श्रीहरदत्तचार्यकृता पञ्चरत्नमालिका
गायत्री वल्लभत्वात् दशरथतनय । स्थापिताराधितत्वात्
शौरेः कैलासयात्राव्रतमुदितयांऽभीष्ट सन्तानदानात् ।
नेत्रेणस्वेन साकं दशशतकमलैः विष्णुनापूजितत्वात्
तस्मै चक्रप्रदानादपि च पशुपतिः सर्वदेव प्रकृष्टः ॥ १॥
कन्दर्पध्वंसकत्वात् गरलकवळनात् कालगर्वापहत्वात्
दैतेयावासभूतत्रिपुर विदळनात् दक्षयागे जयित्वात् ।
पार्थस्य खानदानात् नरहरि विजयात् माधवे स्त्री शरीरे
शास्तुस्सम्पातकत्वादपि च पशुपतिः सर्व देवप्रकृष्टः ॥ २॥
वाराणस्यां पाराशरि नियमि भुजस्तम्भनात् प्राक्पुराणां
प्रध्वंशे केशवेनाश्रितवृषवपुषा धारित क्ष्मातलत्वात् ।
अस्तोकै ब्रह्मशीषै रनिशगलकृतालङ्क्रिया भूषितत्वात्
दानात्प्रज्ञान मुक्त्योरपि च पशुपतिः सर्वदेवप्रकृष्टः ॥ ३॥
भूमौ लोकैरनेकैः सततविरचिताराधितत्वादमीषा-
मटैश्वर्य प्रदानात् दशविधवपुषा केशवेनाश्रितत्वात् ।
हंसक्रोडाङ्गधारि द्रुहिण मुरहरान्विष्ट शीर्षाङ्घ्रिकत्वात्
जन्म ध्वंसा द्यभावात् अपि च पशुपतिः सर्वदेवप्रकृष्ठः ॥ ४॥
वैशिष्टये योनि पीठायितमुररिपु श्लिष्टभावेन शम्भोः
सस्त्रीकार्द्ध प्रतीकायित हरिवपुषाऽलिङ्गतत्वेन यद्वा ।
अप्राधान्यात् विशिष्टाद्वय समधिङ्गमे दानवानामरातेः
शम्भोरुत्कृष्ट भावादपि च पशुपतिः सर्वदेव प्रकृष्टः ॥ ५॥
इति श्रीहरदत्तचार्यकृता पञ्चरत्नमालिका सम्पूर्णा ॥
Proofread by Brahatha Mohan