श्रीदत्तात्रेयारात्रिका
जय देव जय देव जय दत्तात्रेय ।
श्रीसद्गुरुमवधूत मुनिमानसहंस ॥ ध्रुवपदम् ॥
अनसूयात्मज त्रिगुणातीत निजरूप
सुखघनमाक्रमामल वरणीयसार ।
निर्धूताखिलबन्धन तत्त्वमसिध्येय
अत्र्यनसूयादत्तो बोद्धुं निजतत्त्वमसि ॥ १॥
भात्यस्तिप्रियवृत्तौ सच्चित्सुखमात्र
रेजे त्वयि अद्वयब्रह्मैवाहं तत्त्वं नित्यम् ।
त्रिभिरपि निजमुखकमलैः सच्चित्सुखमित्थं
ब्रह्मैवाहं तत्त्वं बोधयसि स्वीयम् ॥ २॥
हरिहरविधिरूपैरपि त्रिगुणैरुपेत
सच्चित्सुखब्रह्मैवं विमलात्मैवाहमिति ।
ज्ञानविरक्त्युपरतय इतिसाधनत्रितयं
निजपदसम्प्राप्त्यर्थं बोधयसि स्वार्थम् ॥ ३॥
जगदुद्धरणविधात्रीं निजशक्तीं विद्यां
धवलां धेनुस्वरूपां संरक्षस्याद्याम् ।
नो शुनकान् वेदांश्च संरक्षसि नित्यं
वेदवेदस्तुतपरमात्मा दत्तस्तवं सत्यम् ॥ ४॥
नो माया नाविद्या किञ्चिन्नो द्वैतं
जीवेशौ वापि नैवं पिण्डं ब्रह्माण्डम् ।
एकं समरसभूतं ब्रह्मानन्दघनं
पञ्चारात्रिका सहजा निर्गुण आत्मपदे ॥ ५॥
इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान्
श्रीधरस्वामीमहाराजविरचिता श्रीदत्तात्रेयारात्रिका सम्पूर्णा ।
मार्गशीर्षशुद्धप्रतिपद् रविवासरः श्रीश्रीधराश्रमः, वरदपुरं
Proofread by Manish Gavkar