श्रीधर्मशास्तुः अष्टकम्
बन्धूकबन्धुररुचिं कलधौतभासं
पञ्चाननं दुरितवञ्चनधीरमीशम् ।
पार्श्वद्वयाकलितशक्तिकटाक्षचारुं
नील्त्पलार्चिततनुं प्रणत्ऽस्मि देवम् ॥ १॥
कल्याणवेषरुचिरं करुणानिधानं
कन्दर्पकोटिसदृशं कमनीयभासम् ।
कान्ताद्वयाकलितपार्श्वमघारिमाद्यं
शास्तारमेव सततं प्रणतोऽस्मि नित्यम् ॥ २॥
यो वा स्मरेदरुणकुङ्कुमपङ्कशोण-
गुञ्जापिनद्धकचभारलसत्किरीटम् ।
शास्तारमेव सततं स तु सर्वलोकान्
विस्मापय्न्निजविलोकनत् नितान्तम् ॥ ३॥
पञ्चेषुकैटभविरोधितनूभवं तं
आरूढदन्तिपरमादृतमन्दहासम् ।
हस्ताम्बुजैरविरतं निजभक्तहंसे
ष्वृद्धिं परां हि ददतं भुवनैकवन्द्यम् ॥ ४॥
गुञ्जामणिस्रगुपलक्षितकेशहस्तं
कस्तूरिकातिलकमोहनसर्वलोकम् ।
पञ्चाननाम्बुजलसत् घनकर्णपाशं
शास्तारमम्बुरुहलोचनमीशमीडे ॥ ५॥
पञ्चाननं दशभुजं धृतहेतिदण्डं
धारावतादपि च रूष्णिकमालिकाभिः ।
इच्छानुरूपफलदोऽस्म्यहमेव भक्ते-
ष्वित्थं प्रतीतविभवं भगवन्तमीडे ॥ ६॥
स्मेराननाद् भगवतः स्मरशासनाच्च
मायागृहीतमहिलावपुषो हरेश्च ।
यः सङ्गमे समुदभूत् जगतीह तादृग्
देवं नतोऽस्मि करुणालयमाश्र येऽहम् ॥ ७॥
यस्यैव भक्तजनमत्र गृणन्ति लोके
किं वा मयः किमथवा सुरवर्धकिर्वा ।
वेधाः किमेष ननु शम्बर एष वा किं
इत्येव तं शरणमाशुतरं व्रजामि ॥ ८॥
इति श्रीधर्मशास्तुः अष्टकं सम्पूर्णम् ।
धर्मशास्ताष्टकं