श्रीदेवानां स्तुत्यष्टकम्
ॐ नमस्ते भगवते नमो नारायणाय ते ।
ॐ नमस्ते भगवते सर्वज्ञाय नमो नमः ॥ १॥
घोर संसारार्णवस्य तारकाय नमो नमः ।
तारक ब्रह्मरूपाय भूतनाथाय ते नमः ॥ २॥
बोधरूपाय पूताय पुण्यपूर्णाय ते नमः ।
मर्त्रङ्गुतेकाय ओङ्काराय नमो नमः ॥ ३॥
भकाराय नमस्तुभ्यं रेफान्ताय नमो नमः ।
यकाराय नमस्तुभ्यं गोकाराय नमो नमः ॥ ४॥
भकाराय तकाराय रेफान्ताय नमो नमः ।
नकाराय नमस्तुभ्यं मकाराय नमो नमः ॥ ५॥
श्रीश शङ्करपुत्राय सर्वदा ते नमो नमः ।
हर भो सङ्कटं देव सकलं सकलेश्वर ॥ ६॥
देवेश विश्वकर्ता त्वं परिपाहि जगत्पते ।
विश्वभर्ता जय सदा विश्वहर्ता जय प्रभो ॥ ७॥
सर्वेषां जीवलोकानामेक जीवस्वरूपक ।
देवदेव जय त्वं भो सर्वदा सर्वनायक ।
धर्मशास्ता जयभवन् जन्मदुःख विनाशन ॥ ८॥
इति श्रीदेवानां स्तुत्यष्टकं सम्पूर्णम् ।
Proofread by Mohan Chettoor