गुरुस्तोत्रम्
समाश्रयेद्गुरुं भक्त्या महाविश्वासपूर्वकम् ।
निक्षिपेत् सर्वभारांश्च गुरोः श्रीपादपङ्कजे ॥ १॥
गुरुरेव परो धर्मो गुरुरेव परा गतिः ।
गुरुरेव परो बन्धुर्गुरुरेव परः स्मृतः ॥ २॥
गुरुरेव महापापं क्षपयत्यात्मभावतः ।
``श्रीगुरुभ्यो नम'' इति गुरुमन्त्रं जपेत यः ॥ ३॥
गुरुभक्त्या विनाशः स्याद्दोषस्यापि गरीयसः ।
भविष्यति नवेत्येवं सन्दिग्धो(ग्धे) निरयं व्रजेत् ॥ ४॥
गुरुपादाम्बुजं ध्यायेद्गुरोर्नाम सदा जपेत् ।
गुरोर्वार्तां तु कथयेद्गुरोरन्यं न भावयेत् ॥ ५॥
गुरुपादौ च शिरसा मनसा वचसा तथा ।
यः स्मरेत्सततं भक्त्या सन्तुष्टस्तस्य केशवः ॥ ६॥
हरौ रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ।
गुरुप्रसादात् सर्वेष्टसिद्धिर्भवति नान्यथा ॥ ७॥
गुरुसंस्मरणं कार्यं सर्वदैव मुमुक्षुभिः ।
उत्थाने भोजने स्नाने ग्रन्थारम्भे विशेषतः ॥ ८॥
गुरुप्रसादो बलवान् न तस्माद्बलवत्तरम् ।
यद्गुरुः सुप्रसन्नः सन् दद्यात् तन्नान्यथा भवेत् ॥ ९॥
शुभान् ध्यायन्ति ये कामान् गुरुदेवप्रसादजान् ।
इतरानात्मपापोत्थान् तेषां विद्या फलिष्यति ॥ १०॥
स्मृत्वा गुरुं पूर्वगुरुमादिमूलगुरूंस्तथा ।
देवतां वासुदेवं च विद्याभ्यासी तु सिद्धिभाक् ॥ ११॥
ज्ञानादृते नैव मुक्तिर्ज्ञानं नैव गुरोविना ।
तस्माद्गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् ॥ १२॥
तत्र भागवतान् धर्मान् शिक्षेद्गुर्वात्मदैवतः ।
अमाययानुवृत्या च तुष्येदात्मात्मदो हरिः ॥ १३॥
अहोभाग्यमहोभाग्यं गुरुपादानुवर्तिनाम् ।
ऐहिकामुष्मिकं सौख्यं वर्धते तदनुग्रहात् ॥ १४॥
अहो दौर्भाग्यमतुलं विमुखानां हरौ गुरौ ।
ऐहिकं ह्रसते सौख्यं दुःखं नारकमेधते ॥ १५॥
यद्यत् सत्कृत्यजं पुण्यं तत्सर्वं गुरवेऽर्पयेत् ।
तेन तत् सफलं प्रोक्तमन्यथा निष्फलं भवेत् ॥ १६॥
गुरुर्गुरुर्गुरुरिति जपतो नास्ति पातकम् ।
तस्माद्गुरुप्रसादार्थं यतेत मतिमान्नरः ॥ १७॥
गुरोः सेवा गुरोः स्तोत्रं शिष्यकृत्यं परं स्मृतम् ।
दोषदृष्टिरनर्थायेत्युमामाह सदाशिवः ॥ १८॥
अहोभाग्यमहोभाग्यं मध्वमार्गानुयायिनाम् ।
दैवं रमापतिर्येषां यद्गुरुर्भारतीपतिः ॥ १९॥
सर्वधर्मान् परित्यज्य गुरुधर्मान् समाचर ।
न गुरोरधिकं किञ्चित् पुरुषार्थचतुष्टये ॥ २०॥
साधनं विद्यते देवि गुरोराज्ञां न लङ्घयेत् ।
देहदात्पितुरेवायं ह्यधिको ज्ञानदानतः ॥ २१॥
पिता माता तथा भ्राता सर्वे संसारहेतवः ।
गुरुरेकः सदा सेव्यः संसारोद्धरणक्षमः ॥ २२॥
गुरुभक्तः सदा सेव्यो गुरुभक्तस्य दर्शने ।
मनो मे गाहते देवी कदा द्रक्ष्ये गुरुप्रियम् ॥ २३॥
सर्वे धर्माः कृतास्तेन सर्वतीर्थानि तेन च ।
यस्य स्याद्गुरुवाक्येषु भक्तिः सर्वोत्तमोत्तमा ॥ २४॥
शरीरं वसु विज्ञानं वासः कर्म गुणान् असून् ।
गुर्वर्थं धारयेद्यस्तु स शिष्यो नेतरः स्मृतः ॥ २५॥
आचार्यस्य प्रियं कुर्याद्प्राणैरपि धनैरपि ।
कर्मणा मनसा वाचा स याति परमां गतिम् ॥ २६॥
न स्नानसन्ध्ये न च पादसेवनं
हरेर्न चार्चा विधिना मया कृता ।
निष्कारणं मे गतमायुरल्पकं
तस्माद्गुरो मां कृपया समुद्धर ॥ २७॥
कर्मणा मनसा वाचा या चेष्टा मम नित्यशः ।
केशवाराधने सा स्याज्जन्मजन्मान्तरेष्वपि ॥ २८॥
मादृशो न परः पापी त्वादृशो न दयापरः ।
इति मत्वा जगन्नाथ रक्ष मां शरणागतम् ॥ २९॥
कायेन वाचा मनसेन्द्रियैर्वा बुध्यात्मना वानुसृतः स्वभावम् ।
करोति यद्यत्सकलम्परस्मै नारायणायेति समर्पयेत्तत् ॥ ३०॥
इति श्रीगुरुस्तोत्रं सम्पूर्णम् ।
Proofread by Pranav Tendulkar