श्रीगुरुपरब्रह्मपरमात्मने नमः
(अनुष्टुप्छन्दः)
जगतः कारणं नित्यं ब्रह्मैवास्ति न चेतरत् ।
आनन्दघनरूपं यज्ज्ञात्वा तत्त्वात्मरूपतः ॥ १॥
स्वान्यत्सर्वं परित्यज्य स्वात्ममात्रतया स्थितिः
सच्चिदानन्दरूपेण सन्न्यासः स प्रकीर्तितः ॥ २॥
संन्यासी स्वात्ममात्रो हि नित्यं ब्रह्मात्मरूपतः ।
माया जीवो जगद्वापि पश्यन्नपि न पश्यति ॥ ३॥
वन्ध्याकुमारवत्सर्वं तस्य स्यादसदेव हि ।
आनन्दघनरूपोऽसौ निर्विकल्पः सदा शुचिः ॥ ४॥
परिशुद्धपराकाशे चिदानन्दघने शुभे ।
आस्तां भवस्थितिर्नित्यं स्वात्ममात्रतया सदा ॥ ५॥
इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान्
श्रीधरस्वामीमहाराजविरचितं श्रीगुरुपरब्रह्मस्तोत्रं सम्पूर्णम् ।
Proofread by Manish Gavkar