श्रीदत्तात्रेयद्वादशनामस्तोत्रम्
श्री गणेशाय नमः ।
अस्य श्रीदत्तात्रेयद्वादशनामस्तोत्रमन्त्रस्य परमहंस ऋषिः ।
श्रीदत्तात्रेय परमात्मा देवता । अनुष्टुप्छन्दः ।
सकलकामनासिद्ध्यर्थे जपे विनियोगः ।
प्रथमस्तु महायोगी द्वितीयः प्रभुरीश्वरः ।
तृतीयश्च त्रिमूर्तिश्च चतुर्थो ज्ञानसागरः ॥ १॥
पञ्चमो ज्ञानविज्ञानं षष्ठस्यात् सर्वमङ्गलम् ।
सप्तमो पुण्डरीकाक्षो अष्टमो देववल्लभः ॥ २॥
नवमो नन्ददेवेशो दशमो नन्ददायकः ।
एकादशो महारुद्रः द्वादशो करुणाकरः ॥ ३॥
एतानि द्वादशनामानि दत्तात्रेय महात्मनः ।
मन्त्रराजेति विख्यातं दत्तात्रेय हरः पराः ॥ ४॥
क्षयोपस्मार कुष्ठादि तापज्वरनिवारणम् ।
राजद्वारे पथेऽघोरे सङ्ग्रामेषु जलान्तरे ॥ ५॥
गिरे गृहान्तरेऽरण्ये व्याघ्रचोरभयादिषु ।
आवर्तने सहस्रेषु लभन्ते वाञ्छितं फलम् ॥ ६॥
त्रिकालं यः पठेन्नित्यं मोक्षसिद्धिमवाप्नुयात् ।
दत्तात्रेय सदा रक्षेत् यशः सत्यं न संशयः ॥ ७॥
विद्यार्थी लभते विद्यां रोगी रोगात् प्रमुच्यते ।
अपुत्रो लभते पुत्रं दरिद्रि लभते धनम् ॥ ८॥
अभार्यो लभते भार्यां सुखार्थी लभते सुखम् ।
मुच्यते सर्वपापेभ्यो सर्वत्र विजयी भवेत् ॥ ९॥
इति श्रीदत्तात्रेयद्वादशनामस्तोत्रं सम्पूर्णम् ॥
श्रीदत्तात्रेयार्पणमस्तु ॥