय महालक्ष्मीसुताय ते ।
वेदागमोद्धारकाय स्वामिनाथाय मङ्गलम् ॥ २॥
``मैत्रीं भजत''गीतस्य कर्त्रे कारुण्यसिन्धवे ।
पाठशालापोषकाय स्वामिनाथाय मङ्गलम् ॥ ३॥
भस्मोद्धूलितदेहाय भवरोगविनाशिने ।
योगलिङ्गाराधकाय स्वामिनाथाय मङ्गलम् ॥ ४॥
श्रीचन्द्रशेखरेन्द्राय दक्षिणामूर्तिरूपिणे ।
सत्यधर्मस्वरूपाय स्वामिनाथाय मङ्गलम् ॥ ५॥
वेदवेदान्तवेद्याय विद्याविनयदायिने ।
कामकोटिमठेशाय स्वामिनाथाय मङ्गलम् ॥ ६॥
मङ्गलं स्वामिनाथाय महनीय गुणात्मने ।
सुब्रह्मण्यतनूजाय सार्वभौमाय मङ्गलम् ॥ ७॥
मुष्टितण्दुलदानेन दरिद्राणां हितैषिणे ।
महालक्ष्मीतनूजाय सार्वभौमाय मङ्गलम् ॥ ८॥
इति श्रीचन्द्रशेखरेन्द्रसरस्वतीमङ्गलाशासनं सम्पूर्णम् ।
Composed, encoded, and proofread by S. Chandrasekaran