श्रीदत्तात्रेयस्तोत्रम् ८ चम्पूस्थम् आयुराजकृत
%११६
दुर्दर्श ईशोऽपि मयात्रिजातः सम्पूजितो येन वरोऽपि दत्तः ।
दत्ताभये तत्पदि मेऽस्ति चित्तं दत्ताश्रयं तं प्रणमामि दत्तम् ॥ १॥
भगवन् किमु मामुपेक्षसे मघवन्मान्य सहापि नेक्षसे ।
चरितं किमु दुष्करं मया चरितं वाऽऽग उतेश ते मया ॥ २॥
प्रणमामि विभो प्रसीद मे प्रणतेऽपीश धृते महादमे ।
शरणं क्व परेश नश्चरणं तेऽभयदं गतिर्हि नः ॥ ३॥
पुत्रार्थं त्वाराध्य लब्ध्वापि कान्तं पुत्रार्थं ते सत्प्रसादादकान्तम् ।
नेक्षेद्यार्तो नष्टपुत्रः सुरेश वीक्षे त्वत्तोऽन्याश्रयं नो परेश ॥ ४॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं चम्पूस्थं
आयुराजकृतदत्तात्रेयस्तोत्रं सम्पूर्णम् ।