श्रीगुरुवन्दनम् २
श्रीगणेशाय नमः ।
ॐ श्रुतिस्मृतिपुरणानामालयङ्करुणालयम् ।
नमामि भगवत्पादं शङ्करं लोकशङ्करम् ॥ १ ॥
शङ्करं शङ्कराचार्यं केशवं बादरायणम् ।
सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः ॥ २ ॥
ईश्वरोगुरुरात्मेति मूर्तिभेदविभागिने ।
व्योमवद्व्याप्तदेहाय दक्षिणामूर्तये नमः ॥ ३ ॥
गुकारस्त्वन्धकारो वै रुकारस्तन्निवर्तकः ।
अन्धकारनिरोधित्वाद् गुरुरित्यभिधीयते ॥ ४ ॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम् ।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ ५ ॥
Encoded and proofread by Pedro Kupfer pedrokupfer at gmail.com
These set of verses are recited at Arshavidyagurukula founded by
late Swami Dayananda Saraswati.
From ᳚Vedic Heritage Teaching Programme᳚ Volume 2 book.