गोरक्षनाथाष्टकम्

गोरक्षनाथाष्टकम्

योगीन्द्राप्तहितोपदेशविशदा देशार्थतत्त्वं शिरो ज्ञानं कर्म च दक्षिणोत्तरगता वक्षोभ्यपक्षावसौ । आत्मा योगवरः स्वरूपविषया पुच्छे प्रतिष्ठाचितो माया यस्य जगत्त्रयं विजयते हंसः स नाथो विभुः ॥ १॥ द्वैतं दक्षिणपक्ष एष विहितोऽद्वैतं विविच्योत्तरः पक्षो योगशिरो विशेषपरमा द्वैतं तदात्मा महान् । पुच्छं केवलभाव एक विदुषां हृत्पद्मनीड मह- न्माया यस्य जगत्त्रयं विजयते हंसः स नाथो विभुः ॥ २॥ ऐन्द्री दिक्षभपूर्वरूपमतुलं पुच्छं प्रतीची दिशो- दीतीयाम्यदिशावतीव विपुलौ दक्षौ हि पक्षौ हितो । आत्मेवापदिश दिशासु तरले सूर्येन्दुबिम्बे दृशौ माया यस्य जगत्त्रयं विजयते हंसः स नाथो विभुः ॥ ३॥ श‍ृत्यन्ते कथितं शिरो महदिदं पक्षोऽयमत्रोत्तरः सोयं दक्षिणपक्ष एव विपुलः स्थूलोऽयमात्माचलः । स्वच्छं पुच्छमिवेदमेव भुवन नीडं सरूपाभिधं माया यस्य जगत्त्रयं विजयते हंसः स नाथो विभुः ॥ ४॥ प्राणों दक्षिणपक्ष एष वितती दानो भवत्युत्तरः पक्षो व्यानशिरो विशालहृदयं मध्यं समानोऽपरः । वायुः पुच्छमतुच्छमेव भजतां नीडं निकायो जडं माया यस्य जगत्त्रयं विजयते हंसः स नाथो विभुः ॥ ५॥ भव्यं सत्मृतं च पक्षयुगलं वाणी शिरः प्राणिना मात्माऽशेषविशेषदोषरहितः श्रद्धेव पुच्छं फलम् । सर्वं तुच्छमनुप्रविश्य सहसा तुच्छं पुरा व्याकृतं माया यस्य जगत्त्रयं विजयते हंसः स नाथो विभुः ॥ ६॥ पश्चैतद्यजुरेव साङ्गमखिलं नित्य शिरो निर्मल- मृक्सामात्मकवेदयुग्ममतुलं पक्षद्वयं पक्षिणः । आत्मादेशपरा ऋगेव सफलाऽथर्वैव पुच्छं परा माया यस्य जगत्त्रयं विजयते हंसः स नाथो विभुः ॥ ७॥ श्रुत्या जन्यमिन्द प्रियं शितशिरो मोदप्रमोदावहं पक्षायुत्तरदक्षिणावसुभृद्रा, नन्दोऽयमात्मातुलः । पुच्छं ब्रह्म तदादिवाक्यगतया वृत्त्योपलक्ष्यात्मत- न्माया यस्य जगत्त्रयं विजयते हंसः स नाथो विभुः ॥ ८॥ मानेन मानेन समाश्रितानां मानं समानं मम नाथ ! भूयात् । मानेन मानेन समाश्रितानां मानं समानं मम नाथ ! भूयात् ॥ ९॥ स्वस्ति श्री श्रेयः श्रेणयः श्रीमतां समुल्लसन्तुराम् ॥ इति श्रीराजस्थानशेखरी भूतयोधपुराधिराज सिंहदेवविरचितं तैत्तिरीयोपनिषदनुसारं सम्पूर्णम् ॥ (हंसचित्रम्)
% Text title            : Gorakshanatha Ashtakam 1
% File name             : gorakShanAthAShTakam.itx
% itxtitle              : gorakShanAthAShTakam 1 (yogIndrAptahitopadeshavishadA deshArthatattvaM shiro)
% engtitle              : gorakShanAthAShTakam 1
% Category              : deities_misc, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Text)
% Acknowledge-Permission: vadicjagat.co.in
% Latest update         : October 15, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org