गुरुस्तुतिशतकम्

गुरुस्तुतिशतकम्

श‍ृङ्गगिरिजगद्गुरुश्रीसच्चिदानन्दभारतीमहास्वामिभिर्विरचितं विनायकमहं वन्दे विविधार्थविधायकम् । विद्वज्जनलसच्चेतोविषयं विश्वरूपिणम् ॥ १॥ अनुग्रहाय भक्तानां प्रणमामि गुरूनहम् । श्लोकैः शतमितैः साधुपदैरर्थाभिधायिभिः ॥ २॥ अखण्डसच्चिदानन्दरूपाय ब्रह्मरूपिणे । प्रचण्डकरवर्णाय परिपूर्णाय नित्यशः ॥ ३॥ ओङ्काराय नमस्तुभ्यं मङ्गलाय महात्मने । वेदमूलाय नित्याय ज्योतिषे विमलाय च ॥ ४॥ नमः सदाशिवायाथ कोटिसूर्योपमाय च । नमः सहस्रशीर्षाय तावद्दृक्पादबाहवे ॥ ५॥ नमः प्रकृतये तस्यै त्रिगुणाकृतयेऽनिशम् । यया विमोहिता रुद्रब्रह्मविष्णुपुरोगमाः ॥ ६॥ नमः शिवाय रुद्राय पार्वतीरमणाय च । नीलकण्ठाय नित्याय निरवद्याय शूलिने ॥ ७॥ शिवोऽहमिति यं ध्यायन्नशिवोऽपि शिवो भवेत् । दक्षिणामूर्तिरूपाय तस्मै श्रीगुरवे नमः ॥ ८॥ काशीपुरनिवासाय भक्तानां भवशान्तये । तारकब्रह्मदो यश्च तस्मै श्रीगुरवे नमः ॥ ९॥ तारकब्रह्मणे तुभ्यं तारकारिविधायिने । तारकेशविभूषाय तस्मै श्रीगुरवे नमः ॥ १०॥ यन्नामस्मरणादेव मुच्यन्ते भवपीडिताः । यो भक्तवरदो विष्णुस्तस्मै श्रीगुरवे नमः ॥ ११॥ यः फाल्गुनसखो भूत्वा गीताख्यां सुखदां सुधाम् । निर्ममे भगवान् कृष्णस्तस्मै श्रीगुरवे नमः ॥ १२॥ गोपीरमणगोपालगोवर्धनधराभिधः । गोपीनां मुक्तिदो यश्च तस्मै श्रीगुरवे नमः ॥ १३॥ यः पद्मभवनः पद्मां तनुते सृष्टिकर्मणः । यो देवो ब्रह्मविद्ब्रह्मा तस्मै श्रीगुरवे नमः ॥ १४॥ चतुर्वर्गसमुद्भूतश्चतुर्वेदविराजितः । चतुरो यस्तपो योगे तस्मै श्रीगुरवे नमः ॥ १५॥ चतुर्दशमहालोकमहावृक्षविधायकः । जगतो मूलभूतो यस्तस्मै श्रीगुरवे नमः ॥ १६॥ वरिष्ठाय गरिष्ठाय बलिष्ठाय तपोबलात् । वसिष्ठाय तनिष्ठाय तस्मै श्रीगुरवे नमः ॥ १७॥ समाश्रिततपश्शक्तिः शक्त्या कृतमहातपाः । नाम्ना यः शक्तिराख्यातस्तस्मै श्रीगुरवे नमः ॥ १८॥ यो विधूतमहाकामशरो नाम्ना पराशरः । कोपेशयशरो यश्च तस्मै श्रीगुरवे नमः ॥ १९॥ प्रज्ञाबलेन तपसा चतुर्वेदविभाजकः । कृष्णद्वैपायनो यश्च तस्मै श्रीगुरवे नमः ॥ २०॥ जटाधरस्तपोनिष्ठः शुद्धयोगो जितेन्द्रियः । कृष्णाजिनधरः कृष्णस्तस्मै श्रीगुरवे नमः ॥ २१॥ भारतस्य विधाता च द्वितीय इव यो हरिः । हरिभक्तपरो यश्च तस्मै श्रीगुरवे नमः ॥ २२॥ शुकः शुक इवानन्तकथामृतमहायनम् । वाग्भिर्भेजेऽर्थयुक्ताभिस्तस्मै श्रीगुरवे नमः ॥ २३॥ हृदयस्थं परं ब्रह्म ज्ञात्वा त्यक्ताखिलक्रियः । मनसा ध्यानयोग्योऽभूत् तस्मै श्रीगुरवे नमः ॥ २४॥ यदात्मकमभूत्सर्वं जगदेतच्चराचरम् । यत्सङ्गतो विरक्तस्स्यात् तस्मै श्रीगुरवे नमः ॥ २५॥ जीवन्मुक्ततया यान्तं यं विज्ञायाप्सरोगणः । वीतलज्जो विवस्त्रोऽभूत् तस्मै श्रीगुरवे नमः ॥ २६॥ ज्ञानविज्ञानविद्योतद्ब्रह्मध्यानपरायणः । निःस्पृहो निर्ममः शान्तस्तस्मै श्रीगुरवे नमः ॥ २७॥ ब्रह्मामृतरसानन्दमहासागरमज्जनात् । अविज्ञातप्रपञ्चो यस्तस्मै श्रीगुरवे नमः ॥ २८॥ गोष्पदीकृतसंसारसागरो ज्ञानतो मुनिः । तमसः पारमापेदे तस्मै श्रीगुरवे नमः ॥ २९॥ पञ्चभूतसमो यश्च पञ्चबाणविवर्जितः । पञ्चत्वदोषनिर्मुक्तस्तस्मै श्रीगुरवे नमः ॥ ३०॥ बालोऽप्यबालतां यातो जीवन्नपि विमुक्तिगः । देहस्थितोऽप्यसङ्गो यस्तस्मै श्रीगुरवे नमः ॥ ३१॥ स्वोक्तिभिर्जितगौडाय गौडपादाभिधाय च । गौणेतरस्वपक्षाय तस्मै श्रीगुरवे नमः ॥ ३२॥ गोविन्दभगवान् यश्च गोविन्दपदभाक् सदा । गोविन्दपदगो योऽभूत् तस्मै श्रीगुरवे नमः ॥ ३३॥ येन श्रीशङ्कराचार्यगुरुणा गुरुबुद्धिना । मथितं भाष्यपीयूषं तस्मै श्रीगुरवे नमः ॥ ३४॥ रमणीयेन वादेन विजिता येन भारती । आनीता च भुवो भागं तस्मै श्रीगुरवे नमः ॥ ३५॥ अभङ्गदप्रबन्धश्च श‍ृङ्गाररससागरः । प्रणीतो येन मुनिना तस्मै श्रीगुरवे नमः ॥ ३६॥ अनन्तगुणविभ्राजदनन्तपदपङ्कजः । अनन्तमुखदेशश्च तस्मै श्रीगुरवे नमः ॥ ३७॥ शिवदा भक्तसङ्घेभ्यो यत्प्रणीता शिवास्तुतिः । श‍ृङ्गाररससम्पूर्णा तस्मै श्रीगुरवे नमः ॥ ३८॥ सौन्दर्यलहरीश्लोकलहरीकहरीतकी । निर्मलीकुरुते वाचं तस्मै श्रीगुरवे नमः ॥ ३९॥ दर्शितज्ञानमुद्राय नासाग्रन्यस्तदृष्टये । ज्योतिर्मयपरब्रह्मपराय गुरवे नमः ॥ ४०॥ कौपीनदृढबन्धाय विधूतभवसिन्धवे । विभातविमलब्रह्मज्योतिषे गुरवे नमः ॥ ४१॥ लम्बकर्णद्वयोपेतवदनाय महात्मने । मौनिने बदरध्वंसगुरवे गुरवे नमः ॥ ४२॥ शङ्करश्शङ्करस्यापि शङ्कराचार्यसंयमी । स्वकीयैर्विविधैः स्तोत्रैस्तस्मै श्रीगुरवे नमः ॥ ४३॥ ऋष्यश‍ृङ्गतपःस्थाने तपस्तेपे च यो मुनिः । नानाव्याख्यानकृद्यश्च तस्मै श्रीगुरवे नमः ॥ ४४॥ यद्वाग्विनिःसृतानन्तविशुद्धपदजाह्नवी । पवित्रीकुरुते नित्यं तस्मै श्रीगुरवे नमः ॥ ४५॥ दुर्वादिनां कवीनाश्च विजेता वाग्बलेन यः । तेजोमयलसत्कायस्तस्मै श्रीगुरवे नमः ॥ ४६॥ काषायवस्त्रभृन्नित्यमेकदण्डमुपाश्रितः । भूतिभूषितसद्भालस्तस्मै श्रीगुरवे नमः ॥ ४७॥ सन्यासस्थापनो यश्च कर्ममार्गनिकृन्तनः । ब्रह्मविद्याप्रदो यश्च तस्मै श्रीगुरवे नमः ॥ ४८॥ मन्त्रशास्त्रस्य कर्ता यः सर्वमन्त्रविदां वरः । सर्वज्ञानैकनिलयस्तस्मै श्रीगुरवे नमः ॥ ४९॥ योगेन तपसा चैव ब्रह्मचर्येण भक्तितः । विशुद्धं ज्ञानमापेदे तस्मै श्रीगुरवे नमः ॥ ५०॥ यद्यशःकौमुदी चन्द्रं कलङ्कीकुरुतेऽनिशम् । सुप्रसिद्धश्च यो लोके तस्मै श्रीगुरवे नमः ॥ ५१॥ यं दृष्ट्वा विबुधाः सर्वे विदुर्विद्याविशारदम् । गिरं पुम्भावमापन्नां तस्मै श्रीगुरवे नमः ॥ ५२॥ शिष्यैश्चतुर्भिर्गोविन्दश्चतुर्भिरिव बाहुभिः । विराजते मुनिश्रेष्ठस्तस्मै श्रीगुरवे नमः ॥ ५३॥ नमः सुरेश्वराचार्यगुरुवर्याय धीमते । सुराणामीश्वरायेव सुरसङ्घनमस्कृते ॥ ५४॥ नमस्ते पद्मपादाय पद्मसम्पूज्यकेशव । पद्मासनपरायाथ परब्रह्मात्मने तथा ॥ ५५॥ नमस्ते तोटकाचार्यगुरवे तादृशाय च । त्रुटिमात्रेण संसारमनित्यं मनुते तु यः ॥ ५६॥ अनिर्वाच्यमनिर्देश्यं यद्धामामलकीकृतम् । अव्यक्तमपि तद्ब्रह्म तस्मै श्रीगुरवे नमः ॥ ५७॥ विश्वरूपाभिधाचार्यवर्यो यो विश्वरूपिणम् । विष्णुं ध्यायति योगीन्द्रस्तस्मै श्रीगुरवे नमः ॥ ५८॥ नमो बोधघनाचार्ययोगिने दिव्यचक्षुषे । ज्ञानदो यश्च शिष्येभ्यस्तस्मै श्रीगुरवे नमः ॥ ५९॥ नमो ज्ञानघनाचार्यमहायोगीश्वराय च । महानुभावगण्याय तस्मै श्रीगुरवे नमः ॥ ६०॥ साक्षात्कृतपरब्रह्मज्ञानोत्तमशिवाय च । उत्तमप्रतिपाद्याय तस्मै श्रीगुरवे नमः ॥ ६१॥ नाम्ना प्रज्ञानगिरये गुरवे हरिवेदिने । नमः श्रीशङ्कराचार्यसंप्रदायध्वजाय च ॥ ६२॥ नरसिंहपदद्वन्द्वध्याननिर्मलचेतसे । नाम्ना सिंहगिरीशाय तस्मै श्रीगुरवे नमः ॥ ६३॥ मन्दाकिनीपयःस्नानतीर्थभूतात्मविग्रहः । योऽभूदीश्वरतीर्थाख्यस्तस्मै श्रीगुरवे नमः ॥ ६४॥ तीर्थभूतस्वभक्तौघसमर्पितनमस्ततिः । योऽभून्नृसिंहतीर्थाख्यस्तस्मै श्रीगुरवे नमः ॥ ६५॥ श्रीविद्याशङ्करायाद्यविद्यातीर्थाभिधाय च । लम्बकर्णाय शुद्धाय तस्मै श्रीगुरवे नमः ॥ ६६॥ अष्टाङ्गलक्षणो धर्मो यस्यातिसुलभोऽभवत् । लम्बिकायोगसंस्थाय तस्मै श्रीगुरवे नमः ॥ ६७॥ अपारज्ञानसन्दोहविधूततमसे तदा । अपारसुखसन्धानविधानपटवे नमः ॥ ६८॥ अतीवसुमहत्तेजोमूर्तिध्यानपराय च । अतीतभवसङ्गाय तस्मै श्रीगुरवे नमः ॥ ६९॥ सदोत्तुङ्गतरङ्गाख्यातुङ्गभद्रातटे शुभे । पूर्णब्रह्मैकनिष्ठाय तस्मै श्रीगुरवे नमः ॥ ७०॥ भारतीसंप्रदायस्य रत्नभूताय धीमते । भारतीकृष्णतीर्थाय तस्मै श्रीगुरवे नमः ॥ ७१॥ विद्यारण्यमुनीशाय विद्यारण्येषु नित्यशः । चरत्केसरिणे माद्यद्विद्वत्कुञ्जरवैरिणे ॥ ७२॥ सुप्रसिद्धमहाग्रन्थकरणे करुणान्विता । वशगा यस्य वागीशा तस्मै श्रीगुरवे नमः ॥ ७३॥ योऽभूद्व्याख्यातवेदार्थः प्रज्ञया तपसा तथा । कृतस्मृतिपुराणाय तस्मै श्रीगुरवे नमः ॥ ७४॥ विद्यानगरनिर्माणविद्याशतविशारदः । विद्यारण्यमहायोगी तस्मै श्रीगुरवे नमः ॥ ७५॥ पुरा हरिहराभिख्यपृथिवीमण्डलेशितुः । स्थापको यश्च कालज्ञस्तस्मै श्रीगुरवे नमः ॥ ७६॥ श्रीमच्छृङ्गपुरस्थानसिंहासनविधायिने । छत्रचामरभूषाय तस्मै श्रीगुरवे नमः ॥ ७७॥ यस्य चान्दोलिकादण्ड एकतो मानुषैर्धृतः । एकतो भूतवेतालैस्तस्मै श्रीगुरवे नमः ॥ ७८॥ नमो लक्ष्मीविलासाय नमस्ते मन्त्रमूर्तये । विद्वज्जननिवासाय तस्मै श्रीगुरवे नमः ॥ ७९॥ नमो महानुभावाय ज्ञानवैराग्यशालिने । नमो विशुद्धभावाय तस्मै श्रीगुरवे नमः ॥ ८०॥ नमो भवमहादर्पदलनाय महात्मने । आश्चर्यकर्मणे नित्यं तस्मै श्रीगुरवे नमः ॥ ८१॥ यो वा नाम्नाभवच्चन्द्रशेखरारण्यसद्गुरुः । नृसिंहभारतीशश्च ताभ्यां नित्यं नमो नमः ॥ ८२॥ पुरुषोत्तमपादाब्जपरायणमनास्सदा । नमस्कृतोऽस्तु नाम्ना यः पुरुषोत्तमभारती ॥ ८३॥ शङ्कराचार्यसद्वंश्यो योऽभूच्छङ्करभारती । किङ्करीभूतभूपालस्तस्मै श्रीगुरवे नमः ॥ ८४॥ चन्द्रशेखरभक्तो यश्चन्द्रशेखरभारती । नृसिंहभारती भूयस्ताभ्यां नित्यं नमो नमः ॥ ८५॥ पुरुषोत्तमतां यातः पुरुषोत्तमभारती । नैव नाम्ना तदर्थाच्च तस्मै श्रीगुरवे नमः ॥ ८६॥ रामचन्द्रकृपालेशमहाभूतिविशोभितः । रामचन्द्रयतीन्द्रो यस्तस्मै श्रीगुरवे नमः ॥ ८७॥ यो विभाति यतिश्रेष्ठः समृध्या देवराडिव । नृसिंहभारतीशानस्तस्मै श्रीगुरवे नमः ॥ ८८॥ श्रीचक्रस्य प्रकारेण विद्याशङ्करसद्गुरोः । देवस्थानविधाता यस्तस्मै श्रीगुरवे नमः ॥ ८९॥ षड्दर्शनरहस्यस्य ज्ञाता तत्स्थापकश्च यः । कृतचारुप्रबन्धाय तस्मै श्रीगुरवे नमः ॥ ९०॥ तत्पाणिकञ्जसञ्जातः श्रीनृसिंहाख्यभारती । तपसा जगति ख्यातस्तस्मै श्रीगुरवे नमः ॥ ९१॥ पुनरुद्भूतसंस्थानः सिंहासनशुभङ्करः । सुदृढीकृतसाहाय्यस्तस्मै श्रीगुरवे नमः ॥ ९२॥ अनुग्रहपरो यश्च जगतः परमो गुरुः । निर्विशङ्को महातेजास्तस्मै श्रीगुरवे नमः ॥ ९३॥ तदीयकरपङ्केजसमुद्भूताय धीमते । नृसिंहभारतीशाय तस्मै श्रीगुरवे नमः ॥ ९४॥ वरश्रीसच्चिदानन्दसन्तोषितहृदे सदा । परमानन्दरूपाय तस्मै श्रीगुरवे नमः ॥ ९५॥ करुणारसपूर्णान्तरङ्गसङ्गतमङ्गलः । स्वधर्मरसिको यश्च तस्मै श्रीगुरवे नमः ॥ ९६॥ ऊर्ध्वरेखाङ्कितपदः पदनिर्धूतपङ्कजः । प्रकान्तनयनो यश्च तस्मै श्रीगुरवे नमः ॥ ९७॥ दीर्घबाहुर्वृषस्कन्धः पूर्णवक्षाः शुभाननः । कम्बुग्रीवः सुनासो यस्तस्मै श्रीगुरवे नमः ॥ ९८॥ रमणीयसुहेमाभजानुजङ्घोरुशोभितः । शुभनाभीहदः श्रीमान् तस्मै श्रीगुरवे नमः ॥ ९९॥ विशालफालविभ्राजद्गोपीचन्दनशोभितः । त्रिपुण्ड्रितविभूतिर्यस्तस्मै श्रीगुरवे नमः ॥ १००॥ वाणीविजितदुर्वादी तेजोनिर्जितभास्करः । गाम्भीर्यविजिताम्भोधिस्तस्मै श्रीगुरवे नमः ॥ १०१॥ वादे सति महासिंहो दाने सति महामनाः । व्याख्याने च महाशेषस्तस्मै श्रीगुरवे नमः ॥ १०२॥ नानाविधसुरत्नाढ्यसुवर्णमयपादुकः । पुरः शङ्खमहानादस्तस्मै श्रीगुरवे नमः ॥ १०३॥ असङ्ख्यस्वर्णदानान्तसम्पूर्णशिखरक्रियः । व्याख्यातशिवगीतो यस्तस्मै श्रीगुरवे नमः ॥ १०४॥ रञ्जितानेकशिष्याय सम्पूर्णस्वर्णदानतः । व्याप्ताय यशसा लोके तस्मै श्रीगुरवे नमः ॥ १०५॥ ज्योतिष्टोममुखैर्यज्ञैः शिष्यद्वारैव कारितैः । तोषिता येन देवाश्च तस्मै श्रीगुरवे नमः ॥ १०६॥ राजाधिराजपूज्याय राजमानाय तेजसा । रामचन्द्रसमानाय तस्मै श्रीगुरवे नमः ॥ १०७॥ वेदान्ताक्षस्तपश्चन्द्रः संसारतमसो रविः । कर्मेन्धनमहावह्निस्तस्मै श्रीगुरवे नमः ॥ १०८॥ कोटिसूर्येन्दुसङ्काशो येन ध्यातः सदाशिवः । यदीयहृदयाभिज्ञस्तस्मै श्रीगुरवे नमः ॥ १०९॥ यत्पदार्चनतः सर्वे नराः पूर्णमनोरथाः । नमोऽस्तु गुरवे नित्यं तस्मै मङ्गलदायिने ॥ ११०॥ सुमङ्गलशरीराय सर्वसन्तोषकारिणे । दयाशान्तिविभूषाय तस्मै श्रीगुरवे नमः ॥ १११॥ सम्यग्जप्तमहामन्त्रविधूतकलुषाय च । निर्मलध्यानसंस्थाय तस्मै श्रीगुरवे नमः ॥ ११२॥ यस्य दर्शनमात्रेण तापत्रयविवर्जिताः । तरन्ति मनुजा लोके तस्मै श्रीगुरवे नमः ॥ ११३॥ वेदान्तमथनोद्भूतविज्ञानविमलाय च । भावितात्मस्वरूपाय तस्मै श्रीगुरवे नमः ॥ ११४॥ श्रीविष्णोरंशभूताय योगीन्द्राय महात्मने । सर्वलक्षणयुक्ताय तस्मै श्रीगुरवे नमः ॥ ११५॥ अनेकशास्त्रसम्पन्नमनादृतमनोभवम् । अशेषजगदाधारमस्मद्गुरुमहं भजे ॥ ११६॥ ओङ्कारजपसम्पूर्णपुण्यपूरितविग्रहम् । ओंरवं मनसा नित्यं श्रीमद्गुरुमुपास्महे ॥ ११७॥ मनुजा भक्तिसंयुक्ता ये पठन्ति गुरुस्तुतिम् । ते श्रिया विद्यया लोके युक्ता वृद्धिमवाप्नुयुः ॥ ११८॥ श्रीकृष्णपादस्मृतिधूतपापः श्रीसच्चिदानन्दयतीन्द्रवर्यः । श्रीशङ्कराचार्यसुसंप्र+दायश्रीमद्गुरुस्तोत्रमिदं व्यतानीत् ॥ ११९॥ नमस्कृतिलसद्वाग्भिः शुभैषा गुरुसन्ततिः । पुनाति सकलान् लोकान् जाह्नवीव प्रकीर्तिता ॥ १२०॥ इति श्रीसच्चिदानन्दभारतीशविरचितं गुरुस्तुतिशतकं समाप्तम् ॥ Encoded and proofread by Aruna Narayanan
% Text title            : Guru Stuti Shatakam
% File name             : gurustutishatakam.itx
% itxtitle              : gurustutishatakam (sachchidAnandabhAratIshavirachitam)
% engtitle              : gurustutishatakam
% Category              : deities_misc, gurudev, shataka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Satchidananda Bharati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Aruna Narayanan narayanan.aruna at gmail.com
% Proofread by          : Aruna Narayanan
% Description/comments  : Guru Stuti Sataka Of Satchidananda Bharati With Vyakhya By Lakshmana Sharma Sringeri
% Acknowledge-Permission: Shankaracharya Mahasansthanam, Dakshinamnaya Shrisharadapitham, Sringeri
% Latest update         : December 25, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org