श्रीदत्तदिगम्बर इष्टदैवतम्
दत्तदिगम्बर इष्टदैवतम् ।
विराजते मम हृदये नित्यम् ॥ धृ ॥
अनसूयायाः सत्त्वमद्भुतम् ।
त्रिभिश्च देवैवृतं शिशुत्वम् ।
चारुस्त्रिणिमूर्तिरवतारोऽयम् ।
त्रिभुवनकीर्तिः रक्षति दीनम् ॥ १॥
त्रीणिशिरासिज तत्करषट्कम् ।
विलसति वदने मधुरसुहास्यम् ।
जूटशिरः पादुकापदाब्जो ।
भस्मविलेपितकान्तिर्नूतम् ॥ २॥
दृष्ट्वा वत्सलसुन्दरमूर्तिम् ।
हर्षाश्रुजलं स्नपयति दृष्टिम् ।
यान्त्युदयं किल सात्विकभावाः ।
शनैश्च विलयं याति ममत्वम् ॥ ३॥
गुरूर्योगिवर इष्टदैवतम् ।
प्रभुर्योगिवर इष्टदैवतम् ।
अनसूयासुत इष्टदैवतम् ॥
Composed by Dhananjay Joshi
Encoded from audio and proofread by manish gavkar manishyg at gmail.com