श्रीदत्तात्रेयस्तोत्रम्
ॐ नमो ब्रह्मादिभ्यो ब्रह्मविद्या सम्प्रदाय कर्तृभ्यो
वंशर्षिभ्यो नमो गुरुभ्यः ॥
ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादि लक्ष्यम् ।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुस्साक्षात् परब्रह्म तस्मै श्री गुरवे नमः ॥
काषायवस्त्रं करदण्ड धारिणं
कमण्डलुं पद्मकरेण शङ्खम् ।
चक्रं गदा भूषित भूषणाढ्यं
श्रीपादराजं शरणं प्रपद्ये ॥
औदुम्बरः कल्पवृक्षः कामधेनुश्च सङ्गमः ।
चिन्तामणिर्गुरोः पादौ दुर्लभा भुवनत्रये ॥
कृते जनार्दनो देवः त्रेतायां रघुनन्दनः ।
द्वापरे रामकृष्णौ च कलौ श्रीपादवल्लभः ॥
मालाकमण्डलुरथः करपद्मयुग्मे
मध्यस्थ पाणियुगले डमरुत्रिशूले ।
यस्यस्त ऊर्ध्वकरयोः शुभशङ्खचक्रे
वन्दे तमत्रिवरदं भुजषट्कयुक्तम् ॥
श्रीदत्तशरणं मम ।
इति श्रीदत्तात्रेयस्तोत्रं सम्पूर्णम् ।
Proofread by Chandrasekhar Karumuri