गुरुकवचं कङ्कालमालिनीतन्त्रे
॥ अथ गुरुकवचं कङ्कालमालिनीतन्त्रे ॥
देव्युवाच ॥
भूतनाथ ! महादेव ! कवचं तस्य मे वद ।
गुरुदेवस्य देवेश ! साक्षाद्ब्रह्मस्वरूपिणः ॥ १॥
ईश्वर उवाच ॥
अथा ते कथयामीशे ! कवचं मोक्षदायकम् ।
यस्य ज्ञानं विना देवि ! न सिद्धिर्न च सद्गतिः ॥ २॥
ब्रह्मादयोऽपि गिरिजे ! सर्वत्र जयिनः स्मृताः ।
अस्य प्रसादात् सकला वेदागमपुरःसराः ॥ ३॥
कवचस्यास्य देवेशि ! ऋषिर्विष्णुरुदाहृतः ।
छन्दो विराड् देवता च गुरुदेवः स्वयं शिवः ॥ ४॥
छतुर्वर्गे ज्ञानमार्गे विनियोगः प्रकीर्त्तितः ।
सहस्रारे महापद्मे कर्पूरधवलो गुरुः ॥ ५॥
वामोरुस्थितशक्तिर्यः सर्वत्र परिरक्षतु ।
परमाख्यो गुरुः पातु शिरसं मम वल्लभे ! ॥ ६॥
परापराख्यो नासां मे परमेष्ठी मुखं सदा ।
कण्ठं मम सदा पातु प्रह्लादानन्दनाथकः ॥ ७॥
बाहू द्वौ सनकानन्दः कुमारानन्द एव च ।
वशिष्ठानन्दनाथश्च हृदयं पातु सर्वदा ॥ ८॥
क्रोधानन्दः कटिं पातु सुखानन्दः पदं मम ।
ध्यानानन्दश्च सर्वाङ्गं बोधानन्दश्च कानने ॥ ९॥
सर्वत्र गुरवः पान्तु सर्वे ईश्वररूपिणः ।
इति ते कथितं भद्रे ! कवचं परमं शिवे ! ॥ १०॥
भक्तिहीने दुराचारे दत्त्वैतन्मृत्युमाप्नुयात् ॥
अस्यैव पठनाद्देवि ! धारणात्छ्रवणात् प्रिये ! ॥ ११॥
जायते मन्त्रसिद्धिश्च किमन्यत् कथयामि ते ।
कण्ठे वा दक्षिणे बाहौ शिखायां वीरवन्दिते ! ॥ १२॥
धारणान्नाशयेत् पापं गङ्गायां कल्मषं यथा ।
इदं कवचमज्ञात्वा यदि मन्त्रं जपेत् प्रिये ! ॥ १३॥
तत् सर्वं निष्फलं कृत्वा गुरुर्याति सुनिश्चितम् ।
शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ॥ १४॥
॥ इति कङ्कालमालिनीतन्त्रे गुरुकवचं समाप्तम् ॥
http://muktalib5.org
Proofread byDPD