धर्मशास्तास्तोत्रम्
श्रीभारतीतीर्थ-महास्वामिविरचितं
जगत्प्रतिष्ठाहेतुर्यः धर्मः श्रुत्यन्तकीर्तितः ।
तस्याऽपि शास्ता यो देवः तं सदा समुपाश्रये ॥ १॥
श्रीशङ्करार्यैर्हि शिवावतारैः
धर्मप्रचाराय समस्तकाले ।
सुस्थापितं शृङ्गमहीध्रवर्ये
पीठं यतीन्द्राः परिभूषयन्ति ॥ २॥
तेष्वेव कर्मन्दिवरेषु विद्या-
तपोधनेषु प्रथितानुभावः ।
विद्यासुतीर्थोऽभिनवोऽद्य योगी
शास्तारमालोकयितुं प्रतस्थे ॥ ३॥
धर्मस्य गोप्ता यतिपुङ्गवोऽयं
धर्मस्य शास्तारमवैक्षतेति ।
युक्तं तदेतद्ध्युभयोस्तयोर्हि
सम्मेलनं लोकहिताय नूनम् ॥ ४॥
कालेऽस्मिन् कलिमलदूषितेऽपि धर्मः
श्रौतोऽयं न खलु विलोपमाप तत्र ।
हेतुः खल्वयमिह नूनमेव नाऽन्यः
शास्ताऽस्ते सकलजनैकवन्द्यपादः ॥ ५॥
ज्ञानं षडास्यवरतातकृपैकलभ्यं
मोक्षस्तु तार्क्ष्यवरवाहदयैकलभ्यः ।
ज्ञानं च मोक्ष उभयं तु विना श्रमेण
प्राप्यं जनैः हरिहरात्मजसत्प्रसादात् ॥ ६॥
यमनियमादिसमेतैः यतचित्तैर्योगिभिः सदा ध्येयम् ।
शास्तारं हृदि कलये धातारं सर्वलोकस्य ॥ ७॥
शबरगिरिनिवासः सर्वलोकैकपूज्यः
नतजनसुखकारी नम्रहृत्तापहारी ।
त्रिदशदितिजसेव्यः स्वर्गमोक्षप्रदाता
हरिहरसुतदेवः सन्ततं शं तनोतु ॥ ८॥
इति दक्षिणाम्नाय-श्री-शृङ्गेरी-शारदा-पीठाधीश्वर-
जगद्गुरुशङ्कराचार्य-अनन्तश्रीविभूषित-श्रीभारतीतीर्थ-
महास्वामिविरचित-धर्मशास्ता-स्तोत्रं सम्पूर्णम् ।