श्रीगुरुगीतारात्रिका
जय देव जय देव जय श्रीगुरुगीते जय सद्गुरुगीते ।
ब्रह्मानन्दस्वरूपिणि जय विश्वम्भरिते ॥ ध्रुवपदम् ॥
जय जगदम्ब भवानि भवहारिणि भद्रे ।
श्रीगुरुतत्त्वसुबोधिनि जयकरुणसान्द्रे ॥ १॥
भवभयनिरवधिनिपतितदीनाभयतारे ।
देहाहङ्कृतिव्याधिदिव्यौषधिसारे ॥ २॥
भवविषविषयविनाशिनि परमामृतरूपे ।
स्वानन्दामृतरूपिणि नामरूपरहिते ॥ ३॥
आत्मज्ञानप्रकाशिनि गुरुसुभक्तिसहिते ।
जगदुद्धारिणिपावनि सुन्दरसुरपूते ॥ ४॥
भयं द्वितीयाद्यत्वं शिक्षस्यद्वैतम् ।
तत्त्वमसीत्युपदेशं गायसि त्वं नित्यम् ॥ ५॥
इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान्
श्रीधरस्वामीमहाराजविरचिता श्रीगुरुगीतारात्रिका सम्पूर्णा ।
गुरुपूर्णिमा, श्रीक्षेत्रवरदपुरं संवत्सरः - १९७२
Proofread by Manish Gavkar