श्रीहरदत्ताचार्यवर्यमहिम्नस्तवः

श्रीहरदत्ताचार्यवर्यमहिम्नस्तवः

॥ अथ महामन्त्र ध्यान श्लोकाः ॥ ॥ औं नमो भगवते हरदत्ताय ॥ ओंकारवेद्यविभवस्य महेश्वरस्य सञ्चोदनेन शिवतत्वनिरूपणाय । भूमिं गतं मधुहरं भुवि यं वदन्ति तस्मै नमो भगवते हरदत्तभूम्ने ॥ १॥ नन्तव्यमेकपुरुषं शिवमेव नान्यं मन्तव्यमेकमनुमीश षडक्षरी यः । गन्तव्यमाह शरणं च पति पशूनां तस्मै नमो भगवते हरदत्तभूम्ने ॥ २॥ मोक्षं ददाति भगवान्परमेश्वरोऽन्ये मोहात् भ्रमन्ति दिविजाः भवपाशबद्धाः । इत्यं प्रमाण सहितं य उपादिदेश तस्मै नमो भगवते हरदत्त भूम्ने ॥ ३॥ भस्मत्रिपुण्ड्रविलसद्रमणीय गात्रः रुद्राक्षरत्नमणिमिर्विलसत्सुकण्ठः । श्रौताग्निसेवनपरश्शिवपूजको यः तस्मै नमो भगवते हरदत्तभूने ॥ ४॥ गम्भीरसूक्तिनिचयैः श्रुतियुक्तियुक्तः पारम्यमैशममलं पुरतो इरेयः । पीठेस्थितोऽनलमये प्रकटी चकार तस्मै नमो भगवते हरदत्तभूने ॥ ५॥ वन्द्यशिशवोह्यमिनयो भरतोक्तया यत् मौलिस्थहस्तयुगळाञ्जलिमुद्रयाऽस्य । इत्यादि युक्तिजटिलं य उदाजहार तस्मै नमो भगवते हरदत्तभूम्ने ॥ ६॥ तेने हि यो निरुपमां श्रुतिसूक्तिमालां यां वीक्ष्य जिमतयः सहसा पतन्ति । निष्पक्षपातहृदयाः सततं रमन्ते तस्मै नमो भगवते हरदत्तभूम्ने ॥ ७॥ हंसोपसेव्यघठनप्रभवाम्बुपूर्ण कंसाभिषे पुरवरेत्वनलेशपूते । आविर्बभूव शिवभक्त सुदर्शनो यः तस्मै नमो भगवते हरदत्तभूम्ने ॥ ८॥ रम्योरसच्युतवती कमलां हरेर्यः श्री सुप्रतीकतनयां पतिमाप्तुकामाम् । ज्ञावा सुधीः स्वगृहणीं विघिनोपयेमे तस्मै नमो भगवते हरदत्तभूम्ने ॥ ९॥ दर्प जहार कुधियां शिववैरिणां यः हमें पुपोष सुहृदां शिवमाश्रितानाम् । शैवं चकार समयं प्रतिबन्धमुक्तं तस्मै नमो भगवते हरदत्तभूम्ने ॥ १०॥ तापत्रयाग्नि शमनैक सुधाकराय मोहान्धकार हरणैक दिवाकराय । माहेशबोध जनकाय महामहिम्ने तस्मै नमोस्तु भवते हरदत्तभूम्ने ॥ ११॥ यस्यापदानमतुलं विततं भविष्ये भक्तोपमन्युमुनिना द्विजवर्यमध्ये । गीतं पुनः शिवरहस्यनवांशके च तस्मै नमोस्तु भवते हरदत्तभूचे ॥ १२॥ भूमा शिवस्सुकृपया वटमूलवासी ह्यारादुपेत्यपदमाश्रितबालकाय । नैजं प्रबोधममृतं प्रददौ च यस्मै तस्मै नमोस्तु भवते हरदत्तभूम्ने ॥ १३॥ श्रीकण्ठ दिव्यमहिमावळिबोधिनी या बर्थरनभरिता श्रुतिसूक्तिमाला । येनैव सा सुघटिता विदुषाऽसमेन तस्मै नमो भगवते हरदत्तभूम्ने ॥ १४॥ श्री कामकोटिपीठेशकरुणालेशलेशतः । अकार्षीदक्षिणामूर्तिः हरदत्तगुरुस्तवम् ॥ १५॥ इति श्रीमल्लादिदक्षिणामूर्तिविरचितः श्रीहरदत्ताचार्यवर्यमहिम्नस्तवः सम्पूर्णः ॥ Proofread by Brahatha Mohan
% Text title            : Shri Haradattacharyavarya Mahimnastavah
% File name             : haradattAchAryamahimnastavaH.itx
% itxtitle              : haradattAchAryamahimnastavaH
% engtitle              : haradattAchAryamahimnastavaH
% Category              : deities_misc, gurudev, stava
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Brahatha Mohan
% Indexextra            : (Scan, Info 1, 2, 3)
% Latest update         : July 9, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org