श्रीगोरक्षनाथस्तवनम्
कैलाशाचल चारु श्रङ्ग रचिता वेदी यदी यासनं
शान्तं शङ्ख शशाङ्क कुन्दकुमुदं स्फीतश्रियालिङ्गितम् । (कुसुमं)
बालार्कारुणतीर्णकोण किरणज्योतिर्जटामण्डितं
तज्ज्योतिर्मयमैश्वरं वपुरिदं गोरक्ष ! ते धीमहि ॥
आत्माखलु विश्वमूलं ॐ कृण्वन्तो विश्वमार्यम् ॥
गोरक्षबालं गुरुशिष्यपालं
शेषहिमालं शशिखण्डभालम् ।
कालस्यकालं जितजन्मजालं
वन्दे जटालं जगदाब्जनालम् ॥
गोरक्षनाथ ! भवरुप भवाब्धिपोत
भक्तार्तिनाशन विभो करुणैकमूर्ते ।
त्वत्पाद-पद्म-मकरन्द-मधुव्रतोऽहं
तापं मदीयमनसो हर देव सद्यः ॥ १॥
गोरक्षनाथ ! मयि चेत् करुणास्तवेदृक्
दीनस्त्वदीय चरणौ शरणं प्रपद्ये ।
नश्येदवश्यमथमानसवेदना मे
सिद्धिं व्रजेन्निखिलब्रह्मविधिर्हि लोके ॥ २॥
गोरक्षनाथ ! रजसा चरणस्थितेन
पूतं शिरो भवति भक्तजनस्य नूनम् ।
त्वद्दर्शनं हरति तस्य समस्तचिन्तां
त्वत्सेवनं हरति पापपिशाचपुञ्जम् ॥ ३॥
हे नाथ ! मामपि विलोक्य दीनबन्धो
सन्ताप-तप्त-हृदयं कृपणं क्षणेऽस्मिन् ।
पादानते शिरसि मे वरदात्महस्तं
कामं निधेहि गुरदेव ! भवानुकूलः ॥ ४॥
दोषकरोऽस्मि भगवननुकम्पनीयः
निर्दोषता न सुलभा जगतीतलेऽस्मिन् ।
दोषकरेऽपि विमलद्युतिसंयुतेऽपि
किं लाञ्छनं मनुजदृष्टिपथं न याति ॥ ५॥
आक्रम्यते जगति नैकविधैर्हि रोगै
भोगी जनो विततभोग-विमूढचेताः ।
गोरक्षपाद-सरसीरुह-पूजनन्तु
व्याधीर्हिनस्ति सकलान् खलु भोगमूलान् ॥ ६॥
बद्धोऽस्मि देव भव-मोह-समूह-जाले
मोच्यस्त्वया सदयमार्तिहरेण तूर्णम् ।
देया चमे शुभमतिः सततं ययाऽहं
त्वदपाद-पद्म-युगलं विमलं भजेयम् ॥ ७॥
गोरक्षपत्तनमिदं प्रथितं पृथिव्यां
तेपे तपः सततमत्र भवान् मुनीन्द्रः ।
योगस्य मार्गमुपदिश्य जनान् कृतार्थान्
चक्रे भृशं सकललोक-शुभाभिलाषी ॥ ८॥
इति श्रीगोरक्षनाथस्तवनं सम्पूर्णम् ।