श्रीगौराङ्गलीलास्मरणमङ्गलस्तोत्रम्

श्रीगौराङ्गलीलास्मरणमङ्गलस्तोत्रम्

राहु-ग्रस्ते जड-शशधरे फाल्गुणे पूर्णिमायां गौडे शके मनु-शतं इते सप्त-वर्षाधिके यः । मायापुर्यां समजनि शची-गर्भ-सिन्धौ प्रदोषे तं चिच्-छक्ति-प्रकटित-तनुं मिश्र-सूनुं स्मरामि ॥ १॥ विश्वम्भर-प्रभु-हरि-द्विज-गौरचन्द्र- निम्बेश-नाम-निचयः क्रमतो बभूव । यस्यार्य-खण्ड-मुकुटोपम-गौड-राष्ट्रे गौरं स्मरामि सततं कलि-पावनं तम् ॥ २॥ अङ्गी-कुर्वन् निज-सुख-करीं राधिका-भाव-कान्तिं मिश्रावासे सुललित-वपुर्गौर-वर्णो हरिर्यः । पल्ली-स्त्रीणां सुखं अभिदधत्खेलयां आस बाल्ये वन्दे''हं तं कनक-वपुषं प्राङ्गने रिङ्गमाणम् ॥ ३॥ सर्पाकृतिं स्वाङ्गनं ह्यनन्तं कृत्वासनं यस्तरसोपविष्टः । तत्याज तं चात्म-जनानुरोधाद् विश्वम्भरं तं प्रणमामि नित्यम् ॥ ४॥ बाल्ये श‍ृण्वन् वद हरिं इति क्रन्दनाद्यो निवृत्त- स्तस्मात्स्त्रीणां सकल-विषये नाम-गानं तदासीत् । मात्रे ज्ञानं विषादं अवदन् मृत्तिका-भक्षणे यो वन्दे गौरं कलि-मल-हरं नाम-गानाश्रयं तम् ॥ ५॥ पौगण्डादौ द्विज-गण-गृहे चपलं यो वितन्वन् विद्यारम्भे शिशु-परिवृतो जाह्नवी-स्नान-काले । वारि-क्षेपैर्द्विज-कुल-पतीन् चालयां आस सर्वां- स्तं गौराङ्गं परम-चपलं कौतुकीशं स्मरामि ॥ ६॥ तीर्थ-भ्रामि-द्विज-कुल-मणेर्भक्षयन् पक्वं अन्नं पश्चात्तं यो विपुल-कृपया ज्ञापयां आस तत्त्वम् । स्कन्धारोह-च्छल-बहुतया मोहयां आस चौरौ वन्दे ``हं तं सुजन-सुखदं दण्डदं दुर्जनानाम् ॥ ७॥ आरुह्य पृष्ठं शिव-भक्त-भिक्षोः सङ्कीर्त्य रुद्रस्य गुणानुवादम् । रेमे महानन्दमयो य ईश- स्तं भक्त-भक्तं प्रणमामि गौरम् ॥ ८॥ लक्ष्मी-देव्याः प्रणय-विहितं मिष्टं अन्नं गृहीत्वा तस्यै प्रादाद्वरं अति-शुभं चित्त-सन्तोषणं यः । मस्याश्चिह्नैर्निज-परिजनान् तोषयां आस यश्च तं गौराङ्गं परम-रसिकं चित्त-चौरं स्मरामि ॥ ९॥ उच्छिष्ट-भाण्डेषु वसन् वराङ्गो मात्रे ददौ ज्ञानं अनुत्तमं यः । अद्वैत-वीथी-पथिकैरुपास्यं तं गौरचन्द्रं प्रणमामि नित्यम् ॥ १०॥ दृष्ट्वा तु मातुः कदनं स्व-लोष्ट्रै- स्तस्यै ददौ द्वे सित-नारिकेले । वात्सल्य-भक्त्या सहसा शिशुर्य- स्तं मातृ-भक्तं प्रणमामि नित्यम् ॥ ११॥ सन्न्यासार्थं गतवति गृहादग्रजे विश्वरूपे मिष्टालापैर्व्यथित-जनकं तोषयां आस तूर्णम् । मातुः शोकं पितरि विगते सान्त्वयां आस यश्च तं गौराङ्गं परम-सुखदं मातृ-भक्तं स्मरामि ॥ १२॥ लक्ष्मी-देवीं प्रणय-विधिना वल्लभाचार्य-कन्यां अङ्गी-कुर्वन् गृह-मख-परः पूर्व-देशं जगाम । विद्यालापैर्बहु-धनं अथो प्राप यः शास्त्र-वृत्ति- स्तं गौराङ्गं गृह-पति-वरं धर्म-मूर्तिं स्मरामि ॥ १३॥ वाराणस्यां सुजन-तपनं सङ्गमय्य स्व-देशं लब्ध्वा लक्ष्मी-विरह-वशतः शोक-तप्तां प्रसूतिम् । तत्त्वालापैः सुखद-वचनैः सान्त्वयां आस यो वै तं गौराङ्गं विरति-सुखदं शान्त-मूर्तिं स्मरामि ॥ १४॥ मातुर्वाक्यात्परिणय-विधौ प्राप विष्णुप्रियां यो गङ्गा-तीरे परिकर-जनैर्दिग्-जितो दर्प-हारी । रेमे विद्वज्-जन-कुल-मणिः श्री-नवद्वीप-चन्द्रो वन्दे ``हं तं सकल-विषये सिंहं अध्यापकानाम् ॥ १५॥ विद्या-विलासैर्नव-खण्ड-मध्येसर्वान् द्विजान् यो विरराज जित्वा । स्मार्तांश्च नैयायिक-तन्त्रिकांश्च तं ज्ञान-रूपं प्रणमामि गौरम् ॥ १६॥ विप्र-पादोदकं पीत्वा यो बभूव गतामयः । वर्णाश्रमाचार-पालं तं स्मरामि महाप्रभुम् ॥ १७॥ प्रेत-क्षेत्रे द्विज-परिवृतः सर्व-देव-प्रणम्यो मन्त्रं लेभे निज-गुरु-पुरी-वक्त्रतो यो दशार्णम् । गौडं लब्ध्वा स्वं अति-विकृति-च्छद्मनोवाच तत्त्वं तं गौराङ्गं नव-रस-परं भक्त-मूर्तिं स्मरामि ॥ १८॥ भक्त्य्-आलापैर्निरवधि तदाद्वैत-मुख्या महान्तः प्राप्ता यस्याश्रयं अतिशयं कीर्तनाद्यैर्मुरारेः । नित्यानन्दोदय-घटनया यो बभूवेश-चेष्टो वन्दे गौरं नयन-सुखदं दक्षिनं सद्-भूजं तम् ॥ १९॥ यः कोल-रूप-धृगहो वरणीय-मूर्ति- र्गुप्ते कृपां च महतीं सहसा चकार । तं व्यास-पूजन-विधौ बलदेव-भावान् माध्वीक-याचन-परं परमं स्मरामि ॥ २०॥ अद्वैत-चन्द्र-विभुना सगणेन भक्त्या नित्यं च कृष्ण-मनुना परिपूज्यते यः । श्रीवास-मन्दिर-निधिं परिपूर्ण-तत्त्वं तं श्रीधरादि-महतां शरणं स्मरामि ॥ २१॥ श्रीवास-पाल्यं यवनं विशोध्य चक्रे सुभक्तं स्व-गुणं प्रदर्श्य । प्रेम्णा सुमत्तो विषयाद्विरक्तो यस्तं प्रभुं गौर-विधुं स्मरामि ॥ २२॥ श्री-राम-रूप-धृगहो भिषज मुरारेः श्रुत्वा स्तवं रघुपतेर्मुदं आप यो वै । चक्रे कुसङ्ग-रहितं कृपया मुकुन्दं तं शुद्ध-भक्ति-रसद-प्रवरं स्मरामि ॥ २३॥ अज्ञापयच्च भगवान् अवधूत-दासौ दानाय गोकुल-पतेर्नगरेषु नाम्नाम् । सर्वत्र जीव-निचयेषु परावरेषु यस्तं स्मरामि पुरुषं करुनावतारम् ॥ २४॥ योऽद्वैत-सद्म विचलन् सह चाग्रजेन सन्न्यास-धर्म-रहितं ध्वजिनं सुरापम् । तत्त्वं विशुद्धं अवदल्ललिताख्य-पुर्यां तं शुद्ध-भक्ति-निलयं शिवदं स्मरामि ॥ २५॥ योऽद्वैत-वाद-शठताश्रित-देशिकस्य पृष्ठं व्यताडयदहो सहसा हरिर्यः । प्रेम्णापि भक्ति-पथगं च चकार तं तं माया-हरं सुविमलं सततं स्मरामि ॥ २६॥ श्री-रूप-धृग्भजन-सागर-मग्न-नृभ्यो यश्चन्द्रशेखर-गृहे प्रददौ स्व-दुग्धम् । स्वां दर्शयन् विजयं उद्धरति स्व-भूतिं तं सर्व-शक्ति-विभवाश्रयणं स्मरामि ॥ २७॥ निद्रा-त्यागः स्नपनं अशनं गोद्रुमादौ विहारो ग्रामे ग्रामे विचरणं अहो कीर्तनं चाल्प-निद्रा । यामे यामे क्रम-नियमतो यस्य भक्तैर्बभूवु- स्तं गौराङ्गं भजन-सुखदं ह्यष्ट-यामं स्मरामि ॥ २८॥ यो वै सङ्कीर्तन-परिकरैः श्रीनिवासादि-सङ्घै- स्तत्रत्यानां पतित-जगदानन्द-मुख्य-द्विजानाम् । दुर्वृत्तानां हृदय-विवरं प्रेम-पूर्णं चकार तं गौराङ्गं पतित-शरणं प्रेम-सिन्धुं स्मरामि ॥ २९॥ भावावेशैर्निखिल-सुजनान् शिक्षयां आस भक्तिं तेषां दोषान् सदय-हृदयो मार्जयां आस साक्षात् । भक्ति-व्याख्यां सुजन-समितौ यो मुकुन्दश्चकार तं गौराङ्गं स्वजन-कलुष-क्षान्ति-मूर्तिं स्मरामि ॥ ३०॥ यो वै सङ्कीर्तन-सुख-रिपुं चान्दकाजीं विमुच्य लास्योल्लासैर्नगर-निचये कृष्ण-गीतं चकार । वारं वारं कलि-गद-हरं श्री-नवद्वीप-धाम्नि तं गौराङ्ग्तं नतन-विवसं दिर्घ-बहुं स्मरामि ॥ ३१॥ गङ्गादासो मुररिपु-भिषक्श्रीधरः शुक्ल-वस्त्रः सर्वे यस्य प्रणति-निरताः प्रेम-पूर्णा बभूवुः । यस्योच्छिष्टाशन-सुरतिक श्रील-नारायणी चतं गौराङ्गं परम-पुरुषं दिव्य-मूर्तिं स्मरामि ॥ ३२॥ श्रीवासस्य प्रणय-विवशस्तस्य सूनोर्गतासो- र्वक्त्रात्तत्त्वं परम-शुभदं श्रावयां आस तस्मै । तद्-दासेभ्योऽपि शुभ-मतिं दत्तवान् यः परात्मा वन्दे गौरं कुहक-रहितं जीव-निस्तारकं तम् ॥ ३३॥ गोपी-भावात्परम-विवशो दण्ड-हस्तः परेशो वादासक्तान् अति-जड-मतींस्ताडयां आस मूढान् । तस्मात् ते यत्-प्रतिभटतया वैर-भावान् अतन्वन् तं गौराङ्गं विमुख-कदने दिव्य-सिंहं स्मरामि ॥ ३४॥ तेषां पाप-प्रशमन-मतिः कण्टके माघ-मासे लोकेशाक्षि-प्रम-वयसि यः केशवान् न्यास-लिङ्गम् । लेभे लोके परम-विदुषां पूजनीयो वरेण्य- स्तं चैतन्यं कच-विरहितं दण्ड-हस्तं स्मरामि ॥ ३५॥ त्यक्त्वा गेहं स्वजन-सहितं श्री-नवद्वीप-भूमौ नित्यानन्द-प्रणय-वशगः कृष्ण-चैतन्य-चन्द्रः । भ्रामं भ्रामं नगरं अगमच्छान्ति-पूर्वं पुरं य- स्तं गौराङ्गं व्रज-जिगमिषाविष्ट-मूर्तिं स्मरामि ॥ ३६॥ तत्राणीता त्वजित-जननी हर्ष-शोकाकुला सा भिक्षां दत्त्वा कतिपय-दिवा पालयां आस सूनुम् । भक्त्या यस्तद्-विधिं अनुसरन् क्षेत्र-यात्रां चकार तं गौराङ्गं भ्रमण-कुशलं न्यासि-राजं स्मरामि ॥ ३७॥ नित्यानन्दो विबुध-जगदानन्द-दामोदरौ च लीला-गाने परम-निपुणो दत्त-सूनुर्मुकुन्दः । एते भक्ताश्चरण-मधुपा येन सार्धं प्रचेलु- स्तं गौराङ्गं प्रणत-पटल-प्रेष्ठ-मूर्तिं स्मरामि ॥ ३८॥ त्यक्त्वा गङ्गा-तट-जन-पदांश्चाम्बु-लिङ्गं महेशं ओढ्रे देशे रमण-विपिने क्षीर-चौरं च वीक्ष्य । श्री-गोपालं कटक-नगरे यो ददर्शात्म-रूपं तं गौराङ्गं स्व-भजन-परं भक्त-मूर्तिं स्मरामि ॥ ३९॥ एकाम्राख्ये पशुपति-वने रुद्र-लिङ्गं प्रणम्य यातः कपोटक-शिव-पुरं स्वस्य दण्डं विहाय । नित्यानन्दस्तु तद्-अवसरे यस्य दण्डं बभञ्ज तं गौराङ्गं कपट-मनुजं भक्त-भक्तं स्मरामि ॥ ४०॥ भग्ने दण्डे कपट-कुपितस्तान् विहाय स्व-वर्गान् एको नीलाचल-पति-पुरं प्राप्य तूर्णं प्रभुर्यः । भावावेशं परमं अगमत् कृष्ण-रूपं विलोक्य तं गौराङ्गं पुरट-वपुषं न्यस्त-दण्डं स्मरामि ॥ ४१॥ भावास्वाद-प्रकट-समये सार्वभौमस्य सेवा तस्यानर्थान् प्रकृति-विपुलान् नाशयां आस सर्वान् । तस्माद्यस्य प्रबल-कृपया वैष्णवोऽभूत् स चापि तं वेदार्थ-प्रचरण-विधौ तत्त्व-मूर्तिं स्मरामि ॥ ४२॥ तत्रोषित्वा कतिपय-दिवा दक्षिणात्यं जगाम कूर्म-क्षेत्रे गद-विरहितं वासुदेवं चकार । रामानन्दे विजय-नगरे प्रेम-सिन्धुं ददौ य- स्तं गौराङ्गं जन-सुख-करं तीर्थ-मूर्तिं स्मरामि ॥ ४३॥ देशे देशे सुजन-निचये प्रेम विस्तारयन् यो रङ्ग-क्षेत्रे कतिपय-दिवा भट्ट-पल्यां अवात्सीत् । भट्टाचार्यान् परम-कृपया कृष्ण-भक्तांश्चकार तं गोपालालय-सुख-निधिं गौर-मूर्तिं स्मरामि ॥ ४४॥ बौद्धान् जैनान् भजन-रहितान् तत्त्व-वादाहतांश्च मायावाद-ह्रद-निपतितान् शुद्ध-भक्ति-प्रचारैः । सर्वांश्चैतन् भजन-कुशलान् यश्चकारात्म-शक्त्या वन्देऽहं तं बहु-मत-धियं पावनं गौरचन्द्रम् ॥ ४५॥ दत्त्वानन्दं कलि-मल-हरं दक्षिणात्येभ्य ईशो नीत्वा ग्रन्थौ भजन-विषयौ कृष्ण-दासेन सार्धम् । अलालेशालय-पथ-गतो नील-शैलं ययौ य- स्तं गौराङ्गं प्रमुदित-मतिं भक्त-पालं स्मरामि ॥ ४६॥ कशीमिश्र-द्विज-वर-गृहे शुद्ध-चामीकराभो वासं चक्रे स्वजन-निकरैर्यः स्वरूप-प्रधानैः । नामानन्दं सकल-समये सर्व-जीवाय योऽदात् तं गौराङ्गं स्वजन-सहितं फुल्ल-मूर्तिं स्मरामि ॥ ४७॥ नीलागेशे रथं अधिगते वैष्णवैर्यस्तद्-अग्रे नृत्यन् गायन् हरि-गुण-गानं प्लावयां आस सर्वान् । प्रेम्णौढीयान् गजपति-मुखान् सेवकान् शुद्ध-भक्तां- स्तं गौराङ्गं स्व-सुख-जलधिं भाव-मूर्तिं स्मरामि ॥ ४८॥ ओढ्र-देशाद्ययौ गौडं सीमायां उत्कलस्य यः । हित्वौढ्र-पार्षदान् देवस्तं स्मरामि शचीसुतम् ॥ ४९॥ श्रीवासं वासुदेवं च राघवं स्व-स्व-मन्दिरे । दृष्ट्वा शान्तिपुरं यातो यस्तं गौरं स्मराम्यहम् ॥ ५०॥ श्री-विद्यानगरे गच्छन् विद्यावाचस्पतेर्गृहम् । कुलियायां१ नवद्वीपे ययौ यस्तं अहं भजे ॥ ५१॥ विद्या-रूपोद्भव-धन-जनैर्या न लभ्या नरेण तं चैतन्य-प्रभुवर-कृपां दैन्य-भावादवाप । देवानन्दः कुलिया-नागरे यस्य भक्तान् प्रपूज्य वन्दे गौरं विमद-विदुषां शुद्ध-भक्त्य्-एक-लभ्यम् ॥ ५२॥ वृन्दारण्येक्षण-कपटतो गौड-देशे प्रसूतिं दृष्ट्वा स्नेहाद्यवन-कवलात् साग्रजं रूपं एव । उद्धृत्यौढ्रं पुनरपि ययौ यः स्वतन्त्रः परात्मा तं गौराङ्गं स्वजन-तरणे हस्त-चित्तं स्मरामि ॥ ५३॥ सङ्गं हित्वा बहु-विध-नृणां भद्रं एकं गृहीत्वा यात्रां वृन्दावन-दृढ-मतिर्यश्चकारात्म-तन्त्रः । ऋक्ष-व्याघ्र-प्रभृतिक-पशून् मादयित्वात्म-शक्त्या तं स्वानन्दैः पसु-मति-हरं गौरचन्द्रं स्मरामि ॥ ५४॥ वृन्दारण्ये गिरि-वर-नदी-ग्राम-राजीर्विलोक्य पूर्व-क्रीडा-स्मरण-विवशो भाव-पुञ्जैर्मुमोह । तस्माद्भद्रो व्रज-विपिनतश्चालयां आस यं च तं गौराङ्गं निज-जन-वशं दीन-मूर्तिं स्मरामि ॥ ५५॥ भावावेशं पथि परं अहो वीक्ष्य तं भाग्यवन्तो म्लेच्छाः केचिच्छुभ-मति-बलाल्लेभिरे यत्-प्रसादम् । भक्तास्ते च प्रणय-वशगा यत्-प्रसादाद्बभूवु- स्तं गौराङ्गं जनि-मल-हरं शुद्ध-मूर्तिं स्मरामि ॥ ५६॥ पुण्ये गङ्गा-तपन-तनया-सङ्गमे तीर्थ-वर्ये रूपं विद्यां पर-रस-मयीं सिक्षयां आस यो वै । प्रेमाणं गोकुल-पति-गतं वल्लभाख्यं बुधं च तं गौराङ्गं रस-गुरु-मणिं शास्त्र-मूर्तिं स्मरामि ॥ ५७॥ काशी-क्षेत्रे रस-विरहितान् केवलाद्वैत-पक्षान् प्रेम्णाप्लाव्य स्वजन-कृपया यस्तु रूपाग्रजाय । विष्णोर्भक्ति-स्मृति-विरचने साधु शक्तिं व्यतारीद् वन्दे गौरं भजन-विषये साधकानां गुरुं तम् ॥ ५८॥ धिग्गौराङ्गम्-प्रणति-रहितान् शुष्क-तर्कादि-दग्धान् इत्येवं वै प्रचुर-वचनं शाङ्कराणां बभूव । न्यासीशानां सदसि महतां यस्य पूजा तदाभूत् तं गौराङ्गं स्व-सुख-मथनानन्द-मूर्तिं स्मरामि ॥ ५९॥ प्राप्य क्षेत्रं पुनरपि हरिर्भक्त-वर्गांस्तुतोष रामानन्द-प्रमुख-सुजनान् सार्वभौमादिकान् यः । प्रेमालापैर्हरि-रस-परैर्यापयां आस वर्षां- स्तं गौराङ्गं हरि-रस-कथास्वाद-पूर्णं स्मरामि ॥ ६०॥ यत् पादाब्जं विधि-शिव-नुतं वीक्षितुं ते महान्तो वर्षे वर्षे रथ-परिगतौ गौड-देशात् समेत्य । प्रीतिं लब्ध्वा मनसि महतीं ओढ्र-देशात् समीयु- र्गौडियानां परम-सुहृदं तं यतीन्द्रं स्मरामि ॥ ६१॥ निर्विण्णानां विपुल-पतनं स्त्रीषु सम्भाषणं यत् तत्-तद्-दोषात् स्व-मत-चरकारक्षणार्थं य ईशः । दोषात् क्षुद्रादपि लघु-हरिं वर्जयित्वा मुमोद तं गौराङ्गं विमल-चरितं साधु-मूर्तिं स्मरामि ॥ ६२॥ दैवाधीनान्वय-जनिमतां तत्त्व-बुद्धि-प्रभावाद् आचार्यत्वं भवति यदिदं तत्त्वं एकं सुगूढम् । प्रद्युम्नाय प्रचुर-कृपया ज्ञापयां आस यस्तत् तं गौराङ्गं गुण-मधुकरं जाड्य-शून्यं स्मरामि ॥ ६३॥ वात्सल्येन स्व-भजन-वशाद्दास-गोस्वामिनं य- स्तत्त्व-ज्ञानं भजन-विषये शिक्षयां आस साक्षात् । सिन्धोस्तीरे चरम-समये स्थापयां आस दासं तं गौराङ्गं स्व-चरण-जुषां बन्धु-मूर्तिं स्मरामि ॥ ६४॥ पुरीं रामाख्यं यो गुरु-जन-कथा-निन्दन-परं सदोपेक्ष्य भ्रान्तं कलि-कलुष-कूपे गतं इह । अमोघं स्वीचक्रे परिजन-कृपा-लेश-बलतः शची-सूनुः शश्वत्-स्मरण-पदवीं गच्छतु स मे ॥ ६५॥ सनातनं कन्दु-रस-प्रपीडितं स्पर्शेन शुद्धं कृपया चकार यः । स्व-नाश-बुद्धिं परिशोधयन्न् अहो स्मरामि गौरं नवखण्ड-नागरम् ॥ ६६॥ गोपीनाथं नरपति-बलाद्यो ररक्षात्म-तन्त्रो रामानन्दानुज-निज-जनं शिक्षयन् धर्म-तत्त्वम् । पापैर्लब्धं धनं इति सदा त्याज्यं एव स्व-धर्मात् तं गौराङ्गं स्वजन-शिवदं भद्र-मूर्तिं स्मरामि ॥ ६७॥ उपायनं राघवतः समादृतं पुनः पुनः प्राप्तं अपि स्व-देशतः । स्व-भक्ततो येन परात् परात्मना तं एव गौरं सततं स्मराम्यहम् ॥ ६८॥ तैलं नाङ्गी-कृतं येन सन्न्यास-धर्म-रक्षिणा । जगदानन्द-दत्तं च स्मरामि तं महाप्रभुम् ॥ ६९॥ जगन्नाथागारे गरुड-सदन-स्तम्भ-निकटे ददर्श श्री-मूर्तिं प्रणय-विवशा कापि जरती । समारुह्य स्कन्धं यदमल-हरेस्तुष्ट-मनसः शचीसूनुः शश्वत् स्मरण-पदवीं गच्छतु स मे ॥ ७०॥ पुरी-देवे भक्तिं गुरु-चरण-योग्यां सुमधुरां दयां गोविन्दाख्ये विशद-परिचर्याश्रीत-जने । स्वरूपे यः प्रीतिं मधुर-रस-रूपां ह्यकुरुत शचीसूनुः शश्वत् स्मरण-पदवीं गच्छतु स मे ॥ ७१॥ दधानः कौपीनं वसनं अरुणं शोभन-मयं सुवर्णाद्रेः शोभां सकल-सुशरीरे दधदपि । जपन् राधा-कृष्णं गलद्-उदक-धाराक्षि-युगलः शचीसूनुः शश्वत् स्मरण-पदवीं गच्छतु स मे ॥ ७२॥ मुदा गायन्न् उच्चैर्मधुर-हरि-नामावलिं अहो नटं मन्दं मन्दं नगर-पथ-गामी सह जनैः । वदन् काक्वा रे रे वद हरि-हरीत्य्-अक्षर-युगं शचीसूनुः शश्वत् स्मरण-पदवीं गच्छतु स मे ॥ ७३॥ रहस्यं शास्त्राणां यदपरिचितं पूर्व-विदुषां श्रुतेर्गूढं तत्त्वं दश-परिमितं प्रेम-कलितम् । दयालुस्तद्यो''सौ प्रभुरति-कृपाभिः समवद- च्छची-सूनुः शश्वत् स्मरण-पदवीं गच्छतु स मे ॥ ७४॥ आम्नायः प्राह तत्त्वं हरिं इह परमं सर्व-शक्तिं रसाब्धिं तद्-भिन्नांशांश्च जीवान् प्रकृति-कवलितांस्तद्-विमुक्तांश्च भावात् । भेदाभेद-प्रकाशं सकलं अपि हरेः साधनं शुद्ध-भक्तिं साध्यं तत्-प्रीतिं एवेत्युपदिशति हरिर्गौरचन्द्रो भजे तम् ॥ ७५॥ स्वतः सिद्धो वेदो हरि-दयित-वेधः प्रभृतितः प्रमाणं सत् प्राप्तः प्रमिति-विषयांस्तान् नव-विधान् । तथा प्रत्यक्षादि-प्रमिति-सहितं साधयति नो न युक्तिस्तर्काख्या प्रविशति तथा शक्ति-रहिता ॥ ७६॥ हरिस्त्वेकं तत्त्वं विधि-शिव-सुरेश-प्रणमितो यदेवेदं ब्रह्म प्रकृति-रहितं तत्-तनु-महः । परात्मा सत्यांशो जगदनुगतो विश्व-जनकः स वै राधा-कान्तो नव-जलद-कान्तिश्चिद्-उदयः ॥ ७७॥ पराख्यायाः शक्तेरपृथगपि स स्वे महिमनि स्थितो जीवाख्यां स्वां अचिद्-अभिहितां तां त्रिपदिकाम् । स्वतन्त्रेच्छः शक्तिं सकल-विषये प्रेरण-परो विकाराद्यैः शून्यः परम-पुरुषो''सौ विजयते ॥ ७८॥ स वै ह्लादिन्याश्च प्रणय-विकृतेर्ह्लादन-रत- स्तथा संविच्-छक्ति-प्रकटित-रहो-भाव-रसितः । तया श्री-सन्धिन्या कृत-विशद-तद्-धाम-निचये रसाम्भोधौ मग्नो व्रज-रस-विलासी विजयते ॥ ७९॥ स्फुलिङ्गा ऋद्धाग्नेरिव चिद्-अणवो जीव-निचया हरेः सूर्यस्येवापृथगपि तु तद्-भेद-विषयाः । वशे माया यस्य प्रकृति-पतिरेवेश्वर इह स जीवो मुक्तो''पि प्रकृति-वश-योग्यः स्व-गुणतः ॥ ८०॥ स्वरूपार्थैर्हीनान् निज-सुख-परान् कृष्ण-विमुखान् हरेर्माया दण्ड्यान् गुण-निगड-जालैः कलयति । तथा स्थूलैर्लिङ्गैर्द्विविध-वरणैः क्लेश-निकरै- र्महा-कर्मालानैर्नयति पतितान् स्वर्ग-निरयौ ॥ ८१॥ यदा भ्रामं भ्रामं हरि-रस-गलद्-वैष्णव-जनं कदाचित् सम्पश्यंस्तद्-अनुगमने स्याद्रुचि-युतः । तदा कृष्णावृत्त्या त्यजति शनकैर्मायिक-दशां स्वरूपं बिभ्राणो विमल-रस-भोगं स कुरुते ॥ ८२॥ हरेः शक्तेः सर्वं चिदचिदखिलं स्यात् परिणति- र्विवर्तं नो सत्यं श्रुति-मत-विरुद्धं कलि-मलम् । हरेर्भेदाभेदौ श्रुति-विहित-तत्त्वं सुविमलं ततः प्रेम्णः सिद्धिर्भवति नितरां नित्य-विषये ॥ ८३॥ श्रुतिः कृष्णाख्यानं स्मरण-नति-पूजा-विधि-गणा- स्तथा दास्यं सख्यं परिचरणं अप्यात्म-ददनम् । नवाङ्गान्येतानीह विधि-गत-भक्तेरनुदिनं भजन् श्रद्धा-युक्तः सुविमल-रतिं वै स लभते ॥ ८४॥ स्वरूपावस्थाने मधुर-रस-भावोदय इह व्रजे राधा-कृष्ण-स्वजन-जन-भावं हृदि वहन् । परानन्दे प्रीतिं जगद्-अतुल-सम्पत्-सुखं अथो विलासाख्ये तत्त्वे पर्म-परिचर्यां स लभते ॥ ८५॥ प्रभुः कः को जीवः कथं इदं अचिद्विश्वं इति वा विचार्यैतान् अर्थान् हरि-भजन-कृच्-छास्त्र-चतुरः । अभेदाशां धर्मान् सकलं अपराधं परिहरन् हरेर्नामानन्दं पिबति हरि-दासो हरि-जनैः ॥ ८६॥ संसेव्य दश-मूलं वै हित्वाविद्या-मयं जनः । भाव-पुष्टिं तथा तुष्टिं लभते साधु-सङ्गतः ॥ ८७॥ इति प्रायां शिक्षां चरण-मधुपेभ्यः परिदिशन् गलन्-नेत्राम्भोभिः स्नपित-निज-दीर्घोज्ज्वल-वपुः । परानन्दाकारो जगद्-अतुल-बन्धुर्यति-वरः शचीसूनुः शश्वत् स्मरण-पदवीं गच्छतु स मे ॥ ८८॥ गतिर्गौडीयानां अपि सकल-वर्णाश्रम-जुषां तथा चौढ्रीयाणां अति-सरल-दैन्याश्रित-हृदाम् । पुनः पाश्चात्यानां सदय-मनसां तत्त्व-सुधियां शचीसूनुः शश्वत् स्मरण-पदवीं गच्छतु स मे ॥ ८९॥ अहो मिश्रागारे स्वपति-विरहोत्कण्ठ-हृदयः श्लथात् सन्धेर्दैर्घ्यं दधदति-विशालं कर-पदोः । क्षितौ धृत्वा देहं विकलित-मतिर्गद्गद-वचाः शचीसूनुः शश्वत् स्मरण-पदवीं गच्छतु स मे ॥ ९०॥ गतो बद्ध-द्वारादुपल-गृह-मध्याद्बहिरहो गवां कालिङ्गानां अपि समतिगच्छन् वृति-गणम् । प्रकोष्ठे सङ्कोचाद्बत निपतितः कच्छप इव शचीसूनुः साक्षात् स्मरण-पदवीं गच्छतु स मे ॥ ९१॥ व्रजारण्यं स्मृत्वा विरह-विकलान्तर्-विलपितो मुखं सङ्घृष्यासौ रुधिरं अधिकं तद्दधदहो । क्व मे कान्तः कृष्णो वद वद वदेति प्रलपितः शचीसूनुः साक्षात् स्मरण-पदवीं गच्छतु स मे ॥ ९२॥ पयोराशेस्तीरे चटक-गिरिराजे सिकतिले व्रजन् गोष्ठे गोवर्धन-गिरिपतिं लोकितुं अहो । गणैः सार्धं गौरो द्रुत-गति-विशिष्टः प्रमुदितः शचीसूनुः साक्षात् स्मरण-पदवीं गच्छतु स मे ॥ ९३॥ यस्यानुकम्पा सुखदा जनानां संसार-कूपाद्रघुनाथ-दासम् । उद्धृत्य गुञ्जाः शिलया ददौ य- स्तं गौरचन्द्रं प्रणमामि भक्त्या ॥ ९४॥ सद्-भक्ति-सिद्धान्त-विरुद्ध-वादान् वैरस्य-भावांश्च बहिर्-मुखानाम् । सङ्गं विहायाथ सुभक्त-गोष्ठ्यां रराज यस्तं प्रणमामि गौरम् ॥ ९५॥ नामानि विष्णोर्बहिरङ्ग-पात्रे विस्तीर्य लोके कलि-पावनोऽभूत् । प्रेमान्तरङ्गाय रसं ददौ य- स्तं गौरचन्द्रं प्रणमामि भक्त्या ॥ ९६॥ नामापराधं सकलं विनाश्य चैतन्य-नामाश्रित-मानवानाम् । भक्तिं परं यः प्रददौ जनेभ्य- स्तं गौरचन्द्रं प्रणमामि भक्त्या ॥ ९७॥ इत्थं लीलामय-वर-वपुः कृष्ण-चैतन्य-चन्द्रो वर्षान् द्वि-द्वादश-परिमितान् क्षेपयां आस गार्ह्ये । सन्न्यासे यः सम-परिमितं यापयां आस कालं वन्दे गौरं सकल-जगतां आश्रमाणां गुरुं तम् ॥ ९८॥ दरिद्रेभ्यो वस्त्रं धनं अपि ददौ यः करुणया बुभूक्षून् योऽन्नाद्यैरतिथि-निचयांस्तोषं अनयत् । तथा विद्या-दानैः सुखं अतिशयं यः समभजत् स गौराङ्गः शश्वत्स्मरण-पदवीं गच्छतु मम ॥ ९९॥ सन्न्यासस्य प्रथम-समये तीर्थ-यत्र-च्छलेन वर्षान् यो वै रस-परिमितान् व्याप्य भक्तिं ततान । शेषान् अब्दान् वसु-विधु-मितान् क्षेत्र-देशे स्थितो यो वन्दे तस्य प्रकट-चरितं योगमाया-बलाढ्यम् ॥ १००॥ ह ह कष्टं सकल-जगतां भक्ति-भाजां विशेषं गोपीनाथालय-परिसरे कीर्तने यः प्रदोषे । अप्राकट्यं बत समभजन् मोहयन् भक्त-नेत्रं वन्दे तस्याप्रकट-चरितं नित्यं अप्राकृतं तम् ॥ १०१॥ भक्त्या ये वै सकल-समये गौर-गाथां इमां नो गायन्त्युच्चैर्विगलित-हृदः गौर-तीर्थे विशेषान् । तेषां तूर्णं द्विज-कुल-मणिः कृष्ण-चैतन्य-चन्द्रः प्रेमावेशं युगल-भजने यच्छति प्राण-बन्धुः ॥ १०२॥ षट्-ख-वेद-समासेन कार्त्तिके गोद्रुमे प्रभोः । गीता भक्तिविनोदेन लिलेयं लोक-पावनी ॥ १०३॥ यत्-प्रेम-माधुर्य-विलास-रागान् नन्दात्मजो गौड-विहारं आप । तस्यै विचित्रा वृषभानु-पुत्र्यै लीला मया तस्य समर्पितेयम् ॥ १०४॥ इति श्रीमत्-सच्चिदानन्द-भक्तिविनोद-ठक्कुर-विरचितं श्री-गौराङ्ग-लीला-स्मरण-मङ्गल-स्तोत्रं समाप्तम् ॥
% Text title            : Gauranga Lila Smarana Mangala Stotram
% File name             : gaurAngalIlAsmaraNamangalastotram.itx
% itxtitle              : gaurANgalIlAsmaraNamaNgalastotram (bhaktivinoda Thakkuravirachitam)
% engtitle              : gaurAngalIlAsmaraNamangalastotram
% Category              : deities_misc, krishna, gurudev, mangala, stotra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Bhaktivinoda Thakkura
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com
% Proofread by          : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com
% Indexextra            : (Text, English, Bengali)
% Acknowledge-Permission: Gaudiya Grantha Mandira https://grantha.jiva.org/
% La Jagattest update         : November 5, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org