श्रीदत्तात्रेय पूर्वमालामन्त्रः
अस्य श्रीमधुमतीसमेत श्रीदत्तात्रेयमालामन्त्रस्य शबरऋषिः ।
श्रीदत्तत्रेयो देवता । ॐ बीजम् । नमः शक्तिः ।
श्रीदत्तात्रेयेति कीलकम् । गायत्रीच्छन्दः ।
श्रीमधुमतीसमेत त्रयस्त्रिंशतकोटि देवतास्वरूप
श्रीगुरुदत्तात्रेयप्रसादसिद्ध्यर्थे जपे विनियोगः ॥
न्यासाः ।
ॐ ऐं - अङ्गुष्ठाभ्यां नमः ।
ॐ क्लां क्लीं क्लूं - तर्जनीभ्यां नमः ।
ॐ ह्रां ह्रीं ह्रूं - मध्यमाभ्यां नमः ।
ॐ सौः - अनामिकाभ्यां नमः ।
ॐ दत्तात्रेयाय - कनिष्ठिकाभ्यां नमः ।
ॐ नमः - करतलकरपृष्ठाभ्यां नमः ।
ध्यानं -
मालाकमण्डलुरथः करपद्मयुग्मे
मध्यस्थ पाणियुगले डमरुत्रिशूले ।
यस्यस्त ऊर्ध्वकरयोः शुभशङ्खचक्रे
वन्दे तमत्रिवरदं भुजषट्कयुक्तम् ॥
मूल मन्त्रः -
ॐ, ऐं, क्लां, क्लीं, क्लूं, ह्रां, ह्रीं, ह्रूं, सौः
ॐ नमो भगवते दत्तात्रेय नमः ।
ॐ विष्णुतेजांशसम्भूताय नमः ।
ॐ लोकानुग्रहकारणाय नमः ।
ॐ अनसूयात्रिवरकुमाराय नमः ।
ॐ सहस्रार्जुनगुरवे नमः ।
ॐ माणिक्यखचितसिंहासनस्थाय नमः ।
ॐ मधुमतीसमेताय नमः ।
ॐ सकलसुरासुरवृन्दवन्दिताय नमः ।
ॐ कपिलादिमुनिसिद्धगणसेविताय नमः ।
ॐ ज्वल ज्वल प्रज्वल प्रज्वल सकल भूत प्रेत पिशाच
ब्रह्मराक्षसादि दुष्टग्रहानुच्चाटनाय नमः ।
ॐ आवेशय आवेशय भाषय भाषय बन्धय बन्धय निवारय निवारय
ताडय ताडय मम सर्वसौभाग्यं दापय दापय श्रीगुरुदत्तात्रेयाय स्वाहा ॥
भूर्भुवस्सुवरोमिति दिग्विमोकः ।
इति श्रीदत्तात्रेय पूर्वमालामन्त्रः सम्पूर्णः ।
Proofread by Chandrasekhar Karumuri