॥ श्रीदत्तात्रेयतन्त्रम् ॥

अथ प्रथमः पटलः । ईश्वरदत्तात्रेयसंवादः श्रीदत्तात्रेय उवाच कैलाशशिखरासीनं देवदेव महेश्वरम्(var)जगद्गुरुम् Ka दत्तात्रेयस्तु पप्रच्छ शंकरं लोकशंकरम् ॥ १॥ कृतांजलिपुटो भूत्वाऽपृच्छत्(var)पृच्छते Kaस भक्तवत्सलम् । भक्तानां च हितार्थाय तन्त्रकल्पश्च कथ्यताम्(var)कल्पतन्त्रं प्रकथ्यताम् Ka॥ २॥ कलौ सिद्धं महाकृत्यं(var)सिद्धिप्रदं कल्पं Ka तन्त्रविधाविधानकम् । कथयस्व महादेव देवदेव महेश्वर ॥ ३॥ सन्ति नानाविधा लोके यन्त्रमन्त्राभिचारकाः । आगमोक्ताः पुराणोक्ता वेदोक्ता डामरे तथा ॥ ४॥ उड्डीशे मारीततन्त्रे(var)मेरुतन्त्रे Ka च कालीचण्डीश्वरे मते(var)चण्डैश्वरे तथा Ka। राधातन्त्रे तथोच्छिष्टे(var)च देवेष Ka। धारातन्त्रे मृडेश्वरे(var)अमृतेश्वरे Ka॥ ५॥ ते सर्वे कीलनं कृत्वा(var)कीलिताश्चैव Ka कलौ वीर्यविवर्जिताः । कामक्रोधवशीभूता ब्राह्मणास्तस्य हेतबः(var)ब्राह्मणाः क्रामक्रोधाढ्या एतस्मादेव कारणात् Ka॥ ६॥ विना कीलकमन्त्राश्च तन्त्राश्च कथिताः शिव(var)कीलकेन विना मन्त्रान् कार्यसिद्धिप्रदान्नृनाम् Ka। मन्त्रविद्या क्षणात्सिद्धिः, कृपां कृत्वा वदस्वं मे (var)कथयस्व मम प्रभो Ka॥ ७॥ ईश्वर(var)शिव Ka उवाच श्रणु सिद्धिं महायोगिन्! सर्वयोगविशारद । तन्त्रविद्या महागुह्या(var)महागुप्तां Kaदेवानामपि दुर्लभा ॥ ८॥ तवाग्रे कथिता देव(var)कथितो ह्येव Ka! तन्त्रविद्याशिरोमणिः । गुह्याद्गुह्या(var)गुह्यं Ka महागुह्या गुह्या गुह्या(var)गुह्यं गुह्यं गुह्यं Ka पुनः पुनः ॥ ९॥ गुरुभक्ताय दातव्या नाभक्ताय कदाचन । मम भक्त्येकमसे(var)कमनल Ka दृढचित्तयुताय च ॥ १०॥ शिरो दद्यात्सुतं दद्यान्न दद्यात्(var)दद्यातन्नदद्यात् Ka तन्त्रकल्पकम् । यस्मै कस्मै न(var)द Ka दातव्यं नान्यथा मम भाषितम् ॥ ११॥ अथातः सम्प्रवक्ष्यामि दत्तात्रेय! तथा शृणु । कलौ महामन्त्रसिद्धिर्विना(var)सिद्धिर्महामन्त्रो विना Ka कीलेन कथ्यते ॥ १२॥ न तिथिर्न चक्षत्रं(var)च नक्षत्रं Ka नियमो नास्ति वासरः । न व्रतं नियमो होमः कालवेलाविवर्जितम्(var)न जपो होमो न च कालादिनिर्णयः Ka॥ १३॥ केवलं तन्त्रमन्त्रेण ह्यौषधी(var)ह्योषधी Ka सिद्धिदायिनी(var)सिद्धिरूपिणी kha । यस्याः साधनमात्रेण क्षणात्सिद्धिश्च जायते ॥ १४॥ मारणं मोहनं स्तम्भो विद्वेषोच्चाटने(var)विद्वेषोच्चाटनं Ka वशम् । आकर्षणं चेन्द्रजालं यक्षिणीं च रसायनम् ॥ १५॥ कालज्ञानमनाहारं साहारं निधिदर्शनम् । म्टवत्सासु वन्ध्यासु पुत्रयोगोपपादनम्(var)बन्ध्या पुत्रवतीयोगं मृतवत्सासुजीवनम् Ka॥ १६॥ जयवादं वाजिकरं(var)वाजिकरणं Ka भूतविग्रह निवारणम्(var)भूतग्रहनिवारणम् Ka। सिंहव्याघ्र्भयं सर्पवृश्चिकानां तथैव च ॥ १७॥ निवारणं भयात्तेषां(var)विषादिनाशनं चैव Ka नान्यथा मम भाषितं । गोप्यं गोप्यं महागोप्यं गोप्यं गोप्यं पुनः पुनः ॥ १८॥ अथ(var)नास्ति Kaसर्वोपरि मन्त्रः ॐ परब्रह्मपरमात्मने नमः । ॐ उत्पत्तिस्थितिप्रलयकरायब्रह्म(var)प्रलयकारकराय ब्रह्म Kaहरिहराय त्रिगुणात्मने सर्वकौतुकनिदर्शनाय दत्तात्रेयाय नमः(var)सर्वकौतुकानि दर्शय दर्शय । दत्तात्रेयाय नमः । एकलक्षजपात्सिद्धिः । अष्टोत्तरशतजपात्कार्यसिद्धिः । Ka। तन्त्रसिद्धिं कुरु कुरु स्वाहा । मन्त्रजपविधिः । अयुतजपात्सिद्धिर्भवति । अष्टोत्तरशतजपात्कार्यसिद्धिर्भवति ॥ श्री दत्तात्रेयतन्त्रे शिवदत्तात्रेअसंवादे प्रथमः पटलः समाप्तः । अथ द्वितीयः पटलः मारणप्रयोगा(var)मरणाभिधानः Ka ईश्वर उवाच अथाग्रे सम्प्रवक्ष्यामि प्रयोगं मारणभिधम् । सद्यः सिद्धिकरं नृणां शृणुष्वावहितो मुनेः ॥ १॥ मारणं न व्ठा कार्यं यस्य कस्य(var)यस्य Kaकदाचन । प्राणानां संकटे(var)प्राणान्तसंकटे Kaजाते कर्तव्यं भूतिमिच्छता ॥ २॥ मूर्खण तु कृते तन्त्रे तत्स्वमेव(var)स्वस्मिन्नेव Ka समापयेत् । तस्माद्रक्षेत्सदात्मानं मारणं न क्वचिच्चिरेत् ॥ ३॥ (var)इदं श्लोकः षडस्ति Ka। तस्माद्रक्ष्यः स वात्मा हि मारणं न क्वचिच्चरेत् । कर्त्तव्यं मारणं चेत् स्याद्विधिक्ट्यं समाचरेत् ॥ ५॥ विषयुक्तं चिताभस्म(var)चिन्ताभस्मसनायुक्त Ka धत्तूरचूर्णसंयुतम्(var)संयुक्तम् Ka। यस्याश्ण्गे निक्षिपेद्भौमे सद्यो याति यमालयम् (var)लये Ka॥ ४॥ (var)इदं श्लोकः चतुर्थिः Kaब्रह्मात्मानं तु विततं(var)विदितं Kaदृष्टवा विज्ञानचक्षुषा । मारणं न कार्यं नित्यमन्यथा दोषभाग्(var)सर्वत्र मारणं कार्यनन्यथा दोषभाग्भवेत् Ka॥ ५॥ (var)इदं श्लोकः सप्तः Kaभल्लातकोद्भवं तैलं कृष्णसर्पस्य दन्तकम् । विषं धत्तूरसंयुक्तं यस्याश्ण्गे निक्षिपेन्मृतिः ॥ ६॥ (var)इदं श्लोकः अष्टमः Kaनरास्थिचूर्णं (var)चूर्णैः Ka ताम्बूले(var)ताम्बूलं Ka। भुक्ते(var)भुक्तं मृत्युकरं ध्रुवम् । सर्पास्थिचूर्णं यस्याश्ण्गे क्षिपेन्मृत्युमवाप्नुयात् ॥ ७॥ (var)इदं श्लोकः नवमः Kaचिताकाष्टं गृहीत्वा तु भौमे च भरणीयुते । निखनेच्च गृहद्वारे मासान्मृत्युर्भविष्यति ॥ ८॥ (var)इदं श्लोकः दशमः Kaकृष्णसर्पवसा ग्राह्या तद्वर्तिं ज्वालयेन्निशि । धत्तूरबीजतैलेन कज्जलं(var)कज्जले Ka नृकपालके ॥ ९॥ (var)इदं श्लोकः एकदशमः Kaचिताभस्मसमायुक्तं लवणं पंचसंयुतम्(var)पंचसंयुक्तम् Ka। यस्याश्ण्गे निक्षिपेच्चूर्णं सद्यो याति यमालयम्(var)यमालये Ka॥ १०॥ (var)इदं श्लोकः द्वदशमः Kaगृहीत्वा वार्श्चिकं (var)वृश्चिकं Ka मांसं घूक मांससमन्वितम् (var)मासमुलूकचूर्णसम्युतम् Ka। यस्याश्ण्गे निक्षिपेच्चूर्णं नरो मृत्युं गमिष्यति(var)तस्य तद्युर्भविष्यति Ka॥ ११॥ (var)इदं श्लोकः चतुर्दशमः Kaघूकविष्टा तु संग्राह्या(var)उल्लुविष्ठां गृहीत्वा तु Ka बिसचूर्णसमन्विता(var)विषचूर्णसमन्विताम् Ka। यस्याश्ण्गे निक्षिपेच्चूर्णं सद्यो याति यमालयम् ॥ १२॥ (var)इदं श्लोकः पश्ण्चदशमः Kaखरविष्ठा तु संग्राहह्या बिसचूर्णसमन्विता(var) खरविष्ठां संगृहह्य विषपूर्णसमन्वितां Ka। यस्याश्ण्गे निक्षिपेच्चूर्णं सद्यो याति यमालयम् ॥ १३॥ (var)इदं श्लोकः त्रयदशमः Kaलिखेत्पश्ण्चदशीयन्त्रं चिताभस्म विलोमतः । श्मशानाग्नौ क्षिपेद्यन्त्रं भौमे च म्रियते रिपुः ॥ १४॥ यन्त्रशक्ति ८ १ ६\ ३ ५ ७\ ४ ९ २\ (var)इदं श्लोकः षडशमः Kaरिपुविष्ठां गृहीत्वा तु(var)च Ka नृकपाले च(var)तु Ka। धारयेत् । उद्याने निख्यनेद्भूमौ यस्य नाम लिख्येत्स हि ॥ १५॥ (var)इदं श्लोकः सप्तदशमः Kaयावच्छुष्यति सा विष्ठा तावच्छत्रुर्(var)शत्रूर् Kaमृतो भवेत् । (var)इदं पदं Ka नास्ति । [यस्मै कस्मै न दातव्यं नान्यथा मम भाषितम्] ॥ १६॥ (var)इदं श्लोकः अष्टदशमः Kaकृकलासबसातैलं (var) सरटस्य वसातैलं Kaयस्याश्ण्गे बिन्दुमात्रतः । निःक्षिपेन्म्रियते शत्रुर्यदि शक्रोऽपि रक्षति ॥ १७॥ (var)इदं श्लोकः नवदशमः Kaविजया मिश्रं लवणं(var) लवणं विजयायुक्तं Ka गृहदीपे तु निक्षिपेत् । यस्य नाम्ना क्षयं याति मासमध्ये न संशयः ॥ १८॥ ॐ नमः कालरूपाय अमुकं(var)शत्रुं Ka भस्मी कुरु कुरु स्वाहा । (var)एव भवतीति Ka नास्ति । [एक लक्षजपात्सिद्धो भवति । अष्टोत्तरशतजपात्कार्यसिद्धिर्भवति ।] श्री दत्तात्रेयतन्त्रे मारणाप्रयोगः द्वित्यः पटलः समाप्तः । अथ तृतीयः पटलः मोहनप्रयोगाः(var)मोहनाभिधानः Ka ईश्वर उवाच अथाग्रे कथयिष्यामि(var)अथातः सम्प्रवक्ष्यामि Ka प्रयोगं मोहनाभिधम् । सद्यः सिद्धिकरं नृणां शृणु योगीन्द्र यत्नतः ॥ १॥ तुलसीबीजचूर्णं तु सहदेव्या रसेन सह(var)च Ka। रवौ यस्तिलकं कुर्यान्मोहयेत्सकलं जगत् ॥ २॥ हरितालं चाश्वगन्धां पेषयेत्कदलीरसे(var)कदलीरसैः Ka। गोरोचनेन संयुक्तं तिलके(var)तिलकं Ka लोकमोहनम् ॥ ३॥ शृश्ण्गि(var)शृश्ण्गी Ka चन्दनसंयुक्तो वचाकुष्ठसमन्वितः । धूपौ(var)धूपो Ka गेहे तथा वस्त्रे मुखे चैव विशेषतः ॥ ४॥ राजा प्रजा पशुपक्षि(var)पशुः पक्षी Ka दर्शनान्मोहकारकः । गृहीत्वा मूलताम्बूलं तिलकं लोकमोहनम् ॥ ५॥ सिन्दूरं कुश्ण्कुमं चैव गोरोचनसमन्वितम् । धात्रीरसेन सम्पिष्टं तिलकं लोकमोहनम् ॥ ६॥ (var)इदं श्लोकः Ka अष्टमः । सिन्दूरं च श्वेत वचा ताम्बुलरसपेषिता(var)श्वेतार्कमूलं सिन्दूर येषयेर कदलीरसैः सहदेविका Ka। अनेनैव तु मन्त्रेण तिलकं लोकमोहनम् ॥ ७॥ (var)इदं श्लोकः Ka नवमः । अपामार्गो भृश्ण्गराजो लाजा (var)भृश्ण्गराजमपामार्ग लज्जालू Ka च सहदेविका । एभिस्तु तिलकं कृत्वा त्रैलोक्यं मोहयेन्नरः ॥ ८॥ (var)इदं श्लोकः Ka दशमः । श्वेतदूर्वां गृहीत्वा तु हरितालं च पेषयेत् । एभिस्तु तिलकं कृत्वा त्रैलोक्यं मोहयेन्नरः ॥ ९॥ (var)इदं श्लोकः Ka सप्तमः । मनःशिला च कर्पूरं पेषयेत्कदलीरसे(var)रसैः Ka। तिलकं मोहनं नृणां नान्यथा मम भाषितम् ॥ १०॥ अथ कज्जलविधानम् गृहीत्वौदुम्बरं पुष्पं वर्तिं कृत्वा विचक्षणैः (var)विचक्षणः Ka। नवनीतेन प्रज्वाल्य कज्जलं कारयेन्निशि ॥ ११॥ कज्जलं चांजयेन्नेत्रे मोहयेत्सकलं(var)तच्च चाज्जयेन्नेत्रे मोहनं सर्वतो Ka जगत् । यस्मै कस्मै न दातव्यं देवानामपि दुर्लभम् ॥ १२॥ अथ लेपविधानम् श्वेतगुञ्जारसे पेष्यं ब्रह्मदण्डीयमूलकम् । शरीरे लेपमात्रेण मोहयेत्(var)लेपमात्रे शरीराणां मोहनं Kaसर्वतो जगत् ॥ १३॥ बिल्वपत्रं गृहीत्वा तु छायाशुष्कं च(var)तु Ka कारयेत् । कपिलापयसा युक्तं(var)कपिलापयसम्युक्ताम् Ka वटीं कृत्वा तु गोलकम्(var)गोलकीम् Ka॥ १४॥ एभिस्तु(var)एतया Ka तिलकं कृत्वा मोहयेत्(var)मोहनम् Kaसर्वतो जगत् । क्षणेन मोहनं याति प्राणैरपि(var)प्राणैरपति(?) Ka धनैरपि ॥ १५॥ श्वेतार्कमूलमादाय श्वेतचन्दनसंयुतम् । अनेन लेपयेद्देहं मोहयेत्सकलं(var)मोहनम् सर्वतो Ka जगत् ॥ १६॥ विजयापत्रमादाय श्वेतसर्षपसंयुतम् । अनेन लेपयेद्देहं मोहयेत्सकलं(var)मोहनम् सर्वतो Ka जगत् ॥ १७॥ गृहीत्वा तुलसीपत्रं छायाशुष्कं तु कारयेत् । अश्वगन्धासमायुक्तं विजयाबीजसंयुतम् ॥ १८॥ कपिलादुग्धसार्द्धेन(var)सार्धेन Ka वटी टकप्रमाणतः । भक्षिता प्रातरुत्थाय मोहयेत्सकलं(var)मोहनम् सर्वतो Ka जगत् ॥ १९॥ कटुतुम्बीबीजतैलेन(var)बीजतैलं Ka ज्वालयेत्पटवर्तिकाम् । कज्जलं चांजितं नेत्रे मोहयेत्सकलं(var)चाज्जयेन्नेत्रं मोहनम् सर्वतो Ka जगत् ॥ २०॥ पंचांगदाडिमीं(var)पञ्चश्ण्गां दाडिमीं Ka पिष्ट्वा श्वेत गुंजासमन्विताम्(var)गुञ्जसमान्विताम् Ka। एभिस्तु(var)तेनैव Ka तिलकं कृत्वा मोहयेत्सकलं जगत् ॥ २२॥ मन्त्रस्तु ॐ नमो भगवते रुद्राय सर्वजगन्मोहनं कुरु कुरु स्वाहा । अथवा ॐ नमो भगवते कामदेवाय यस्य यस्य दृश्यो भवामि यश्च यश्च मम मुखं पश्यति तं तं मोहयतु स्वाहा । विद्धिः - अयुतजपात्सिद्धो भवति । अष्टोत्तरशतजपात्प्रयोगसिद्धो भवति ॥ इति दत्तात्रेयतन्त्रे ईश्वरदत्तात्रेयसंवादे मोहनप्रयोगकथनं नाम तृतीयः पटलः समाप्तः ॥ ३॥(var)श्री दत्तात्रेयतन्त्रे मोहनप्रयोगनामकः तृतीयपटलः समाप्तः Ka। अथ चतुर्थः पटलः स्तम्भनप्रयोगाः(var)स्तम्भनाभिधानः Ka ईश्वर उवाच अथाग्रे कथयिष्यामि प्रयोगं स्तम्भनाभिधम् । यस्यः साधनमात्रेण सिद्धिः करतले भवेत् ॥ १॥ आताग्निस्तम्भनम् तत्रादौ सम्प्रवक्ष्याम्यग्निस्तम्भनमुत्तमम् । यस्मै कस्मै न दातव्यं नान्यथा मम भाषितम् ॥ २॥ वसां गृहीत्वा माण्डूकीं कौमारीरसमिश्रिताम् । लेपमात्रे शरीराणामग्निस्तम्भन प्रजायते ॥ ३॥ अर्कदुग्धं गृहीत्वा तु(var)सामादाय Ka कौमारीरसमिश्रितम्(var)कुमारी Ka। लेपमात्रे शरीराणामग्निस्तम्भन प्रजायते ॥ ४॥ कदलीरसमादाय कौमारीरसमिश्रितम्(var)कुमारीरसपेषितम् Ka। लेपमात्रे शरीराणामग्निस्तम्भन प्रजायते ॥ ५॥ मण्डूकस्य वसा ग्राह्या कर्पूरेण च(var)एव Ka संयुता । लेपमात्रे शरीराणामग्निस्तम्भन प्रजायते ॥ ६॥ कुमारीकन्दमादाय कदलीकन्दसंयुतम् । लेपमात्रे शरीराणामग्निस्तम्भन प्रजायते ॥ ७॥ कुमारीरसयुक्तेन तैलेनाभ्य्श्ण्गमाचरेत् । अग्निना न देहदश्ण्गमग्निस्तम्भः प्रजायते ॥ ८॥ कुमारीरसलेपेन किंचिद्वस्तु न दह्यते । अग्निस्तम्भनयोगोऽयं नान्यथा मम भाषितम् ॥ ९॥ पिप्पलीमरीचीशुण्डीश्चर्वयित्वा(var)शुण्ठी Ka पुनः पुनः । दीप्ताश्ण्गारं(var)दीप्ताश्ण्गारे Ka नरैर्भुक्ते न वक्त्रं दह्यते क्वचित् ॥ १०॥ आज्यं शर्क्रया पीत्वा चर्वयित्वा(var)चर्ययित्क(?) Ka च नागरम् । तप्तलोहं मुख्ये क्षिप्तं न वक्त्रं दह्यते क्वचित् ॥ ११॥ अथाग्निस्तम्भनमन्त्रः ॐ नमो अग्निरूपाय मम शरीरे स्तम्भनं(var)शरीरस्तम्भनं Ka कुरु कुरु स्वाहा । विद्धिः - अयुतजपात्सिद्धिर्(var)सिद्धो Kaभवति । अष्टोत्तरशतजपात्प्रयोगसिद्धिर् (var)प्रयोगाः सिद्धो Kaभवति ॥ अथ आसानस्तम्भनम्(var)आसानस्तम्भनाऽभिधानम् Kaचर्मकारस्य कुण्डानां मलं ग्राह्यं तथा रजः । चकारुधिरैर्युक्तं(var)चटकारुधिरेर् Ka यस्याग्रे तद्विनिक्षिपेत् ॥ १॥ तस्य स्थाने भवेत्स्तम्भः सिद्धयोग(var)सिद्धयोगKa उदाहृतः । यस्मै कस्मै न दातव्यो नान्यथा मम भाषितम् ॥ २॥ नृकपाले मृदं क्षिप्त्वा श्वेतगुञ्जां च निर्वपेत्(var)श्वेतगुञ्जाफलं क्षिप्तं नृकपाले समृप्तिकम् Ka। दुग्धेन तस्मिन् संसिक्ते(var)बलौ दत्ते तु दुग्धस्य Ka तस्य वृक्षो भवेद्यति ॥ ३॥ तस्य शाख्या लता ग्रह्या यस्याश्ण्गे(var)अग्रे Ka तां विनिक्षिपेत् । तस्य स्थाने भवेत्स्तम्भः सिद्धयोग(var)सिद्धियोग Ka उदाहृतः ॥ ४॥ अथ आसनस्तम्भनमन्त्रः ॐ नमो दिगम्बराय अमुकस्य आसनस्तम्भनं कुरु कुरु स्वाहा । अयुत जपान्मन्त्रः सिद्धो भवति । अष्टोत्तरशतजपात्प्रयोगः सिद्धो भवति । अथ बुद्धिस्तम्भनम्(var)बुद्धिस्तम्भनाभिधानम् Kaअलूक विष्ठामादाय(var)उल्लूविष्टां गृहीत्वा तु Ka छाया शुष्कां तु कारयेत् । सताम्बूला प्रदातव्या बुद्धिस्तम्भनमुत्तमम् ॥ १॥ भृश्ण्गराजरसैर्भाव्याः सिद्धार्थाः श्वेतनामकाः(var) Ka प्रथमसंख्यं द्वित्य करन??॥ एभिस्तु तिलकं कृत्वा बुद्धिस्तम्भनमुत्तमम् ॥ २॥ सहदेवीमपामार्गं लोहपात्रे च पेषयेत् । तिलकः सर्वभूतानां बुद्धिस्तम्भनमुत्तमम् ॥ ३॥ भृश्ण्गराजो ह्यपामार्गः सिद्धार्थाः सहदेविका । कोलं वचा च श्वेतार्कः सत्त्वमेषां समाहरेत् ॥ ४॥ लोहपात्रे विनिक्षिप्य त्रिदिनं मर्दयेद्बुधः । ललाटे तिलकं कुर्याच्छत्रुबुद्धिः प्रणश्यति ॥ ५॥ अथ बुद्धिस्तम्भनमन्त्रः ॐ नमो भगवते शत्रूणां बुद्धिं स्तम्भय स्तम्भय स्वाहा । एक लक्षजपात्सिद्धो भवति मन्त्रः । अष्टोत्तरशतजपात्प्रयोगसिद्धिर्(var)सिद्धो Kaभवति । अथ शस्त्रस्तम्भनम्(var)शस्त्रस्तम्भनाभिधानम् Ka पुष्यार्के तु समुद्धृत्य विष्णुक्रान्तां समूलकाम् । वक्त्रे शिरसि धार्यते(var)धार्य तत् Ka शस्त्रस्तम्भः प्रजायते ॥ १॥ खर्जूरीमुखमध्यस्था करे बद्धा च केतकी । भुजदण्डस्थिते चार्के सर्वशस्त्रनिवारणम् ॥ २॥ वाराहव्याघ्रभूपालचौरशत्रुभयं(var)ंऊपाल(?) Ka जयेत् । जातिमूलं मुखे क्षिप्तं शस्त्रस्तम्भनमुत्तमम् ॥ ३॥ करे सुदर्शनामूलं(var)सुन्द्रशनं मूलं Ka शस्त्रस्तम्भकरं भवेत् । केतकीं मस्तके चैव तालमूलं(var)तालूमूले Ka मुखे स्थितम् ॥ ४॥ एतानि त्रीणि मूलानि चूर्णानि(var)चूर्णितानि Ka घृते पिबेत् । आयातानेकशस्त्राणं समूहं संनिवारयेत् ॥ ५॥ ख्यर्जूरी चरणे हस्ते ख्यश्ण्गस्तम्भः पेअजायते ॥ ६॥ पुष्यार्के तु समादाय ह्यपामार्गस्य मूलकम् । लेपमात्रं(var) लेपमात्रे Ka शरीराणां सर्वशस्त्रनिवारणम् ॥ ७॥ पुष्यार्के श्वेतगुंजाया मूलमुद्धृत्य धारयेत् । हस्ते शस्त्रभ्यं नास्ति सश्ण्ग्रामे न कदाचन ॥ ८॥ गृहीत्वा रविवारे तु बिल्वपत्रे च कोमक्लम् । पिष्ट्वा विषं तत्समं च लेपनाच्छस्त्रबन्धनम् ॥ ९॥ अथ शस्त्रस्तम्भनमन्त्रः ॐ नमो भगवते महाबल पराक्रमाय शत्रूणां शस्त्रस्तम्भनं कुरु कुरु स्वाहा । प्रयोगविधिः एकलक्षजपान्मन्त्रः सिद्धो भवति नान्यथा । अष्टोत्तरशतजपात्प्रयोगः सिद्ध्यति ध्रुवम् ॥ ८॥ अथ शस्त्रलेपनम् विष्णुक्रान्यीयबीजानि मन्त्रभावेन ग्राहयेत् । तत्तैलं ग्राहयेत्पात्रे विषं चैव समन्वितम् ॥ १॥ भल्लाततैल संयुक्तं महिफेनेन संयुतम् । खरमूत्रं च संयुक्तं धत्तूरबीजसंयुतम् ॥ २॥ तालस्य रस संयुक्तं गन्धकं च मनः शिलाम् । एकीकृत्य तथैतेषां वटिका क्रियते नरैः ॥ ३॥ Encoded by Vlad Sovarel svlad1972@rediffmail.com Variation in the text is given by marker (var).
% Text title            : dattAtreyatantram
% File name             : dattAtreyatantram.itx
% itxtitle              : dattAtreyatantram
% engtitle              : dattAtreyatantram
% Category              : tantra, deities_misc, dattatreya, stotra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : dattatreya
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism
% Transliterated by     : Sovarel Vlad vlad at asea.ro
% Proofread by          : Sovarel Vlad vlad at asea.ro
% Latest update         : January 19, 2004, April 25, 2010
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP