गुरुमहिमविंशतिः
॥ श्री भगवन्निम्बार्काचार्याय नमः ॥
॥ श्री राधासर्वेश्वरो विजयते ॥
आचार्यप्रवरं नित्यं दिव्यलक्षणभूषितम् ।
राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ १॥
वेदवेदान्ततत्त्वज्ञं श्रीवेदधर्मरक्षकम् ।
राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ २॥
श्रीसद्गुरुकृपाधन्यं सर्वशास्त्रविशारदम् ।
राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ ३॥
आविर्भूतं महारम्ये राजस्थाने सुभारते ।
राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ ४॥
ज्योतिर्मयतनुं धीरं हृदन्धकारनाशनम् ।
राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ ५॥
स्मयमानाननं भव्यं पञ्चकेशसमन्वितम् ।
राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ ६॥
तीर्थाटनं कृतं येन लोककल्याणहेतवे ।
राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ ७॥
युगलसाधनासिद्धं श्रीधामतत्त्वकोविदम् ।
राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ ८॥
युगलकीर्त्तने लीनं लीलासङ्कीर्त्तनप्रियम् ।
राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ ९॥
कृपालुं च दयालुं तं ह्यार्तजनसमाश्रयम् ।
राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ १०॥
वेदान्ततत्त्ववक्तारं रचितानेकपुस्तकम् ।
राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ ११॥
महाशयं महाभागं जनमनोमहोत्सवम् ।
राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ १२॥
भूषणं सम्प्रदायस्याचार्यपीठविराजितम् ।
राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ १३॥
निर्मापितसुगोशाला-चिकित्सालयमन्दिरम् ।
राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ १४॥
सम्मेलनेष्वनेकेषु ह्यध्यक्षपदशोभितम् ।
राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ १५॥
देशेषु च विदेशेषु सम्प्रदायप्रचारकम् ।
राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ १६॥
धर्माचार्यसमस्तैश्च पूजिताङ्घ्रिपदद्वयम् ।
राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ १७॥
श्रीमन्निम्बार्कसिद्धान्तसारज्ञं पुण्यदर्शनम् ।
राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ १८॥
श्रीनिम्बार्कस्वरूपं च ह्यादर्शाचार्यलक्षणम् ।
राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ १९॥
अहो! आचार्यपादं तं भगवच्छक्तिधारकम् ।
देशिकमभिवन्देऽहं तद्दिव्यगुणविग्रहम् ॥ २०॥
स्मरणीया रसोदीप्तैर्महिमविंशतिः गुरोः ।
रासबिहारिदासेन रचिता तत्प्रसादतः ॥ २१॥
(ब्रजविदेही चतुःसम्प्रदाय श्रीमहन्त काठियाबाबा
स्थान गुरुकुलमार्गः, श्रीधाम, वृन्दावनं (उत्तरप्रदेश)
विविधविद्याविद्योतितहृदयानां परमविपश्चितां
निखिलशास्त्रनिष्णातानामनन्तानन्तश्रीसमलङ्कृतानां
वर्तमाननिम्बार्काचार्याणां जगद्गुरूणां
श्रीराधासर्वेश्वरशरणदेवाचार्याणां )
इति स्वामी रासबिहारीदास जी ``काठियाबाबा'' विरचिता
गुरुमहिमविंशतिः समाप्ता ।
Proofread by Mohan Chettoor