श्रीहरदत्ताचार्यवर्यपञ्चरत्नम्
ॐ
॥ श्री गुरुभ्यो नमः ॥
श्रीमत्कंसपुरे पुराऽऽविरभवत् श्रीवैष्णवानां कुले
यद्रूपेण सुदर्शनोप्यमिधया विष्णुश्शिवाराधकः ।
लोके बोधयितुं श्रुतीरित शिवोत्कर्षं जगत्क्षेमकृत्
सोऽयं श्रीहरदत्तनामगुरुराट् तन्वीत भद्राणि नः ॥ १॥
शैवानां पदपांसुमिश्शिशुदशो यः पांसुकेलिं व्यधात्
स्वप्ने चेश्वरदत्तपायसमथो बुद्धश्च यो भुक्तवान् ।
यस्येशो हरदत्तनाममहितां विद्यां च साक्षाद्ददौ
सोऽयं श्रीहरदत्तनाम गुरुराट् तन्बीत भद्राणि नः ॥ २॥
ततायः कृतषीठमध्यनिलयो विष्णोः पुरचालये
शम्भूत्कर्षमबाध्य युक्तिततिमिः संस्थाप्य शैवान् व्यधात् ।
पित्रादीन् शिवमन्त्रचिन्तनपरान् रुद्राक्षभस्मामान्वितान्
सोऽयं श्रीहरहत्तनाम गुरुराट् तन्वीत भद्राणि नः ॥ ३॥
पद्यर्यः श्रुतिमुक्ति गम्भनवतीं मालां च साश्शतैः
निर्मायाखिल वेदतन्त्रगगिरी तात्पर्य सङ्ग्राहकैः ।
शेषित्वं नमसोऽध्वरस्य च शिवस्याचष्टचान्यान् गुणान्
सोऽयं श्रीहरदत्तनाम गुरुराट् तन्वीत भद्राणि नः ॥ ४॥
कावेर्युत्तरतीरगे सुविदिते श्री चोळदेशस्थिते
क्षेत्रे कंसपुरामिषे निवसतः सायुज्यमग्नीशितुः ।
प्रायान्माकर शुक्लृपश्चमतिथौ यो भक्तबृन्दान्वितः
सोऽयं श्रीहरदचानाम गुरुराट् तन्वीत भद्राणि नः ॥ ५॥
इति शास्त्ररत्नाकर श्री पोलकं रामशास्त्रिणा प्रणीतं
श्रीहरदत्ताचार्यवर्यपञ्चरत्नं सम्पूर्णम् ।
Proofread by Brahatha Mohan