एकश्लोकी विभक्तिदर्शक श्लोकाः

एकश्लोकी विभक्तिदर्शक श्लोकाः

अकारान्त पुल्लिङ्ग

रामो राजमणिः सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरचमू रामाय तस्मै नमः । रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥ (३७ रामरक्शा) कृष्णो रक्षतु मां चराचरगुरुः कृष्णं नमस्याम्यहं कृष्णेनामरशत्रवो विनिहताः कृष्णाय तस्मै नमः । कृष्णादेव समुत्थितं जगदिदं कृष्णस्य दासोऽस्म्यहं कृष्णे भक्तिरचञ्चलाऽस्तु भगवन् हे कृष्ण! तुभ्यं नमः ॥ श्रीरामः शरणं समस्तजगतां रामं विना का गतिः रामेण प्रतिहन्यते कलिमलं रामाय कार्यं नमः । रामात् त्रस्यति कालभीमभुजगो रामस्य सर्वं वशे रामे भक्तिरखण्डिता भवतु हे राम! त्वमेवाश्रयः ॥ देवो जयति सर्वत्र देवं नमन्ति सज्जनाः । देवेन रक्षितं विश्वं देवाय दीयते हविः ॥ देवाद्भवति सृष्टिश्च देवस्य महिमा परा । देवे तिष्ठति विज्ञानं हे देव रक्ष मां सदा ॥ मित्रं भाति सदा गेहे मित्रं पश्यति बालकः । मित्रेण सह गच्छामि मित्राय दीयते धनम् ॥ मित्रात् प्राप्नोति सन्देशं मित्रस्य भवनं शुभम् । मित्रे विश्वासो मे अस्ति हे मित्र त्वं सुखी भव ॥ नृपः पालयति पृथ्वीं नृपं शंसन्ति मानवाः । नृपेण जीयते शत्रुः नृपाय दीयते करः ॥ नृपात् त्रस्यति दुष्टो हि नृपस्य विपुलं बलम् । नृपे तिष्ठति नीतिः च हे नृप त्वं जयी भव ॥ सूर्यः भाति नभस्तले सूर्यम् अर्चति मानवः । सूर्येण नश्यते ध्वान्तं सूर्याय दीयते हविः ॥ सूर्यात् प्राप्नोति लोकोऽजः सूर्यस्य महती द्युतिः । सूर्ये तिष्ठति तेजश्च हे सूर्य त्वं प्रसीद मे ॥

अकारान्त नपुंसकलिङ्ग

फलं पतति वृक्षाच्च फलं खादति बालकः । फलेन लभते तृप्तिं फलाय स्पृहयत्ययम् ॥ फलाद् रसः प्रस्त्रवति फलस्य मधुरा रसाः । फले सन्ति हि बीजानि हे फल त्वं वरं भव ॥

आकारान्त स्त्रीलिङ्ग

लता वर्धति वाटे च लतां पश्यति बालकः । लतया भूषिता शाखी लतायै दीयते जलम् ॥ लतायाः पतति पुष्पं लतायाः सुन्दरं दलम् । लतायां कूंजते भृंगो हे लते त्वं प्रफुल्ल भव ॥ रमा नारायणी देवी रमां परतरां भजे । रमया सर्वसमृद्धिः रमायै क्रियते नमः ॥ रमायाः प्रकृतिर्जाता रमायाः कीर्तिरद्भुता । रमायां सम्श्रितो लोको हे रमे सुखदा भव ॥

ईकारान्त स्त्रीलिङ्ग

नदी वहति वेगेन नदीं पश्यति बालकः । नद्या च सिच्यते क्षेत्रं नद्यै दीयते हविः ॥ नद्याः प्रवहति वारि नद्याः कूलं मनोहरम् । नद्यां तरन्ति नौकाः च हे नदि त्वं प्रसीद मे ॥

इकारान्त पुल्लिङ्ग

हरिः सर्वजगद्वन्द्यो हरिं श्रीरमणं भजे । हरिणा पालितं विश्वं हरये गुरवे नमः ॥ हरेः परतरो नास्ति हरेः स्तवनमुत्तमम् । हरौ भकिर्दृढा मेस्तु हे हरे मुक्तिदो भव ॥

उकारान्त पुल्लिङ्ग

गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे । न गुरोः परमं शिशुरस्मि गुरोः मतिरस्ति गुरौ मम पाहि गुरो ॥ शब्दमञ्जरि A compilation of shlokas that include all declensions of a words. Send meaningful additions to sanskrit at cheerful.com
% Text title            : Ekashloki vibhaktidarshaka shlokas
% File name             : ekashlokivibhaktidarshaka.itx
% itxtitle              : ekashloki saNgraha vibhaktidarshaka
% engtitle              : ekashloki collection with all desclensions sarvavibhakti
% Category              : deities_misc, misc, ekashlokI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Meaning, rAmarakshA, Scans a href="https://archive.org/details/sabdavallari/page/n6/mode/1up">1, 2)
% Latest update         : May 15, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org