श्रीदीक्षितनवरत्नमालिका
अस्मद्वंशावतंसाध्वरिवररचिता ये प्रवन्धाः प्रथन्ते
देशे देशे विदुष्यत्यतिमुषितबृहन्मोहसन्दोहवृन्दाः ।
तेषामर्थं यथावत्कतिचनकृतिनः सर्वतन्त्रैकवेद्यं
धन्यास्संविद्रते तान् शरणयतु जनो घोरसंसारभीरुः ॥ १॥
मूर्धन्यत्वेन मीमांसकवरनिकरे ये स्तुताः कौस्तुभेऽपि
श्रीमन्तो यत्प्रबन्धाः शतमिह विदुषां वृन्दमानन्दयन्ति ।
अन्यानाघ्रातयुक्तिप्रचयघटनयाध्वंसितं मध्वतन्त्रं
नानोदाहारयुक्त्यास्त्रिविधविधिभिदा यैः स्फुटं ज्ञापिता नः ॥ २॥
आत्मज्ञानं विमुक्तेर्गमकमिति तदभ्यर्थिनां सद्यतीनां
सद्यो मुक्तेरवाप्त्यै व्यरचि परिमलो न्याय रक्षामणिश्च ।
केषाञ्चित् प्रेम लक्ष्मीपति सदनगतौ वीक्ष्य तल्लक्ष्मणार्या-
द्याकूतव्यञ्जिका साप्यकथि नयमयूखादिमाला विशाला ॥ ३॥
माध्ये तन्त्रेऽपि तिष्ठन् मधुमथनसदाराधनोभृतपुण्यैः
शुद्धात्मा श्रद्दधीत श्रुतिमकुटगते ब्रह्मणि त्वात्मभूते ।
इत्यालोच्य स्वयं तद्विहतमपि मतं रक्षितुं ग्रन्थभेदे
माध्वानां यैः प्रणीता परमहितकरी न्यायमुक्तावलीसा ॥ ४॥
तेषां पादाब्जरेणुस्मरणमलमघौधस्य विध्वस्तये नः
पुण्यौघस्योपचित्यै न तदुभयजुषां किञ्चिदन्यद्धयपेक्ष्यम् ।
प्रायो लोकोपकारप्रवणितमनसः स्वान्वये जन्मभाज
ते मां रक्षन्तु भीतं भवदवदहनात्सम्प्रसाद्याम्बिकेशम् ॥ ५॥
यत्प्रोचे शम्भुभक्ति विघटयितुमलं तत्त्वमुक्ताकलापे
प्रत्यूचे तच्छृतीनां नययुतविवृतेः शैवकर्णामृतादौ ।
श्रीकण्ठार्योक्तिमूलं परमतमपि नोन्मूलितं तत्र भावात्
कोऽन्यः शक्तो भुवि स्यान्मखिकुलतिलकात् सर्वलोकोपकृत्यै ॥ ६॥
सार्वज्ञं वीक्ष्य येषां प्रथितकविवरैः सार्वभौमः शशंसे
येषामाशीगिराभूदखिलकुशलभाङ नीलकण्टाध्वरीन्द्रः ।
येषां तादात्विकेभ्यः किल सकलकलावल्लभत्वं बुधेभ्यः
सर्वेभ्योभ्यहितं द्रागभवदिति समाकर्णये वर्णये किम् ॥ ७॥
प्रबन्ध शतनिर्मितिः प्रथितमग्निहोत्रादिकं
श्रुतप्रवचतादयः श्रितजनावनार्थं प्रभोः ।
सभां प्रति गतागतं समुदितं मखीन्द्रोषु नः
कियत्यलसता सतामपि ततः परोषां भुवि ॥ ८॥
शङ्करभगवत्पादाचार्यास्त्वद्वैतमार्गमिव ।
ये प्रत्यतिष्ठापयन् भुवि शिव भक्तिपथं कथं न ते वन्द्याः ॥ ९॥
नवरत्नमालिकैषा मखिराजघरितम मञ्जूषा ।
दुरितौघतिमिरपूषा योषार्धतनोस्तनोतु परितोषम् ॥ १०॥
श्री त्यागराजमखि विरचिता श्रीदीक्षित नवरत्नमालिका समाप्ता ।