श्रीगुरुवर्गवन्दना
कावेरीतट-सञ्जातं कावेरीव सुनिर्मलम् ।
शङ्करज्येष्ठ-शिष्यं तं गुणज्येष्ठं नमाम्यहम् ॥ १॥
नृसिंहसाधकं वन्दे सनन्दनयतीश्वरम् ।
गुरुस्नेहाभिषिक्तो यः पद्मपादाभिधां गतः ॥ २॥
योगैश्वर्यवलाद् यो हि मृते वत्से प्रविश्य च ।
अजीवयन् मृतं बालं तस्मै नित्यं नमोनमः ॥ ३॥
हस्तामलकवद् यस्य ब्रह्मज्ञानमबाधितम् ।
तं हस्तामलकाचार्यं भूयो भूयो नतोऽस्म्यहम् ॥ ४॥
श्रीगुरोः सेवनेनैव दिव्यज्ञान-समन्वितः ।
ललिताक्षर-पद्येन गुरोः स्तोत्रमथाकरोत् ॥ ५॥
तोटकच्छन्दसा स्तोत्रं कृत्वा गुरुप्रसादकः ।
तोटकाख्यां गतो यो वै तस्मै नित्यं नमोनमः ॥ ६॥
वादयुद्धच्छलेनैव श्रीगुरोगौरवं व्यधात् ।
शास्त्रतत्त्वरहस्यज्ञं तं नमामि सुरेश्वरम् ॥ ७॥
भाष्य-वार्तिककारो यो वेद-वेदान्त-पारगः ।
तमहं सततं वन्दे सुरेश्वरयतीश्वरम् ॥ ८॥
शङ्कराचार्य्य-सच्छिष्याः पद्मपादादि-संज्ञकाः ।
प्रीयन्तां गुरवो नित्यं हृषीकेशाख्य-भिक्षुके ॥ ९॥
तेषां कृपाकणाभिक्षुः ज्ञानामृतबुभुक्षुकः ।
श्रीगुरून् सततं नौति हृषीकेशाख्यभिक्षुकः ॥ १०॥
इति श्रीजगन्नाथाश्रमपूज्यपादशिष्य-श्रीहृषीकेशाश्रमविरचिता
श्रीगुरुवर्गवन्दना समाप्ता ।
Encoded and proofread by Rahul Gamara