श्रीगुरुवन्दनम् १
श्रीगणेशाय नमः ।
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ १॥
ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम् ।
मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा ॥ २॥
नित्यानन्दं परमसुखदं केवलं ज्ञानमूर्तिं
भावातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं
विश्वातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ ३॥
अज्ञानतिमिरान्धस्य ज्ञानाञ्जन शलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ ४॥
चैतन्यं शाश्वतं शान्तं व्योमातीतं निरञ्जनम् ।
नादबिन्दुकलातीतं तस्मै श्रीगुरवे नमः ॥ ५॥
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ६॥
स्थावरं जङ्गमं व्याप्तं यत्किञ्चित्सचराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ७॥
चिन्मयं व्यापितं सर्वं त्रैलोक्यं सचराच्रम् ।
असित्वं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ८॥
सच्चिदानन्दरूपाय व्यापिने परमात्मने ।
नमः श्रीगुरुनाथाय प्रकाशानन्दमूर्तये ॥ ९॥
ज्ञानशक्तिं समारुह्य तत्त्वमालाविभूषिणे ।
भुक्तिमुक्तिप्रदात्रे च तस्मै श्रीगुरवे नमः ॥ १०॥
अनेकजन्मसम्प्राप्त कर्मधर्मविदाहिने ।
ज्ञानानल्प प्रभावेन तस्मै श्रीगुरवे नमः ॥ ११॥
मन्नाथः श्रीजगन्नाथो मद्गुरुः श्रीजगद्गुरुः ।
स्वात्मैव सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥ १२॥
गुरुः शिवो गुरुर्देवो गुरुर्बन्धुः शरीरिणाम् ।
गुरुरात्मा गुरुर्जीवो गुरोरन्यन्न विद्यते ॥ १३॥
ब्रह्मानन्दं परमसुखदं योगिनामप्यगम्यं
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्त्यादिलक्ष्यम् ।
एकं नित्यं विमलमचलं सर्वधीसाक्षीभूतं
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ १४॥
श्रुतिस्मृतिपुराणानामालयं करुणालयम् ।
नमामि भगवत्पादं शङ्करं लोकशङ्करम् ॥ १५॥
गुरुर्धाम्ना महिम्ना च शङ्करो यो विराजते ।
तत्पदाम्भोरुहरजः कणायास्तु नमो मम ॥ १६॥
गुरवे सर्वलोकानां भिषजे भवरोगिणाम् ।
निधये सर्वविद्यानां दक्षिणामूर्तये नमः ॥ १७॥
वन्दे गुरुपदद्वन्द्वं अवाङ्मनसगोचरम् ।
रक्तशुक्ल प्रभामिश्रं अतर्क्यं त्रैपुरं महः ॥ १८॥
Proofread by NA
From Balasaparya edited by S.V.Radhakrishnasastri of Mahaperiaval Trust
This is a compilation from different sources.