श्रीगुरुशिवानन्दस्तोत्रम्
(अनुष्टुप्छन्दः)
शिवानन्दं दयासिन्धुं सुन्दरानन्दविग्रहम् ।
भवाब्धितारकं वन्दे ज्ञानविज्ञानदं शुभम् ॥ १॥
सच्चित्सुखघनाकारं जगतः स्थितिकारणम् ।
आत्मरूपं परं शान्तं शिवानन्दगुरुं भजे ॥ २॥
अहंस्फूर्तितरङ्गस्थं चिदानन्दाब्धिरूपकम् ।
मुमुक्षुनलिनीचन्द्रं शिवानन्दगुरुं स्तुवे ॥ ३॥
अज्ञानरजनीसूर्यं तप्तचित्तसुधाघनम् ।
भवरोगभिषग्रत्नं शिवानन्दं गुरुं श्रये ॥ ४॥
कुण्डले कटकं यद्वत् मृगाम्भसि च आतपः ।
तद्वज्जगति यत्सत्यं तस्मिन् शिवपदे रमे ॥ ५॥
इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान्
श्रीधरस्वामीमहाराजविरचितं श्रीगुरुशिवानन्दस्तोत्रं सम्पूर्णम् ।
कीलकसंवत्सर, आषाढ बहुळ त्रयोदशी,
रचनास्थानं - श्री क्षेत्र वरदपुरं
Proofread by Manish Gavkar