श्रीदत्तात्रेयद्वादशाक्षरीमन्त्रविधानम्
विनियोगः -
ॐ अस्य श्रीदत्तात्रेयद्वादशाक्षरीमन्त्रस्य भगवान् सदाशिव ऋषिः ।
गायत्री छन्दः । श्रीदत्तात्रेयो देवता । ॐ बीजम् । स्वाहा शक्तिः ।
दत्तात्रेयः कीलकम् । मम श्रीदत्तप्रसादसिद्ध्यर्थे जपे विनियोगः ॥
ऋष्यादिन्यासः ।
भगवते सदाशिवऋषये नमः शिरसि ।
गायत्रीछन्दसे नमः मुखे ।
श्रीदत्तात्रेयदेवतायै नमः हृदि ।
ॐ बीजाय नमः गुह्ये ।
स्वाहा शक्तये नमः पादयोः ।
दत्तात्रेयकीलकाय नमः नाभौ ।
मम श्रीदत्तप्रसादसिद्ध्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ॥
करन्यासः ।
आं ह्रीं अङ्गुष्ठाभ्यां नमः ।
क्रों द्रां तर्जनीभ्यां नमः ।
एहि मध्यमाभ्यां नमः ।
दत्त अनामिकाभ्यां नमः ।
आत्रेय कनिष्ठिकाभ्यां नमः ।
स्वाहा करतलकरपृष्ठाभ्यां नमः ॥
षडङ्गन्यासः ।
आं ह्रीं हृदयाय नमः ।
क्रों द्रां शिरसे स्वाहा ।
एहि शिखायै वषट् ।
दत्त कवचाय हुम् ।
आत्रेय नेत्रत्रयाय वौषट् ।
स्वाहा अस्त्राय फट् ॥
ध्यानम् -
सदानन्दात्मकं शुद्धं सात्त्विकं तारकं परम् ।
विश्वरूपं जगद्योनिं दत्तात्रेयं भजाम्यहम् ॥
दिगम्बरं जटाधारं त्रिमूर्त्यात्मकमीश्वरम् ।
वरदाभयहस्ताढ्यं योगिसिद्धनिषेवितम् ॥
भस्मोद्धूलितसर्वाङ्गं प्रसन्नवदनं विभुम् ।
भक्ताभीष्टप्रदं देवं दत्तात्रेयं नमाम्यहम् ॥
मूलमन्त्रजपः ।
आं ह्रीं क्रों द्रां एहि दत्तात्रेय स्वाहा ॥
॥ इति श्रीदत्तात्रेयद्वादशाक्षरीमन्त्रविधानं सम्पूर्णम् ॥
Those who do not have a physical guru should practice Dattatreya Upasana.
Encoded and proofread by Durga Sharma