श्रीदत्तात्रेयषोडशाक्षरीमन्त्रविधानम्
मन्त्रः ।
ॐ ऐं क्रों क्लीं क्लूं हां हीं हूं सौः दत्तात्रेयाय स्वाहा ॥
विनियोगः -
ॐ अस्य श्रीदत्तषोडशाक्षरीमन्त्रस्य भगवान् सदाशिव ऋषिः ।
गायत्री छन्दः । श्रीदत्तात्रेयो देवता । ॐ बीजम् । स्वाहा शक्तिः ।
दत्तात्रेयाय कीलकम् । चतुर्विधपुरुषार्थप्राप्त्यर्थे जपे विनियोगः ॥
ऋष्यादिन्यासः ।
सदाशिवऋषये नमः शिरसि ।
गायत्रीछन्दसे नमः मुखे ।
श्रीदत्तात्रेयदेवतायै नमः हृदये ।
ॐ बीजाय नमः गुह्ये ।
स्वाहा शक्तये नमः पादयोः ।
दत्तात्रेयाय कीलकाय नमः नाभौ ।
चतुर्विधपुरुषार्थप्राप्त्यर्थे विनियोगाय नमः करसम्पुटे ॥
प्रथम करन्यासः ।
ॐ अङ्गुष्ठाभ्यां नमः ।
ऐं तर्जनीभ्यां नमः ।
क्रों मध्यमाभ्यां नमः ।
क्लीं अनामिकाभ्यां नमः ।
क्लूं कनिष्ठिकाभ्यां नमः ।
हां हीं हूं सौः दत्तात्रेयाय स्वाहा करतलकरपृष्ठाभ्यां नमः ॥
प्रथम हृदयादि-षडङ्गन्यासः ।
ॐ हृदयाय नमः ।
ऐं शिरसे स्वाहा ।
क्रों शिखायै वषट् ।
क्लीं कवचाय हुम् ।
क्लूं नेत्रत्रयाय वौषट् ।
हां हीं हूं सौः दत्तात्रेयाय स्वाहा अस्त्राय फट् ॥
द्वितीय करन्यासः ।
ॐ अङ्गुष्ठाभ्यां नमः ।
क्रां तर्जनीभ्यां नमः ।
सुराग सुराग सुराग मध्यमाभ्यां नमः ।
सौः अनामिकाभ्यां नमः ।
दत्तात्रेयाय कनिष्ठिकाभ्यां नमः ।
स्वाहा करतलकरपृष्ठाभ्यां नमः ॥
द्वितीय हृदयादि-षडङ्गन्यासः ।
ॐ हृदयाय नमः ।
क्रां शिरसे स्वाहा ।
सुराग सुराग सुराग शिखायै वषट् ।
सौः कवचाय हुम् ।
दत्तात्रेयाय नेत्रत्रयाय वौषट् ।
स्वाहा अस्त्राय फट् ॥
ध्यानम् -
सदानन्दात्मकं शुद्धं सात्त्विकं तारकं परम् ।
विश्वरूपं जगद्योनिं दत्तात्रेयं भजाम्यहम् ॥
दिगम्बरं जटाधारं भस्मोद्धूलितविग्रहम् ।
षड्भुजं वरदं देवं योगिसिद्धनिषेवितम् ॥
मालाकमण्डलुधरं त्रिशूलडमरुधारिणम् ।
भक्ताभीष्टप्रदं शान्तं दत्तात्रेयं नमाम्यहम् ॥
मूलमन्त्रः ।
ॐ ऐं क्रों क्लीं क्लूं हां हीं हूं सौः दत्तात्रेयाय स्वाहा ॥
॥ इति श्रीदत्तात्रेयषोडशाक्षरीमन्त्रविधानं सम्पूर्णम् ॥
Those who do not have a physical guru should practice Dattatreya Upasana.
Encoded and proofread by Durga Sharma