देवैः कृतं दक्षस्तोत्रम्
देवा ऊचुः -
प्रसीद सीदतां ब्रह्मन्नस्माकं बहुदुःखिनाम् ।
उद्धरस्व महाबुद्धे त्राहि नः शोकसागरात् ॥ ५॥
यद्रूपं ब्रह्मसंज्ञन्तु सृष्टिकृत् परमात्मनः ।
तदंशस्त्वं परं ज्योतिर्विप्ररूप नमोऽस्तुते ॥ ६॥
रक्षणात् सर्वजगतां प्रजापालनकारणात् ।
दक्षः प्रजापतिश्चेति योगेशस्तं नुमो वयम् ॥ ७॥
दक्षाय सर्वजगतां दक्षाय कुशलात्मनाम् ।
दक्षायात्महितायाशु नमस्तुभ्यं महात्मने ॥ ८॥
सततं चिन्त्यमानस्य योगिभिर्नियतेन्द्रियैः ।
सारस्य सारभूतस्त्वं दक्षाय परमात्मने ॥ ९॥
योगिवृत्तिरनाधृष्य पारगाणां परायणः ।
आद्यन्तमुक्तः साहसा तस्मै नित्यं नमो नमः ॥ १०॥
इति कालिकापुराणे एकविंशाध्यायान्तर्गतं
देवैः कृतं दक्षस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran