गुरुराजस्तवः

गुरुराजस्तवः

सद्गुरुं भज सद्गुरुं भज सदगुरु भज बुद्धिमन् येन संसृतिपारमेष्यसि मुक्त इत्यपि गास्यसे । आसुरीं त्यज सम्पदं विपदां पदं मुनिगर्हितां तर्हि तां भज सम्पदं मुनिसंस्तुतां भगवत्प्रियाम् ॥ १॥ गर्व-पर्वत-मस्तके तव संस्थितिनं हि शोभते पातमेष्यसि घातकर्मणि युज्यसे न तु पूज्यसे । सात्त्विकं फलमश्नुषे यदि सत्यवृत्तपरायणो दनुजसूनुरिवामरद्रुममर्हणं भगवत्पदम् ॥ २॥ दम्भमार्गपरायणं यदि सत्फलाय भवत्यहो इल्वलादिकृताऽपि विप्रवरार्चना विषमा कथम् । कष्टमेष्यसि दुष्टबुद्धिपरायणो यदि चाऽन्तरे मृष्ट मृष्ट परं पदं तव दूरतः स्तवकर्मणाम् ॥ ३॥ मुक्तताऽपि मुमुक्षुता कपटौघमूलनिकृन्तनी नीतिरर्भकता तथा यदि नास्ति जन्म निरर्थकम् । केषु ते गणना भवेद् वद विद्यवेद्यसमान्तरे भासुरे जनजन्म कर्म निरर्थकं कुरुषे कुतः ॥ ४॥ साधुचित्तविखण्डनाद् भगवत्प्रियावपि दानवौ तत्र साधुविघर्षणादपि राक्षसौ मुनिभक्षकौ । तेन हीनबलावथो नृपनामदूषकराक्षसौ कृष्णहिंसन-तत्पराविति कर्मणो गहना गतिः ॥ ५॥ व्रह्मनिष्ठ -विमाननान्निज -सूनुगीतहरेः पदे द्वेष आविरभूद्भवग्रहमान्त्रिके निजसेविते । दानवस्य च दानधर्मपरायणस्य च रक्षसः शैवधर्मरतस्य मूलविनाशनोऽप्यघनाशने ॥ ६॥ जीवतामपहापयञ्छिवतां दिशत्यतिकौशलात् पूर्ववत् स्थितविश्वमेष तिरष्करोत्यतिलीलया । तं गुरुं भज नम्रमोचनकारकं भवतारकं तत्र शात्रवमत्र यच्छति वृक्षतां पितृकानने ॥ ७॥ श्रीगुरोः पदपङ्कजं भजतां सतां सततं हरिः सन्निधाविति सर्वशासनसारमेतदुदीरितम् । तन्महत्त्वमहाम्बुधेरपरं तटं न हि केचन प्राप्नुवन्ति परावरज्ञाः पण्डिताः सनकादयः ॥ ८॥ शब्दमूलमहो गुरुः शिवजीवविश्वभिदास्पदं विश्वजीवशिवादिनामत एष एव हि बुध्यते । वाच्यकोटिनिविष्टमेव हि तत्त्रयं कृतपत्त्रयं लक्ष्यभूतवपुर्गुंरुस्तमु जानते न हि केचन ॥ ९॥ वृत्त्यनाश्रितचित्स्वरूपक एष एव समः प्रभो वृत्तिरूढचिदम्बरं खलु जीव ईश इदं जगत् । जन्म-मृत्यु-नियामकः परमेश्वरः स तु भोगभुग् जन्ममृत्यु-निवारकः परमेश्वरादतिरिच्यते ॥ १०॥ ब्रह्मरन्ध्रपदं गुरोर्हृदयं शिवस्य निजास्पदं स्थानमेव हि तत्स्वरूप-विनिर्णयाय भवत्फलम् । हृद्यतो विषयान् भजत्यथ नैव किञ्चन रन्ध्रगो यच्छति क्रमतः फलं वद मुक्तिदोऽस्त्यनयोऽस्तु कः ॥ ११॥ तत्स्वरूपविमर्शनं गुरुपादुकामनुसंशितं तत्मनुस्तु तदीयपूर्णकृपाभरेण हि लभ्यते । लाभतो गुरुणा सहैक्यविमर्शनं परमं पदं तत्र मुक्तिवराङ्गना वृणुते स्वयं निजसम्पदा ॥ १२॥ तत्र यो विमुखो नरो निजघातकीर्ति निगद्यते तस्य सम्मुखतां भजन् परमद्वयं भवति क्षणात् । ऋक्श्रुतिः शतधारमित्यपि नौति तां गुरुपादुकां कृष्णभिक्षुरिमं स्तवं पदपङ्कजेऽर्पयते गुरोः ॥ १३॥ द्रोणपर्वतवासिने नतशासिने मतिकाशिने हारिणे विपदां मुहुर्मम दायिनेऽखिलसम्पदाम् । सच्चिदादिसुखाभिधाय यतीश्वराय सहस्रशः सन्त मे नतयो दयोदकसागराय दिने दिने ॥ १४॥ स्तोत्रमेतदभीष्टसिद्धिद -मासुरव्रत -हारकं तारकं निजदेशि -केन्द्रपदाब्जयोर्दृढसन्मतेः । य पठेत् प्रयत्नः शुचिः सुविचायं भूरि दिने दिने मुच्यते भवपाशपाशित एवमेव मतिर्मम ॥ १५॥ इति श्रीमत्कृष्णानन्द-सरस्वतीकृत-गुरुराजस्तवः सम्पूर्णः । Proofread by Aruna Narayanan narayanan.aruna at gmail.com
% Text title            : gururAjastavaH
% File name             : gururAjastavaH.itx
% itxtitle              : gururAjastavaH (kRiShNAnandasarasvatIkRitaH)
% engtitle              : gururAjastavaH
% Category              : deities_misc, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Krishnanandasarasvati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : Brihat Stotra Ratnakar Shivadutta Shastri
% Latest update         : February 19, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org