दयानन्दऋषिस्तवः

दयानन्दऋषिस्तवः

एकोऽपिसन्निनिर्भयवीरवर्यः समस्तपाखण्डमखण्डयद्यः । सत्यव्रतश्रेष्ठममुं महान्तं वयं दयानन्दमृषिं नमामः ॥ १॥ विषं प्रदायाप्यपकारकर्त्रे योऽदाद्धनन्तस्यहि रक्षणार्थम् । प्रेम्णा स्वशत्रूनपि मोहयन्तं तं श्रीदयानन्दमृषिं नमामः ॥ २॥ न यं कृतान्तोऽप्यशकद्विजेतुं यस्याग्रतोबद्धकरः सतस्थौ । योगाग्निनादग्धसमस्तदोषं तं श्रीदयानन्दमृषिं नमामः ॥ ३॥ यद्यङ्गुलीरप्यरयादहेयुस्तथापियास्यामिन तत्रचिन्ताम् । इत्यादि वाक्यं समुदाहरन्तं तं श्रीदयानन्दमृषिं नमामः ॥ ४॥ दयाया यः सिन्धुर्निगमविहिताचारनिरतो विलुप्तंसद्धर्मं पुनरपि समुद्धर्तुमनिशम् । दिवारात्रं येते यतिवरगुणग्रामसहिता दयनन्दो योगी विमलचरितोऽसौ विजयते ॥ ५॥ यदीयं वैदुष्यं श्रुतिविषयकं लोकविदितं, यदीयं योगित्वं कलियुग जनेष्वस्त्यनुपमम् । हितार्थं सर्वेषामिह निजसुखंयोऽपि विजहौ दयानन्दोयोगी विमल चरितोऽसौ विजयते ॥ ६॥ जनाःसर्वेनूनं भुवनजनितुः पुत्रसदृशाः, अतोऽन्योऽन्यंस्नेहः सकलमनुजानां समुचितः । न कोऽप्यस्पृश्योना इतिविमलभावं प्रचुरयन् दयानन्दोयोगी सरलहृदयोऽसौ विजयते ॥ ७॥ स्वराज्यं सर्वेभ्यः परमसुखदं शान्तिजनकं स्वदेशीयो धार्यः सकल सुजनैर्वस्त्रनिवहः । सुराष्ट्रीयान् भावान् दिशिदिशि दिशन् भीतिरहितो दयानन्दो योगी विमलचरितोऽसौ विजयते ॥ ८॥ इति पं. धर्मदेवः सिद्धान्तालङ्कारो विद्यावाचस्पतिः विरचितः दयानन्दऋषिस्तवः सम्पूर्णः ।
% Text title            : Dayananda Rishistava
% File name             : dayAnandaRRiShistavaH.itx
% itxtitle              : dayAnandaRiShistavaH
% engtitle              : dayAnandaRRiShistavaH
% Category              : deities_misc, gurudev, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Venkata Krishna T
% Proofread by          : Venkata Krishna T
% Indexextra            : (Scan)
% Latest update         : February 22, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org