श्रीदत्तात्रेयषडक्षरीमन्त्रविधानम्
विनियोगः -
ॐ अस्य श्रीदत्तात्रेयषडक्षरीमन्त्रस्य भगवान् सदाशिव ऋषिः ।
गायत्री छन्दः । श्रीदत्तात्रेय देवता । जपे विनियोगः ॥
ऋष्यादिन्यासः ।
भगवते सदाशिवऋषये नमः शिरसि ।
गायत्रीछन्दसे नमः मुखे ।
श्रीदत्तात्रेयदेवतायै नमः हृदि ।
जपे विनियोगाय नमः सर्वाङ्गे ॥
करन्यासः ।
ॐ अङ्गुष्ठाभ्यां नमः ।
श्रीं तर्जनीभ्यां स्वाहा ।
ह्रीं मध्यमाभ्यां वषट् ।
क्रों अनामिकाभ्यां हुम् ।
ग्लौं कनिष्ठिकाभ्यां वौषट् ।
द्रां करतलकरपृष्ठाभ्यां फट् ॥
षडङ्गन्यासः ।
ॐ हृदयाय नमः ।
श्रीं शिरसे स्वाहा ।
ह्रीं शिखायै वषट् ।
क्रों कवचाय हुम् ।
ग्लौं नेत्रत्रयाय वौषट् ।
द्रां अस्त्राय फट् ॥
ध्यानम् -
सदानन्दात्मकं शुद्धं सात्त्विकं तारकं परम् ।
विश्वरूपं जगद्योनिं दत्तात्रेयं भजाम्यहम् ॥
दिगम्बरं जटाधारं भस्मोद्धूलितविग्रहम् ।
वराभयकरं देवं सिद्धयोगिनिषेवितम् ॥
शङ्खचक्रगदापद्मधारिणं भक्तवत्सलम् ।
त्रिमूर्त्यात्मकमव्यक्तं दत्तात्रेयं नमाम्यहम् ॥
मूलमन्त्रजपः ।
ॐ श्रीं ह्रीं क्रों ग्लौं द्रां ॥
॥ इति श्रीदत्तात्रेयषडक्षरीमन्त्रविधानं सम्पूर्णम् ॥
Those who do not have a physical guru should practice Dattatreya Upasana.
Encoded and proofread by Durga Sharma