॥ दत्तलहरी अथवा दत्तात्रेयज्ञानलहरी ॥

श्रीगणेशाय नमः दलादन ऋषिरुवाच । विभुर्नित्यानन्दः श्रुतिगणशिरोवेद्यमहिमा यतो जन्माद्यस्य प्रभवति स मायागुणवतः । सदाधारः सत्यो जयति पुरुषार्थैकफलदः सदा दत्तात्रेयो विहरति मुदा ज्ञानलहरिः ॥ १॥ हरीशब्राह्माणः पदकमलपूजां विदधते जगद्रक्षाशिक्षाजननकरणे ते ह्यधिकृताः । अभूवन्निन्द्राद्या हरिदधिपतां देवमुनयः परं तत्त्वं प्रापुः शशिदिनकरौ ज्योतिरमलम् ॥ २॥ परं ज्योतिर्मूर्ते तव रुचिरतेजः कलरवाज्- जगध्व्याप्येदानीं तपनशशिताराहुतभुजः । महातेजःपुञ्जाः सकलजगदाराध्यचरिताश्- चरन्त्येवं लोकान्नतजनमनोभीष्टफलदाः ॥ ३॥ भवन्मायारूपं जगदखिलजीवात्मकमिदं भवद्रूपं प्राहुर्निखिलनिगमान्तश्रुतिचयाः । त्वया सृष्टं चादौ हृतमवितमेतत्तदधुना प्रभावं ते वेत्तुं प्रभवति जनः कोऽवनितले ॥ ४॥ कृपासिन्धो तावज्जनुरजननस्थाप्यकथिते जगद्रक्षादीक्षा भवति खलु नो चेत्कथमिदम् । अनिहस्याऽकर्तुस्तव जगति कर्मोपकृतये प्रमाणीकर्तुं वा स्वकृतनिगमार्थानिति मतिः ॥ ५॥ महाविद्यारूपे भगवति निबद्धत्वमुचितं हृदा वाचागम्ये परमपि विमुह्यन्ति कवयः । अविद्यातीतः किं यदि गुणविहीनोपि गुणवान्- अविद्यायुक्तोयं त्विति वदति मायामुषितधीः ॥ ६॥ भवानादौ यादोनरमृगमुखश्वादिकतनूर्- विधत्ते लोकानामवनकृतिहेतोरनुयुगम् । विशुद्धस्त्वं लीलानरवपुरिदानीमटसि गां पवित्रीकर्तुं वा परिजननिवासाङ्गणतलम् ॥ ७॥ जगद्रक्षार्थं वा विचरसि जगत्यात्मजनता- परित्राणायाद्यः परमपुरुषोऽगम्यचरितः । मृषालोको लोको वदति मनुजत्वं तदधुना यया श्रीकृष्णत्वं यदवब्रुवते मूढमतयः ॥ ८॥ महायोगाधीशैरविदितमहायोगचतुरं कथं जानन्ति त्वां कुटिलमतयो माध्शजनाः । तथापि त्वां जने तव पदयुगाम्भोजभजनान्न चेत्त्वत्पादा स्मृतिविषयवाणी कथमभूत् ॥ ९॥ अपारे संसारे सुतहितकलत्रादिभरणा - द्युपाधौ मन्नास्तत्तरणकरणोपायरहिताः । पतन्ति त्वत्पादाम्बुजयुगलसेवासु विमुखा नराः पापात्मानः प्रवरनरके शोकनिलये ॥ १०॥ सुधासिन्धौ द्वीपे कनकलतिके कल्पकवने वितानैर्मुक्ताढ्यैर्नवमणिमये मण्डपवरे । अशेषैर्माणिक्यैः खचितहरिपीठेऽन् कुहरे हुताशारे ध्यायेत्तव परममूर्तिं निखिलदाम् ॥ ११॥ धराधाराधारे हुतवहपुरेधीशगणपं विधिं श्रीशेषौ वानलपवनव्योमानि हृदये । युतौ जीवात्मानावधिकमवमत्या प्रविशते विधत्ते जायात्वं परकलितवामेन वपुषा ॥ १२॥ सहस्त्रारे नीरेरुहि सकलशीतांशुललिते सहसे हंसं यः स्फुटमपि भवन्तं कलयते । सुषुम्नावर्तिन्यां तव चरणपीठेन्दुसुधया - प्लुतो भित्त्वा ग्रन्थित्रयममृतरूपो विचरति ॥ १३॥ तवाधारे शक्तिस्थितकमलकर्माद्यभिवृते महापीठे वैश्वानरपुरमरुद्गेहनिलये । धराव्योमाकल्पे सुरमुनिमहेन्द्राद्यभिनुतं महातेजोराशिं निगमनिलयं नौमि हृदये ॥ १४॥ भवत्पादाम्भोजं भवजलधिपोतं भजति यो महासंसाराब्धिं तनणितरतीत्येव निगमः । इहामुत्र त्रातुं तव चरणमेवात्मशरणं भवेद्घीरो वाहङ्कृतिपरमनस्कोयमधुना ॥ १५॥ यथा दारुष्वग्निर्निवसति तथा देहनिकरे प्रविश्य त्वं चैको बहुविध इवाभासि ति तथा । चलन्नीरे चन्द्रः शतविध इवाभाति गुणतो न चैतच्चन्द्रे स्यान्न शतविधता नापि चपलम् ॥ १६॥ दरिद्रो वा मूढः कठिनहृदयो वापि भवतां दयापात्रं स्याच्च्येद्भजति महतामप्यधिकताम् । न विद्या रूपं वा न कुलमपि वा कारणमभून् - महत्त्वे सेवैका तव पदयुगाम्भोजकलना ॥ १७॥ न ते कारुण्यं स्यात्सकलगुणवानप्यगुणवान् भवत्कारुण्यं स्यादगुणगणपो वोरुगुणवान् । यथा पत्यौ रक्ते यदपि च विरक्ते च युवतौ वृथा सौन्दर्यं स्यात्सकलमपि तेऽनुग्रहवशात् ॥ १८॥ अनाथे दीने मय्यधिगतभवत्पादशरणे शरण्यब्रह्मण्यप्रथितगुणसिन्धो कुरु दयाम् । महातेजोवार्धे स्वसुकृतमहिम्नैव सततं पुरा पुण्यैर्हीनं पुरुषमुपकुर्वन्ति कृतिनः ॥ १९॥ महाश्वेतद्वीपेऽमरुतरुगणात्यन्तरुचिरे मणेः पीठाम्भोजेऽनलशशिखगान्तर्निवसितम् । गदाचक्राजासिप्रसृतकरपद्मं मुररिपुं स धन्यस्त्वां ध्यायेत्परतरचिदानन्दवपुषम् ॥ २०॥ लसन्मेरोः शृङ्गे सुरमणिमये कल्पकतरु - प्रकीर्णे वाक्पीठे रविशशिङ्कराकीर्णजलजे स्थितं वाचाधीशैर्नुतमनुदिनं त्वां भजति यो भवेद्वाणीशानामपि गुरुरजेयोऽवनितले ॥ २१॥ समुद्यद्बालार्कायुतनिभशरीरं मुनिवरं स्थितं बीजे मारे त्रिदशपतिगोपातिरुचिरे । हृदि त्वां यः पश्यन् सुखकरमिति ध्यायति सदा स एवाहं नूनं स भवति जगन्मोहनकरः ॥ २२॥ निधिर्विश्वेषां त्वं निजचरणपद्मद्वयवतां शरण्यश्चार्कानां चकितहृदयानामभयदः । वरेण्यः साधूनां वरद इति वा कामितधियां भवत्सेवा जन्तोः सुरतरुसमाना न फलति ॥ २३॥ यथा वै पाञ्चाली नटति कुहकेच्छानुशरणं कुलालेन भ्रान्तं भ्रमति च सकृच्छक्रमनिशम् । तथा विश्वं सर्वं वियति मनवश्चानुगुणिताः स्वतन्त्रः को वास्ते वद परसुरेशस्त्रिभुवने ॥ २४॥ त्वयाज्ञप्तो धाता सृजति जगदीशोऽपि हरते हरिः पुष्णातीदं तपति तपनो याति पवनः । धरां साद्रिद्वीपां वहति भुजगानामधिपतिः सुराः सर्वे युष्मद्भयपरवशाद्बिभ्रति बलिम् ॥ २५॥ स्वयं मुक्तेः पूर्वं स्वकृतसुकृतं मां नयति चेत् भवासत्वं का वा तव चरणपङ्केरुहरतिः । हरेत्पापौधं नः शुभमपि ददातीति च सदा भवन्त्याशाबद्ध्वाः सकलमपि धातुर्वशमहो ॥ २६॥ प्रधानं वा कर्म स्थितिविलयसर्गेलमिति चेत् जडत्वात्क्षीणत्वात्कथमुचितमेतन्निगदितुम् । तयोरीशोऽनीशे भवति जगदुत्पत्तिविलया - वनान्यासन् ब्रह्मास्त्विति वदति शास्त्रं श्रुतिरपि ॥ २७॥ भवत्सेवा जन्तोर्भवदवहुताशाम्बुदनिभा महामोहध्वान्तप्रतिहतमतेर्दीपकलिका । सुधावर्षिण्येषा विहितमनसां निर्मलनृणा - मुपाध्याये ब्रह्मप्रवचनविधानेऽतिचतुरा ॥ २८॥ अवज्ञायै लोके बहुपरिचितिः प्राकृतमतिः निरस्यापो गाङ्गाः प्रसरति यथा नाल्पतटिनीम् । विशुद्ध्यर्थं तत्त्वं सकलपुरुषार्थैकफलदं भवन्तं हित्वान्यं भजति गुरुमाशापरवशः ॥ २९॥ निमील्याक्षिद्वन्द्वं निगमनिरतो निश्चलमनाः प्रकाशन्तं दृष्ट्या त्रिभुवनमुदं ज्ञानपरया । ललाटेधोमुख्या रसजनितदिव्याञ्जनधरं स्मरेद्यस्त्वां योगी भवति निधिसिद्धेरधिपतिः ॥ ३०॥ महामायामन्त्राक्षरकमलपद्मासनयुतं महानीलच्छायं मधुमुदितयोगिन्यभिवृतम् । दधानं सद्बोधासितकनकगोक्षीरतिलकं मुने यस्त्वां पश्येद्भवति सकलादृश्यकतनुः ॥ ३१॥ सुधाधारे हेतौ सकलजगतां स्वर्णकलिते सिताम्भोजे तेजोधिकतपनबिम्भे श्रुतितनौ । मणिप्रोते पीठे निखिलसुरवृन्दैः परिवृते स्थितं त्वामारोग्यं स्मरति हृदि तस्यामृतमयम् ॥ ३२॥ परत्रादाता चेद्भवति न ददात्यैहिकसुखं ददात्येतत्सौख्यं न वितरति चामुष्मिकसुखम् । भवत्सेवा जन्तोरिह परसुखप्राभयकरी सुराणामन्येषामनुशरणमात्मैवमकरोत् ॥ ३३॥ जटी वल्की क्कापि क्कचिदपि सुभूषाम्बरभृती क्कचिद्भूत्यालिप्तः क्कचिदपि सुगन्धाङ्किततनुः । क्कचिद्योगी भोगी क्कचिदपि विरागी विहरसे बहुज्ञानी ज्ञातुं तव गतिमशक्ताश्च मुनयः ॥ ३४॥ विशुद्धं चैतन्यं क्कचन जडवत्क्कापि सकला - गमज्ञोऽप्यज्ञस्याद्विहरसि कदाचिद्बहुविधः । ऋषिभ्यस्त्वं तत्त्वं परममुपदेष्टासि विततं चरित्रं ते वेत्तुं चतुरधिकवक्त्रा न चतुराः ॥ ३५॥ मणिर्वा मन्त्रो वा विविधविमलैश्वर्यमपि वा महायोगोष्टाङ्गाभ्यसनविहितो वा त्रिभुवनम् । समर्थं चैकैकं प्रभवति विशीकर्तुमधिकं स्थितं त्वय्येवेदं तव किमुत लोकैकवशता ॥ ३६॥ सरस्वत्याधारस्थितमरुदतिप्रेरितपरां नृपो धारां भित्त्वा रसकमलवासाधिपपुरी । परं तेजोरूपं सकलभुवनालोकनिरतो भवं ते संयोगात्परमसमवेतं मुनिपतिः ॥ ३७॥ अपां तत्त्वं हंसं सकलभवदेवे जलरुहे तडिद्भास्वद्दीप्तिप्रकटदलषट्के सुललिते । परं स्वाधिष्ठाने रुचिरतररूपं निरुपमं स्थितं ध्यायेत्त्वां यो मदनसमरूपो विजयते ॥ ३८॥ परीतं त्वां विष्णो हुतवहनमायाविलसिते सरोजे नीलाभे मणिरचितपीठे मणिगृहे । महासिद्धेः कल्पद्रुमवरतले स्वर्णनिचयाम् - प्रवर्षद्भिः सस्यात्परमतनुभूतिः स्मरति यः ॥ ३९॥ मरुन्त्ताराप्राभे कनकरुचिपद्मे शृतिमयं प्रभुं लोकातीतं निखिलनिगमावेद्यचरितम् । भजन्ते ये त्वां ते सुदृढतरतादात्म्यकदृशा चिदानन्दं मायागुणविरहितं यान्ति परमम् ॥ ४०॥ सुधाशुद्धे व्योभ्नि द्रुहिणरमणीबीजलसिते विशुद्धाम्भोजान्ते सुरनरखगाद्यन्तरहितम् । भवन्तं भावोत्थैः कुसुममुखपूजोपकरणैः समर्हल्लोके ना द्वितयपरमं ब्रह्मभजते ॥ ४१॥ तडिल्लेखाशोचिर्द्विदलकमले भासि परमो महायुक्तानङ्गोनलशशिभृतोक्षीणि भवतः । अशेषस्रोत सु प्रसृतचितिरूपोड्गकनकः श्रुतिप्राणोष्टाड्गप्रगुणितकलापीठ निलयः ॥ ४२॥ ??? क्वचिद्गुह्यं जिह्वा क्वच गुदकमन्यत्र कविता क्वचिद्वागन्यत्र श्रुतिरपरतो लोचनयुगम् । समाकार्षन्त्यात्मानमिव बहुभार्याः प्रलुभिता - स्ततो ध्यातुं स्थातुं कथमपि न शक्तस्तव पदम् ॥ ४३॥ अशक्तोहं स्नातुं क्षणमपि जपं कर्तुमपि वौ - दनाभावादेवातिथिजनसपर्या च न कृता । कुतो ज्ञानं ध्यानं त्वकृतगुरुदेवस्य मम भो भवेदेवैकाशा वसति तव भक्तात्वजनिता ॥ ४४॥ अमन्दे मन्दारद्रुमचरसमीपे मणिमये सुखासीनं पीठे सुरवरमुनीन्द्रादिविनुतम् । स्वहृत्पद्मे वापि स्थितमनुदिनं त्वां भजति यः स चेहामुष्मिन्वा सकलजनपूज्यश्च भवति ॥ ४५॥ तृणं मेरुं कुर्यात्सुरवरगिरिं वापि च तृणं भवत्सामर्थ्यं वाऽघटितघटनाप्रौढिमतनो ॥ इदं जाने तस्मै पुनरपि न जानन्ति कवयोऽ - ऽप्यहो युष्मन्माया सकलजनमोहोन्मदकरी ॥ ४६॥ नटो भूयो वेषैर्बहुविध इवाभाति सुगुणो यथैको वाकाशो घटमठगुहास्वन्तरगतः । यथैकं गाङ्गेयं कटकमुकुटाध्याकृतिवशात् - तथा दत्तात्रेय त्वमपि बहुरूपस्त्रिभुवनम् ॥ ४७॥ सहस्त्रांशुप्राभे सुरतरुसमाढ्येधिकतरे विमाने हंसाख्ये स्थितममृतनीहारवपुषम् । परीतं त्वां ध्यायेद्यदरजसमारूढमनिलैः अशेषैराज्ञायां भवति खचरो व्योमगमनैः ॥ ४८॥ स्थितं मूलाधारे कनकरुचिराङ्गं हुतभुजः शिखाभिः प्रख्याभिर्वृतमखिलतेजोरसघटम् । धरन्तं भ्रूमध्ये प्रसृतनयनः पश्यति च यः परं त्वां सत्यं स्यादखिलरसविद्यातिनिपुणः ॥ ४९॥ शिरःप्रान्तभ्रान्तायतकुटिलबालार्कमतुलं प्रदीप्तस्वर्णाढ्यारुणशतलसत्कुण्डलधरम् । मरुत्पुत्रं लङ्काधिपतनुजनाशोद्यतकरं स्मरेद्यस्त्वां यन्तात्सकलभयभूतापहरणे ॥ ५०॥ गरुत्मन्तं चञ्चच्चलकनकपक्षद्वययुतं सुधाकुम्भोद्भास्वत्करमखिललोकाभिगमनम् । अचिन्त्यं वेदैस्त्वां परममुनिनाथं स्मरति यः स दक्षोऽसौ वादी कपटविषजन्तुप्रहरणे ॥ ५१॥ स्मृतिं नन्दन्तं यो मनुजमुपतिष्ठन्त्यतिबलात् कृताशामिथ्याद्यात्प्रणतजनमन्दार भवता । अदत्ते दत्तत्वादमलतरचिद्गभ्यविभवाः सदा दत्तात्रेयो भजसि भजतामिष्टफलदः ॥ ५२॥ विधिं विष्णुं मायां शृणिमदनयोनिं दिनकरं मिलित्वानङ्गेनानलयुवतियुक्तां जपति यः । त्वदाख्यामाख्येयां निखिलनिगमाढ्यामखिलदां स स्म्पद्भिर्देवाधिपविभवयुक्तो विहरति ॥ ५३॥ परामायावाणीमदनकमलाबीजसहितं मनुं प्रत्येकं ते जपति सततं निश्चलधिया । ततोऽभ्येत्यैश्वर्यश्रुतसकलविद्यानिपुणतां वशित्वं ब्रह्मैक्यं सपदि यदि यायात्परमुने ॥ ५४॥ अविज्ञातं किञ्चित्तव जगति नास्ति प्रभवितुः तदाविज्ञातोऽहं यदपि सकलज्ञेन भवता । अदृष्टं मन्येऽहं प्रतिभटमविज्ञानकरणे मुने दत्तात्रेय प्रकुरु मयि कारुण्यमतुलम् ॥ ५५॥ भवत्पादाम्भोजद्वय शुभरसास्वाद चतुर - भ्रमद्भृङ्गीसङ्घायित हृदय वृत्तिं कलयमाम् । अनाधाराधाराश्रितसुरतरो तावकजने मुने कारुण्याब्धे प्रकुरुमयि सम्पत्प्रकटनम् ॥ ५६॥ वदन्त्येकेऽपार्थां तव गतिमनेकार्थ करिणी अजानन्तोज्ञेऽयामनधिगत तत्त्वार्थ मतयः । महायोगिं ल्लोके जडमतिकृते त्वं धृतवपुः तथा नोचेभ्दक्त स्वजन परिरक्षा कथमहो ॥ ५७॥ स्मृतस्त्वच्छिष्यो वा जगति कृतवीर्यस्य तनयो - ऽर्जुनो राजा चोराद्भयमहिभयं वृश्चिकभयम् । हिनस्त्याजौ शत्रूदितमपि भयं चेति गदितं भवेयुस्त्वच्छिष्याः किमुतहृत चोरादिक भयाः ॥ ५८॥ पदानां सेव्यो वा न भवसि यदाऽकिञ्चन नृणां प्रियः साधूनां त्वं तव च सुहृदस्तेऽपि सुजनाः । मयित्वार्ते दीने जननमरणाद्यैः कुरुदयां दयावान्को वा मे भ्रमनिगडनिर्मोचनविधौ ॥ ५९॥ यथा माता पुत्रं सकलगुणहीनं च कुटिलं प्रपुष्णात्यन्नाद्यैरनुदिनमतीवादरयुता । तथा त्वं लोकानां मम च पितरावित्यभिमतं ततस्त्रातुं दातुं फलमभिमतं चार्हसि विभो ॥ ६०॥ जडं वाचाधीशं सुधियमपि मूइकं च कुरुषे रवेर्वा शीतत्वं यदि च कुरुपे दृष्टिवसतेः । अकर्तुं कर्तुं वाऽन्यदपि परिकर्तुं च मनुषे तदा सर्वं कुर्याः क्वचन किमसाध्यं त्रिभुवने ॥ ६१॥ पुमान्यो वै युष्मच्चरणपरिचर्याकृतिपरः महालापास्थानाशनशयनपानानि कुरुते । सवै धन्यो लोके सकलजगदाराध्यगरिमा अहो भाग्यं तस्यागणितयशसः कोऽपि न भजेत् ॥ ६२॥ प्रसादात्ते यस्मिन्प्रबलतरदारिद्र्यविभवः स यायादिन्द्रत्वं सकल सुरनारीपरिवृतः । तवोपेक्षा यस्मिन्भवति स सुराणामधिपतिः परत्रह्यत्यन्तं प्रविहतमहैश्चर्यविभवः ॥ ६३॥ सदा मन्त्रैर्जाप्यः पुनरपि मनूनेव जपसि स्वयं तन्त्रध्येयो यदपि कुरुते तन्त्रनिचयम् । सदा ब्रह्मानन्दामृतजलधिकेलीकलितधीः स भूतेर्भूयस्या भवतु भगवन्नः कुरुदयाम् ॥ ६४॥ तरीयाग्निश्वेतद्युतिदिनकृदर्कैर्मुनिपतेः महाविद्याखण्डैः परियुतमहानुष्टुभमनोः । चतुर्भिश्चक्राब्जाऽड्कुशगुणधरं सामियुवतिं नृसिंहं त्वद्रूपं भवति सपुमर्थैक निलयः ॥ ६५॥ मुने ते माणिक्यप्रवरखचिते हेममुकुटे पुराकल्पध्वंसे परिकलितसूर्यापररुचः । वसन्त्यस्मिन्नूनं नहि यदि तदा भूतमुनयो न विद्यन्ते लोकाः प्रखरतिमिरान्तैकचतुराः ॥ ६६॥ अहो योगिन्नानामणिखचितभावत्कमकुटः शिखाग्रालम्बिन्यास्त्रिक तलमसौ रत्नशिखरात् । महोमेरोर्लीलां कलयति सदा यामकलितां शरत्सौदामिन्याः कटकवरतेजोमयतनोः ॥ ६७॥ सुविज्ञातं लोकैरनवधिसदादेशनपरैः सुधाभानोः खण्डं तव निबिडभावान्धकरणम् । द्वितीयं सोमेन्दुस्फुटमुकुटतः कान्तमनघं महामूर्तिज्योत्स्ना हरति नतदारिद्र्यतिमिरम् ॥ ६८॥ धृतं पुण्ड्रं मात्रात्रितयरुचिरं साक्षरमिदं सहस्रारे हंसः स्थितपरमहंसाजिगमिषोः । वहन्ती पादाब्जद्वयसरललाक्षारसपदं पराशक्तेश्चन्द्रोपलरचितसोपानपदवी ॥ ६९॥ श्रयेते हैमन्ते तरुविमलपत्रे मधुकरौ शुभं गर्भाम्भोजे स्थितमिति सुचित्रं शमनिधे । कठोरेन्दुप्रांशुप्रवरनिकरीभूततिमिरं सुधाम्शुर्भावत्को मुकुलयति विद्युत्कुवलयम् ॥ ७०॥ तमोभिर्मूकालीगृहमिदमनुज्जृम्भितमिति त्वदीये नेत्राब्जे कमलसदना जृम्भितवती । सदा सुज्ञानेनाविशति सदयाक्षि प्रसरति प्रभो यस्मिन्स्यात्ते ध्रुवमतिधनोऽयं मुनिपते ॥ ७१॥ यदा योगिन्नीषद्वलिरविलसत्कोऽप्यसदृशो - रुपान्ते नीलाली उदरयुगली कञ्जदलयोः । वरं कारायेते कनकमकरीकुण्डलयुगे कटाक्षौ चाम्पेयस्तबकविचरन्ताविव वरौ ॥ ७२॥ त्रयीविद्यारूपस्त्रितनुरहिमांशुः प्रतिदिनं श्रुती भावत्केचिद्विविधमकरीकुण्डलपदे । मिलित्वात्मायं ते घनतरमुपाधिद्वयमिति व्यनक्ति श्रीकारं निखिलजगदूद्दीपकमुने ॥ ७३॥ कपोलौ यौष्माकौ स्फुटमुकुरबिम्बप्रतिभटौ भृशं सङ्घर्षित्वात्प्रतिदिनसमारोपितरूचौ । निजाकान्तिर्नित्या कनकनिकषोऽत्यन्तमहिमा त्वदीया नीचैव प्रचुरतरकान्तिस्तवमुने ॥ ७४॥ मुखेन्दुं दृष्ट्वा ते यदि विशति राहुं प्रति भयाच्छशी वक्त्रं प्राप्यद्विगुणितकलानां निधिरभूत् । द्विजानां राज्यत्वं प्रकटितमतो दत्तशरणं बलेनाहो स्वामिन् कथमपि च लभ्यो हि महिमा ॥ ७५॥ तवायं बिम्बोष्ठश्चिबुकसहितो विद्रुमलता समाक्षिप्ता तिर्यग्यदि बहुपदं स्यात्फलयुगम् । व्रजे तत्साम्यं तन्निहितमुत वा पल्लवपदं यदि स्यात्ते नालं तुलयितुमहो संयमिपते ॥ ७६॥ भवद्वाणीश्रेणीं श्रवणपुटसौख्यप्रकरणीं विजेतुं वाक् श्रुत्वा स्वयमुत विदित्वाऽहमिति भाक् । अशक्ता तेऽत्यन्तं फणिललितजिह्वाग्रमिषतः प्रविष्टा वक्त्रान्तं सितमणिलसद्विद्रुमगृहम् ॥ ७७॥ तवावृत्ता रेखात्रयविलसिता कम्बुरभवत् - च्छिराणामाधारः कथमभवदेतन्न यदि चेत् । अथेमामूहेऽहं त्विति कविहराद्याकृतिधरां तथा नो चेद्वेदत्रितयकलितां वापि गणये ॥ ७८॥ महानन्तश्चासीद्विषधरवरो वासुकिरसौ निबर्हन्तौ मर्त्याधिकभयकरत्वं गणयताम् । भुजाकारौ स्वीयौ तव तु भुजसत्त्वं विदधतां मुने भूतौ स्निग्धौ सपदि वरदौ चाभयकरौ ॥ ७९॥ मुने गऽड्गास्रोतोऽमरवरगिरिप्रस्थफलके प्रसादे स्वर्णाढ्यं प्रभवदभवद्भागलुलितम् । त्रिसूत्रं सुस्निग्धं धवलमुपवीतं कलयते महायोगिन्मूर्तित्रयमपि विलीनं तदभवा ॥ ८०॥ प्रसिद्धः स्वर्णाद्रिर्दिवि विबुधवाचावितरणात् - प्रशस्तौ ते हस्ताबखिल पुरुषार्थ प्रकरणात् । जनानां पादाब्जद्वितयमधिकं प्रेम भजतां मुनीन्द्र त्रैलोक्यद्भुतगणमणिक्षीरजलधे ॥ ८१॥ इयं रोम्णां राजिर्विलसति महानाभिसरसः प्रवृत्ता कुल्येव प्रतिपतितभऽड्ग्यस्त्रिवलयः । नवालेखालोकत्रयविभजनार्थे विरचिता मुने दत्तात्रेय त्वदुदरविलग्ना विलसिताः ॥ ८२॥ ध्रुवं शम्पा मौज्जीत्रितयवलिरेखावरतनो रुरुक्षोः प्रासादं खशय हृदयाख्यं तव हरे । महालक्ष्म्याश्चञ्चत्कनकमयसोपानपदवी न चेन्नाभीकुण्डोपरि चिदुपलब्धा सुपरिखा ॥ ८३॥ प्रवृत्तावूरू ते लसदुदरलोकव्रजधृतेः धृतौ तावदीन्द्रस्फुटपटुकटौ सम्प्रकटितौ । कटौ विस्तारौ यत्कटकफलकौ ताविव मुने महायोगिन्विश्वम्भर इति च नूनं त्वमधिसूः ॥ ८४॥ कृपालो विश्वेश त्रिभुवनतले ते प्रमितितो दिवारात्रौ स्थानं मिलति वपुषो जानुयुगलम् । अभक्तानित्येतत्कथितमभियुक्तौः समतनोः प्रपुष्टं त्वं सम्प्रत्यपि त्वदिदमर्थं हि सुदृढम् ॥ ८५॥ जगन्मूलं स्रष्टा सकलजगतां सर्गकुशलो भवज्जड्घे लक्ष्मीकृदसमशरस्य प्रकुरुते । प्रकृष्टे ते वीक्ष्य भ्रमवदविलक्ष्योऽल्पगुणवान् मुने तेनानऽड्गस्तव तु विमुखो लक्षणवतः ॥ ८६॥ नराणां नानार्थप्रदरसगुटित्वं च दधतौ मुने गुल्फौ गूढौ तव चरणपुष्ट्या प्रकटितौ । घटावृत्ती नार्या इव सकलकौ वृत्तरुचिरौ विराजेते तेजोनिकरकलितायाः सुवपुषः ॥ ८७॥ मदाधारं युष्मत्प्रपदमतिपूज्यं सुरुचिरं ध्रुवात्मानं मत्वा जितमिति सदा कच्छपपतिः । विवेशाधो भूमेर्यदि तदिदमेकं स्मयकरं त्विदानीं तज्जातिर्मुकुलितशिराश्चाभवदहो ॥ ८८॥ मया दत्तं किञ्चिन्न यदि कलितं वासवमहं तदा रोचिर्जातं जननमपि पङ्कप्रकटितम् । प्रविश्येत्यायोज्यं न चलति ह यत्तत्पदधिया पदं ते तु श्रीदं सकलसमये श्रीनिलयनम् ॥ ८९॥ मुने ते पादाब्जं नवममृतपादोद्भवमहो श्रितस्तत् सोदर्यं पशुपतिशिरोब्जं हिमकरः । निवृत्तं स्वस्याङ्कं भवति भवदेकात्मवपुषः कथं ब्रह्मागारे परमपुरुषा नाङ्घ्रिभजनाः ॥ ९०॥ न चित्रं ते पादौ वितरत इति प्रार्थितफलं विधिं श्रीशं रक्षाकलुषविपदं दृश्यमतुलम् । स्मराम्तश्रीगङ्गाधरचरणशङ्खाम्बुज - सुरद्रुमांश्च त्वद्भावानतजनसदानन्दकलनात् ॥ ९१॥ त्रिखण्डैः श्रीविद्यामनुवरभवैर्भावकरिपो विवृद्धस्ते मन्त्रो विषवदति यो ज्योतिरमलम् । षडर्णं चन्द्रार्कप्रकररुचि तन्मे प्रभवतां सदा ज्ञानानन्दं युवतिनृमयं लोचनपदम् ॥ ९२॥ समुन्मीलद्भानुप्रकररुचि वाग्बीजममलं मरुत्वद्गोपाभां मदनलिपिमाधारकमले । हृदब्जे शक्त्याख्यं सितकरकराभं शिरसिजे सरोजे त्वां ध्यायेत्सकलपुरुषार्थान् स लभते ॥ ९३॥ चिदंशस्त्वदूपं किमपि सवितुर्मण्डलगतं वरेण्यं भर्गो वै त्रिविधतनुदेवस्य वपुषि । मुने धीमह्यासीर्हरिरपि धियो यो न इतरत्प्रचोदायास्तत्वं स्थितिलयसृजस्त्वं मुनिपते ॥ ९४॥ हरित्तन्तुप्रोतसदसि शिखरे शुभ्रकपटो जगन्मूलस्थाणुस्त्वमिति शुभमस्पन्दमुनिभिः । झरीभिः स्वर्णाढ्यैः पवनहतवार्बिन्दुनिकरैर्जटा - सक्ताब्जाहीरुचिरमभिषिक्तः स्थित इव ॥ ९५॥ दुराचारो जारश्चपलमतिराजः परवशः परद्रव्याकांक्षी बहुजनविरोधी च सततम् । तथा चाहं पूतस्तव पदयुगस्पर्शवशतो ह्ययः खण्डः स्वर्णं भवति हि यदा सिद्धसुरतिः ॥ ९६॥ परिक्रान्ता देशा बहुतरधनस्यार्जनधिया कुलाचारं हित्वा कुमतिनृपसेवापि च कृता । विधायाहं श्रान्तः किमपि न च तु वपुषा श्रितं त्वत्पादाब्जं श्रितमनुजमन्दारमधुना ॥ ९७॥ त्वदीयो मे देहस्त्वमपि पितरौ भ्रातृसुहृ - दस्त्वमेव ब्रह्मन्मे सुतहितगृहक्षेत्रनिवहाः । त्वमेव प्राणो मे धनमपि मम त्वं तव पदं न जाने मय्येव स्थितमपि महन्मेयमधुना ॥ ९८॥ नमस्ते तारायामृतजलधिधाम्नेऽधिमहसे नमस्ते ब्रह्माद्यैः मुनिसुरवररैः क्लृप्तमहसे । नमस्तुभ्यं नारायणमुनिविलासाय भवते मनूनां कोटीनामचलगणितानां च पतये ॥ ९९॥ नमस्ते देवैरप्यविदितमहिम्नेऽतियशसे नमस्ते दिक्पालप्रकटमुकुटालङकृतपदे । नमस्ते तेजस्विन्नतमनुजमन्दारवपुषे नमो दत्तात्रेयाकृतिहरिहराजाय महते ॥ १००॥ नमस्ते पापौघाचलविततिसंहारपवये नमस्ते दारिद्र्यव्यथितजनदैवान्तविधये । नमस्ते रोगार्तानत मनुजदिव्यौषधिदृअशे नमस्ते दैवं मे नहि जगत्यां तव पदम् ॥ १०१॥ असौ दत्तात्रेयस्तुतियुतकृतिर्ज्ञानलहरी सुधाधारापूराखिलनिगमसारानुपठताम् । श्रुतश्रीविद्यायुर्विभवधनधान्यामृतचयं ददात्येवात्यन्तं जयति सकलाह्लादजनिका ॥ १०२॥ इति दलादनमुनिविरचिता श्रीदत्तपदप्रापिका श्रीदत्तात्रेयज्ञानलहरिः सम्पूर्णा ॥ Encoded and proofread by Madhavi Upadrasta mupadrasta at gmail.com
% Text title            : dattalahari
% File name             : dattalahari.itx
% itxtitle              : dattalahari athavA dattAtreyajnAnalaharI
% engtitle              : dattalahari
% Category              : laharI, deities_misc, dattatreya
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : dattatreya
% Subcategory
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Madhavi Upadrasta mupadrasta at gmail.com
% Proofread by          : Madhavi Upadrasta mupadrasta at gmail.com
% Indexextra            : (scanned 1, 2)
% Latest update         : May 25, 2015
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.


Sanskrit Documents Home Home Sitemap Sanskrit Links Blog Contributors Support GuestBook FAQ Search

BACK TO TOP