श्रीदत्तात्रेयानुष्टुप्मन्त्रविधानम्
विनियोगः -
ॐ अस्य श्रीदत्तात्रेयानुष्टुप्मन्त्रस्य भगवान् शिव ऋषिः ।
अनुष्टुप्छन्दः । षड्भुजः श्रीदत्तात्रेयो देवता ।
तत्प्रीत्यर्थे जपे विनियोगः ॥
ऋष्यादिन्यासः ।
भगवते शिवऋषये नमः शिरसि ।
अनुष्टुप्छन्दसे नमः मुखे ।
षड्भुजश्रीदत्तात्रेयदेवतायै नमः हृदि ।
तत्प्रीत्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ॥
करन्यासः ।
दत्तात्रेय अङ्गुष्ठाभ्यां नमः ।
हरे कृष्ण तर्जनीभ्यां स्वाहा ।
उन्मत्तानन्ददायक मध्यमाभ्यां वषट् ।
दिगम्बर मुने अनामिकाभ्यां हुम् ।
बाल पिशाच कनिष्ठिकाभ्यां वौषट् ।
ज्ञानसागर करतलकरपृष्ठाभ्यां फट् ॥
षडङ्गन्यासः ।
दत्तात्रेय हृदयाय नमः ।
हरे कृष्ण शिरसे स्वाहा ।
उन्मत्तानन्ददायक शिखायै वषट् ।
दिगम्बर मुने कवचाय हुम् ।
बाल पिशाच नेत्रत्रयाय वौषट् ।
ज्ञानसागर अस्त्राय फट् ॥
ध्यानम् -
सदानन्दात्मकं शुद्धं सात्त्विकं तारकं परम् ।
विश्वरूपं जगद्योनिं दत्तात्रेयं भजाम्यहम् ॥
षड्भुजं वरदं शान्तं दिगम्बरमनामयम् ।
बालोन्मत्तपिशाचार्थं योगिनां हृदि संस्थितम् ॥
ज्ञानसागरमत्युग्रं भक्तानुग्रहकारकम् ।
अवधूतं महायोगिं दत्तात्रेयं नमाम्यहम् ॥
मूलमन्त्रजपः ।
दत्तात्रेय हरे कृष्ण उन्मत्तानन्ददायक ।
दिगम्बर मुने बाल पिशाच ज्ञानसागर ॥
॥ इति श्रीदत्तात्रेयानुष्टुप्मन्त्रविधानं सम्पूर्णम् ॥
Those who do not have a physical guru should practice Dattatreya Upasana.
Encoded and proofread by Durga Sharma