श्रीदत्तात्रेयकवचस्तोत्रम्

श्रीदत्तात्रेयकवचस्तोत्रम्

विनियोगः - अस्य श्रीदत्तात्रेयकवचस्तोत्रमहामन्त्रस्य नारायण ऋषिः । अनुष्टुप् छन्दः । श्रीदत्तात्रेयो देवता । द्रां बीजम् । क्लीं शक्तिः । स्वाहा कीलकम् । श्रीदत्तात्रेयप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ अथ करहृदयादिन्यासः - ॐ द्रां अङ्गुष्ठाभ्यां नमः । ॐ द्रीं तर्जनीभ्यां नमः । ॐ द्रूं मध्यमाभ्यां नमः । ॐ द्रैं अनामिकाभ्यां नमः । ॐ द्रौं कनिष्ठिकाभ्यां नमः । ॐ द्रः करतलकरपृष्ठाभ्यां नमः ॥ ॐ द्रां हृदयाय नमः । ॐ द्रीं शिरसे स्वाहा । ॐ द्रूं शिखायै वषट् । ॐ द्रैं कवचाय हुम् । ॐ द्रौं नेत्रत्रयाय वौषट् । ॐ द्रः अस्त्राय फट् ॥ इति करहृदयादिन्यासः ॥ अथ ध्यानम् - दत्तात्रेय हरेकृष्ण उन्मत्तानन्ददायक । दिगम्बरमुने बालापिशाच ज्ञानसागर ॥ अथ पञ्चोपचारपूजा - लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पं समर्पयामि । यं वाय्वात्मने धूपं समर्पयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने नैवेद्यं निवेदयामि । सं सर्वात्मने ताम्बूलादिसर्वोपचारान् समर्पयामि ॥ अथ श्रीदत्तात्रेयकवचम् । ॐ भक्ताश्रयः शिरः पातु ललाटं मुनिशेखरः । योगीश्वरो दृशौ पातु त्रैलोक्यस्यप्रियः श्रविः ॥ १॥ कपोलौ मुनिराजेन्द्रः मुखं पातु कुमारकः । जिह्वां मे पातु मन्त्रात्मा कण्ठं विष्णुस्वरूपकः ॥ २॥ स्कन्धौ कपिलवर्णश्च दत्तात्रेयो भुजौ तथा । कर्णौ तु तापसो नित्यं हृदयराजयोगवित् ॥ ३॥ वक्षो मे हठयोगी च स्तनो मे नादयोगवित् । पार्श्वे तु योगराजेन्द्र कुक्षिं मे योगवान् प्रभुः ॥ ४॥ मध्यं पातु तेजस्वी नाभिं मे जृम्भयोगिराट् । कटिं पिङ्गलयोगी च योगीशो जघनं मम । गुह्यं मे कर्मयोगी च तन्मूलं तत्त्वयोगवित् ॥ ५॥ ऊरू परमहंसश्च जानुनी बिन्दुयोगवित् । जङ्घे जटाधरः पातु गुल्फौ मे शिवयोगवान् ॥ ६॥ पादौ मे विष्णुयोगी च पूर्वाङ्गं ब्रह्मयोगवित् । अपराङ्गं सदा रक्षेद् दत्तात्रेयो मुनिस्तथा । सर्वाङ्गानि सदा रक्षेद् दत्तात्रेयो ऋषीश्वरः ॥ ७॥ पूर्वस्यां दिशि मे पात्वष्टाङ्गयोगाभ्यासवित् । आग्नेय्यां पातु योगीशो याम्यां मे निगमप्रियः ॥ ८॥ नैरृत्यां पातु विश्वेशः सदा षट्कर्मयोगवित् । वारुण्यां दिशि पार्श्वे तु पातु मे मुनिपुङ्गवः ॥ ९॥ कौबेर्यां तथैशान्यां पातु मे सर्वामरप्रियः । अनसूयासुतो रक्षेदूर्ध्वं त्वधरमेव च ॥ १०॥ पठने श्रवणे चैव गिरिगह्वरेषु च । अश्वारोहे गजारोहे चान्दोलिके तथा । वृक्षारोहे शिलारोहे युद्धे भुवि रसातले ॥ ११॥ उद्याने वनवासे च आसने जपे तथा । बाह्याभ्यन्तरकालेषु सर्वं रक्षेच्च ईश्वरः ॥ १२॥ शङ्खचक्रकुठाराद्यायुधेभ्यस्त्रिसन्ध्यया । सर्वरक्षाकरो रक्षेत् कार्तवीर्यप्रियङ्करः ॥ १३॥ ब्रह्मराक्षसभेतालकूष्माण्डराक्षसादयः । पिशाचा डाकिनीभूता शाकिनीबालकग्रहाः । सर्वभूतहितार्थाय सदा रक्षेन्महामुनिः ॥ १४॥ उदये चास्तमाने च मध्याह्ने सार्वकालिके । दिवारात्र्योर्निशायां च रक्षेत्सर्ववरप्रदः ॥ १५॥ दत्तात्रेयस्य कवचं यः पठेत् प्रियतो नरः । आयुरारोग्यसिद्धिं च ऐश्वर्यमधिकं तथा ॥ १६॥ ज्ञानवैराग्यसिद्धिं च यः पठेत् स्तोत्रसहस्रकम् । स्वातन्त्र्यं च भवेन्नराणां सर्वकामार्थसाधकम् ॥ १७॥ धारयेत् सुपुष्करयोगकाले पठेन्नरः । पुत्रपौत्रं च यन्नित्यं फलमेतन्न संशयः ॥ १८॥ इति ब्रह्माण्डपुराणे ब्रह्मनारायणसंवादे श्रीदत्तात्रेयकवचस्तोत्रं सम्पूर्णम् ॥ From shrIdattAtreyakalpaH Encoded and proofread by Durga Sharma
% Text title            : Dattatreya Kavacha Stotram
% File name             : dattAtreyakavachastotram.itx
% itxtitle              : dattAtreyakavachastotram (brahmANDapurANAntargatam datAtreyakalpe cha bhaktAshrayaH shiraH pAtu lalATaM munishekharaH)
% engtitle              : Dattatreyakavachastotram
% Category              : kavacha, deities_misc, dattAtreya
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : dattAtreya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Durga Sharma
% Proofread by          : Durga Sharma
% Description-comments  : The kavacham is listed in Dattareya Kalpa, referring as from Brahmanda Purana (not verified)
% Indexextra            : (kalpaH, Telugu) 
% Latest update         : October 2, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org