श्रीदत्तस्तोत्रम्
(पृथ्वीवृत्तम्)
सुदुःखितमनोरवं मम न किं श्रुणोसि प्रभो
दयाब्धिरपि किं न भो द्रवसि सर्ववित् त्वं गुरो ।
अहं विरहकातरो भवभयातुरः प्रार्थये
स्वभक्तभवनाशनोद्यतमते न किं धावसि ॥ १॥
न किं हरिहरादयः शरणभक्तचित्तार्थदाः
किमर्थमिति यासि मां हि शरणं प्रभो वक्षि चेत् ।
गुरो श्रुणु भवार्तिहंस्त्रिविबुधी विलीना त्वयि
त्रिमूर्तिरथ भो यतस्त्वमिह तत्प्रसिद्धं भुवि ॥ २॥
स्वरूपस्मरणं सदा भवति यत्त्रयाणामपि
त्वदीयपदसेवनाद्विधिहरादयः शर्मदाः ।
शुभत्रिवदनैर्यतः प्रकटितं च सच्चित्सुखं
त्वमेव निरुपाधिकं भवसि भोस्त्रिमूर्तेः पदम् ॥ ३॥
उपाधिपदलाञ्छनाद्बहुविलज्जितैस्तैस्त्रिभिः
यदा प्रकटितं निजं प्रकटनं तवासीत्प्रभो ।
त्वदीयनिरुपाधिकं विमलरूपमादर्शयन्
त्वमेव खलु राजसे जगति दत्त तुर्याश्रमिन् ॥ ४॥
असङ्ग निजनिर्मलं प्रथितनिर्गुणं ब्रह्म यत्
त्रिमूर्तिपदपावनं प्रकटितं यदासीत्त्वया ।
तदव सकलस्य वा मम च शुद्धरूप यतः
गुरो तवपदं विना जगति मे न कोप्याश्रयः ॥ ५॥
त्रिमूर्तिपदपावनं सुखमनामयं भोः पुरा
स्वभक्तभवमुक्तयेऽत्र भुवि दत्तवांस्त्वं यतः ।
स्वदत्त इति यत्स्फुटं जगति तन्मृषा किं भवेत्
स्वरूपममलं च दातुमपि किं न भासि प्रभो ॥ ६॥
न जीवजगदीश्वरा न च तथैव योषित्पुमान्
``अहं'' मम तनौ च यत्स्फुरति तत्सुभूमासुखम् ।
असङ्गमिति चिन्मयं परमनामयं ब्रह्म वा
ततं प्रथितमद्वयं हि खलु त्वन्मुखाज्छुश्रुषुः ॥ ७॥
महेन्द्रविधिचक्रधृद्भवपदं न याचे गुरो
विषं मम तु तत्सुखं तनुहदिन्द्रियैर्यद्भवेत् ।
अहो भवभयात्मकं भ्रममयं च तद्भावनं
रतिश्च पुरुषस्त्रियोरहह कश्मलायां तनौ ॥ ८॥
गुरोः सुकरुणोदयाद्भवति सा विरक्तिर्दृढा
निजस्थितिरचञ्चलाऽत इह याच्यते त्वत्कृपा ।
त्वदीयकृपया बली निजपदं वितन्बन्भुवि
कृती च गुरुसेवया सुविमलो भवेयं गुरो ॥ ९॥
गुरो न तव दर्शनं विपुलदीर्घकालो गतः
कदा भवसि गोचरस्तव हि दर्शनाकाङ्क्ष्यहम् ।
अयोग्यमपि शाधि मां करुणयाऽतिदीनोस्म्यहं
गुरोऽतिदयया युतो झटिति दर्शनं देहि मे ॥ १०॥
गुरो ह्यतनुरेव भोस्त्वमसि नामरूपं न ते
उपासकविमुक्तयेऽत्र खलु रूपधृक्त्वं विभो ।
विना सगुणरूपतस्तव किमस्ति जीवोन्नतिः
न मुक्तरथ नो तथा विरतिरेष बोधोदयः ॥ ११॥
स्फुटं स्तवनतोऽपि मे तव सुवाक्परत्वं गुरो
तथैव तव चिन्तनेऽपि तव हृत्परत्वं स्मृतम् ।
स्वरूपममलं ततं न तव विस्मृतं यात्रया
तथाऽपि हृदि वासनोल्लसति दर्शनाय प्रभो ॥ १२॥
अरे त्वमसि निर्गुणो न च तवास्ति सङ्गः क्वचित्
यदेकपरमाद्वयं त्वमसि मायिकं न त्वयि ।
किमेवमतिदुःखिनं च तव निर्गुणं मां वदेत्
सुखामृतकरान्वितन्वदिह ते वपू राजते ॥ १३॥
न रूपधरणं तवास्ति खलु बाधकं सद्गुरो
ह्यनेन जगतोऽपि मेऽतिसुलभोऽत्र बन्धक्षयः ।
तनावहमिति स्फुरेद्यदि भवी भ्रमिष्ठोऽप्यसौ
निजात्मपदवीं दिशन्किमिति देहधृक्तं भवेः ॥ १४॥
जलं न च हिमेन वाऽत्र कटकैः सुवर्णं तथा
विभिन्नमुपलैश्च भो मृदिह चन्दनं मूर्तितः ।
विनिष्टमपि नो भवेद्विकृतिमत्प्रसिद्धं च तत्
परं तु जगतोऽमुना बहुविशेषकार्यं किल ॥ १५॥
तवास्ति ननु बाधकं यदि तु रूपधृक्तं गुरो
कथं जगति विश्रुतोऽसि भगवस्तमत्रेः सुतः ।
विलोभय न मां जडं किल गुरोऽत्र मे त्वं गतिः
प्रभो त्वरय मा चिरं चरणदर्शनं प्रार्थये ॥ १६॥
तव त्रिमुखपङ्कजैः प्रकटितं स्वसच्चित्सुखं
त्वदीय वदनप्रभा खलु निदर्शयेद् ब्रह्म तत् ।
सुहास्यमतिनिर्मलं तव वदेज्जगन्मायिकं
त्वदीयकरुणार्द्रदृग् झटिति माथिकं संहरेत् ॥ १७॥
अहं ह्यतनुनिर्गुणं कथमहं शरीरीति च
शरीरधरणेऽक्षमोऽहमिति मा गुरो मा वद ।
कदापि भवसीह भो न च विकारयुक्तं वपुः
न चेदवतरेः स्वयं कथमितिस्वरूपं दिशेः ॥ १८॥
न भूरथ न वा जलं न च तथाऽनलो वाऽनिलो
न खं त्वयि विभो तथा किमपि नैव पञ्चीकृतम् ।
न पिण्डमथवाऽपि नो खलु विराण्ण विश्वं ध्रुवं
न जीव इति वासना रतिरथो न नारी नरः ॥ १९॥
न सा प्रकृतिरप्यहो त्वयि पुमाञ्जगत्सर्जनं
चिदेकरसभूम्नि भोस्त्वयि न विश्वसङ्कल्पनम् ।
न सूक्ष्म वियदाद्यहो न च तथाऽप्यापञ्चीकृतं
न सूक्ष्म महदादिकं न च हिरण्यगर्भस्तथा ॥ २०॥
निरावृतगुरो तमस्त्वयि विभाति किं स्वप्रभे
न दृश्यमपि नो तथा भवति भोस्तदव्यक्तकम् ।
महेश इति नो तथा खलु न बीजसृष्टिश्च या
स्वमात्रपरमाद्वये कथमिदं च सम्भाव्यते ॥ २१॥
न जीवजगदादिकं त्वमिति भो महेशोऽपि नो
न कार्यमपि नो तथा भवसि कारणं तस्य तत् ।
गुरोऽस्य तु विभावनं त्वयि यथात्र रज्जौ फणी
न खे जलमुचः कृतिस्त्वयि तथा न मायाकृतिः ॥ २२॥
अहो घटयते गुरोऽघटितमेव माया तु या
निरूपयितुमास्पदा न खलु सातिशङ्कास्पदा ।
अतीव ननु विस्मया भवति हन्त सत्याऽसती
त्वयैव किल नश्यति स्वयमतः प्रतीक्षेऽनिशम् ॥ २३॥
अनेकदुरदृष्टतो बहुलविघ्नबाधा गुरो
मनस्तु बहु चञ्चलं भ्रमति दिग्पटे दुर्दमम् ।
न वज्रतनुरप्यहो भवति दुश्चरं नो तपो
न शुद्धहृदयं तथापि बत किं वदेयं प्रभो ॥ २४॥
न शास्त्रमपि नो श्रुतिं न च तथा स्मृतिं वेद्म्यहं
न संस्कृतमथाप वा खलु न वेद्म्यहं प्राकृतम् ।
न भक्तिरपि मेऽस्ति भो भवति नैव योगस्तथा
ह्यहो जडमतिर्गुरो किमुत वेद्मि किं ब्रह्म तत् ॥ २५॥
निजं हि कथयामि ते तनुसुखाय लुब्धोस्म्यहं
भवेत्कथमुपोषणं व्रतमपीति कृच्छ्रादिकम् ।
अतीव खलु दुर्बलो मम न निग्रहोऽस्ति क्वचित्
अहं पतित ईदृशः पतितपावनस्त्वं गुरो ॥ २६॥
गुणेन रहितोऽस्म्यहं सकलदुर्गुणालङ्कृतः
न कोऽपि खलु मत्समः सकलनीचमौलिस्त्वहम् ।
सुवीक्ष्य च ममेदृशं त्यजसि चेत्कुतोऽन्याश्रयः
त्वमेव गतिरत्र मे करुणया पदं दर्शय ॥ २७॥
समर्थ इति विश्रतोऽसि भुवि किं न शक्यं त्विदं
गुरो खलु परीक्ष्य मामिह न, पाहि हीनोस्म्यहम् ।
अहं यदि समुद्धृतो भुवि न दुर्घटं ते भवेत्
सुसाध्यमखिलं ततः कुरु दयां च मामुद्धर ॥ २८॥
अतीव विनतोस्म्यहं विषयमोहपाशार्दितः
क्षणं युगसमं भवेद्विरहतोऽतिदुःखी गुरो ।
जलाब्दहिरहो यदा भवति किं सुखी मत्स्यकः
तथैव बहिरागतस्तव निजस्थितेरस्म्यहम् ॥ २९॥
उपाधित इति ब्रुवे निजमथोऽमलं वेद्म्यहं
त्वयैव निरुपाधिको ननु गुरो न मां त्वं जहि ।
असङ्ग उपविद्य भोः सततमात्र मामुद्धर
यदि त्वमहमेव तत्किमिति हातुमर्हो भवेः ॥ ३०॥
प्रभो त्यजसि मां हि चेत्तव न दर्शनं दास्यसि
न शक्य इति भो गुरो खलुहसन्ति कीर्तिर्न ते ।
मदीयमपि जीवनं भवति गर्हितं हे प्रभो
जही हि न गुरो कृपां कुरु च दर्शनं देहि मे ॥ ३१॥
वदेयमिति किं गुरो सकलहृद्गतं वेत्सि भोः
स्तुवे किमधिकं स्तुते श्रुतिरहो प्रभो त्वां सदा ।
अनेकसगुणैर्वृता मदधिकाश्च भक्तास्तव
त्वमेव हि गुरोऽद्वयो मम तु कोऽपि नान्यो भुवि ॥ ३२॥
विचार्य सकलं गुरो कुरु तथा यथा त्वन्मतिः
बलात्किमिह शक्यते सविनयेन भोः प्रार्थये ।
अनाथमिति मां गुरो कुरु सनाथमस्मिञ्जने
ह्यतीव दययायुतो झटिति दर्शनं देहि मे ॥ ३३॥
सनातन इति श्रुतो भवति विश्वसेतुस्तु यो
भवत्प्रभवधर्म एवमिह दुष्टदैत्यैर्हृतः ।
सतीत्वमपि लाञ्छितं किल विडम्बनं दुःसहं
प्रभो स्वजनरक्षणे किमिति शङ्कसेऽद्यापि हि ॥ ३४॥
मुमुक्षुजनदुर्दशा कथमियं च सह्या तव
मुमुक्षुजनजीवितं बहु विगर्हितं लौकिकैः ।
हसन्ति परमार्थिनं खलु न विश्वसन्तीह ते
सुरा अपि छलन्ति भो बहुबलाच्च कामादिकैः ॥ ३५॥
कलौ तु परमार्थिनां जगति जीवनं कष्टदं
अहं खलु न तत्सहे तव तदर्थमेवाश्रयः ।
स्वरूपपथगामिनस्त्वमिह मे सहायो भव
गुरोऽतिदययायुतस्तव पदाम्बुजं दर्शय ॥ ३६॥
अतीव खलु दुर्जया सन्तत कश्मला दुश्चरा
सदैव सुखमाहिता विषयवासना योजने ।
अहो दुरितरूपिणी किल भवेदविद्या तु या
तवैव कृपया विना न च कदापि शाम्येद्गुरो ॥ ३७॥
स्वयं हि न सहायकृद्भवसि साधकानां यदि
वृथा किमिति राजसे त्वमिह दत्तनाम्ना गुरो ।
तुरीयपदनन्दिनः पतितपावनस्य प्रभो
किमिप्सितसुखं च ते जगति जीवमोक्षादृते ॥ ३८॥
क्षमस्व दययायुतो यदि भवेद् दुरुक्तिर्मम
क्षमस्व च गुरो कुतोऽपि विनयस्य भङ्गो यदि ।
न हेतुरिह मे प्रभो भवति तादृशो वेत्सि मां
त्वमेव मम जीवनं गतिरपि स्वभूम्नः सुखम् ॥ ३९॥
दयाब्धिरमितोऽसि भोः सकलभूतवासो गुरुः
स्वतन्त्र सकलार्थ वित्सुनिपुणो जगत्पावनः ।
तवात्र जगतीतले प्रकटनं च यत्स्वेच्छया
स्वभक्तजनमुक्तये ध्रुवमिदं हि दत्त प्रभो ॥ ४०॥
विलम्बय जगद्गुरो क्षणमपीह मा धावने
त्वदीय पददर्शनाज्जगति मां सनाथं कुरु ।
अपावृणु विमोहनं सकलमायिकं बन्धनं
त्वदीय सकलात्मके स्थिरपदे च मां स्थापय ॥ ४१॥
त्वदीय पददर्शनात्सकलदुःख शान्तिर्नृणां
त्वदीय पदपङ्कजं दहति दुष्कृतं पापकम् ।
कथं वसति तत्तृणं धगधगावमानेऽनिले
कथं स्थिरति तत्तमो गगनमध्यसूर्यातपे ॥ ४२॥
किमर्थमिति शङ्कसे न च किमर्थमायासि भो
भवेन्न मम दुष्कृतं किमपि चेत्तवाग्रे गुरो ।
किमस्ति खलु विघ्नकृत्प्रतिविधातुमत्र प्रभो
त्वमेव परमं बृहत्तव समो न कोवाऽधिकः ॥ ४३॥
न देवरजनीचरौ मनुजवन्यवक्षादिकाः
क्षमाश्च दमने तदा मनसि चेत्तवास्तीह भोः ।
विधिर्न च कुयोग इत्यपि भवेन्न चोपासनं
किमस्ती खलु विघ्नकृत्तव न दर्शनं मे गुरो ॥ ४४॥
न कर्म सचिवोऽसि भोः फलितमीक्षसे चेद्गुरो
न योग इति वक्षि चेत्कथमिदं त्वया भाव्यते ।
स्वतन्त्र निरुपाधिकः सकलमङ्गलस्त्वं यतः
विलोभय न मां गुरो झटिति दर्शनं देहि मे ॥ ४५॥
किमर्थमतिनिर्घृणो भवसि भो दयासागरः
दयाब्धिरपि निर्घृणो मम न वाक्वदेत्तत्वतः ।
किमर्थमतिदुर्लभं चरणदर्शनं ते वद
निरूपयितुमप्यहोऽत्र तव हेतुमायाहि भोः ॥ ४६॥
अहो न खलु वारितो भवति संशयो भो यदा
न सोऽहमिति वेदयः पशुसमः स वेदोऽवदत् ।
निजं हि कथयामि ते मम न विस्मृतं तत्कदा
ह्यहं त्वमिति निश्चयो मम न संशयोऽस्मिन्क्वचित् ॥ ४७॥
न मृत्युवशगो गुरोऽहमिति भेदभानेन भो
न भीरपि भवेत्प्रभो भवति सा द्वितीयाद्यतः ।
अहं त्वमिति चेत्कथं चिरयसे गुरो मां वद
किमर्थमणुसंशयो जहि हि ते पदं दर्शय ॥ ४८॥
अहो जगदिदं गुरो विविधनामरूपात्मकं
तथापि निजमात्रतोऽत्र खलु वेद्म्यहं तद्यथा ।
तथैव तवदर्शने मम न भिन्नभावं क्वचित्
तथापि जगतीतले भवति तेन कार्यं बृहत् ॥ ४९॥
अधर्मरुचयो जना बत हितं न जानन्ति यत्
अनीतिवशवर्तिनं हि बहुमन्वते लौकिकाः ।
अहो जगति दुर्लभा भवति तत्त्वदृष्टिर्गुरो
ध्रुवं हि तव दर्शनं किल तवावतारो भुवि ॥ ५०॥
गुरो चिरय मा प्रभो त्वरय हर्शनं देहि मे
ब्रुवे किमधिकं स्तुवे चिरमथो विभोऽस्मात्परम् ।
अतिप्रणतवत्सलोऽसि खलु विश्वकल्याणकृत्
मनोभिलषितं तवास्तु निजभूम्नि मां स्थापय ॥ ५४॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यसद्गुरुभगवता
श्रीधरस्वामिना विरचितं श्रीदत्तस्तोत्रं सम्पूर्णम् ॥
Proofread by Paresh Panditrao