श्रीदत्तात्रेयस्तोत्रं स्वागतं तव स्वागतम्
॥ ॐ ॥
स्वागतं तव स्वागतं गुरूदेव तव सुस्वागतम् ।
स्मरणचिन्तनपूजनात् निर्मले हृन्मन्दिरे ।
श्रीदत्त तव सुस्वागतं गुरूदेव तव सुस्वागतम् ॥
स्वागतार्थे प्राणज्योतिर्नयनद्वारे तिष्ठिता ।
चरणकमलक्षालनार्ता नयनजलसरितागता ॥
आसनार्थे हृदयपद्मं प्रेमगन्धविलेपनम् ।
भावकुसुमान्यर्पयेहं प्रणवमन्त्रैरर्चनम् ॥
योगधेनोर्दोहनं भक्तिक्षीरं सेवनम् ।
स्वानन्दकन्दं भोजनं सन्तोषनीरं प्राशनम् ॥
प्रणवगायनतत्परा तव प्रार्थने धन्या परा ।
तालबद्धं प्राणवहनं कुंडलिन्योर्नर्तनम् ॥
वेणुनादं प्रणवनादं श्रूयतां घंटारवः ।
तत्त्वमसि नीरांजनं सोऽहमिति मंत्रांजलिः ॥
गुरुदेव तव सुस्वागतं श्रीदत्त तव सुस्वागतम् ॥
Encoded and proofread by
Dinkar Deshpande dinkar.deshpande@gmail.com
Sunder Hattangadi