श्री हरदत्तचार्यकृता श्रुतिसूक्तिमाला

श्री हरदत्तचार्यकृता श्रुतिसूक्तिमाला

यस्मै नमो भवति यस्य गुणाः समग्राः नारायणोपनिपदा यदुपासनोक्ता । यो नः प्रचोदयति बुद्धिम धिक्रतौ यः तं त्वामनन्यगतिरीश्वर संश्रयामि ॥ १॥ वेदेषु वा तदनुयायिषु वा विचार्य तन्त्रेषु वाक्यमखिलं प्रतिपादकन्ते । तात्पर्य सङ्ग्रहमहं विदधे महेश ! मह्यं प्रसीद नय मामृजुना पथा त्वम् ॥ २॥ मन्त्रार्थवादविधिभिर्वहुधा विभक्तो यश्शब्द राशिरनपेक्षतया प्रमाणम् । सोयं विमत्सरविमृष्टपदार्थतत्वो वेदः प्रकाशयति केवलमीश्वरं त्वाम् ॥ ३॥ शब्दोयमीश्वर इति श्रुतिगोचरस्सन् आनीलकण्ठमवर्तसिवचन्द्र लेखम् । त्वामेव बोधयति नाथ ! निजार्थपोषात् अन्यं पुनः प्रकरणादि निपीडनेन ॥ ४॥ शब्दस्त वायमभिधानमनन्यशब्दो नैघण्डुका श्शिवपदा दिवदेनमाहुः । वस्तु स्वभावकृतमेव तु पूज्यभावं ब्रूते महेश्वर ! महान्परमञ्च शब्दः ॥ ५॥ यस्योपसर्जनमसौ परमो महान्वा शब्दस्तदर्थममिधातुमलं प्रकृष्टम् । शब्देन पूज्यवचनेन समस्यमानः पूजां ब्रवीति यदि शब्दविदः प्रमाणम् ॥ ६॥ नानीश्वरं भवितुमर्हति विश्वमेतत् बडीश्वरच नितरामयथाप्रमाणम् । तल्लोक वेद विदितेश्वरवर्जनेन कोयं भ्रमः कतिचिदीश्वरमन्यमाहुः ॥ ७॥ विश्वं निरीश्वरमिदं जगदाह साङ्ख्यो योगश्च सेश्वरमुभावनुवादिनोऽन्ये । नत्वेव सम्भवति सेश्वरतां ब्रुवाण ः पद्मासनादिभिरनीश्वरशब्दवाच्यैः ॥ ८॥ ऐश्वर्यमग्रचमनुपाधिनिबन्धनन्ते यद्भूतनाथ ! नमसामपि पात्रमेकम् । तत्प्रायशश्श्रुतिषु दुर्लभमेव वाक्यं मुक्त्या नमो भवति यत्र भवत्प्रसङ्गम् ॥ ९॥ देव ! त्वदेकविषयाणि नमांसि पुंसां यस्मै नमश्श्रुतिबलादवधारयामः । देवान्तरेषु विहितान्यपि तान्यमूनि स्रोतांसि सागर इव त्वयि सम्पतन्ति ॥ १०॥ यस्मै नमश्श्रुतिरन्म नमस्खिनन्त्वा- मेका नियोजनमुवाच पशोः कपर्दिन् ! अन्या च दिव्य शिशुमाराशिरो भवन्तं शक्यन्तदित्थमुभयेन नमो विधातुम् ॥ ११॥ श्रुत्योर्द्वयोरपि नमस्विनमुच्यमानं त्वामेव तन्तमनुसन्दधतः प्रदेशम् । शंसन्ति मन्दमतयोऽपि किमापतन्तं मध्यन्दिने हि सवितारमपन्हुवीरन् ॥ १२॥ कर्मैव शूलधर शलगवन्त्वदीयं मन्त्रा भवन्तमखिलाः प्रतिपादयन्ति । त्वामन्तरेण नमसा कृतलक्षणाय कस्मै पशु नियुनजानि नियोजय त्वम् ॥ १३॥ अङ्गान्तरेषु विबुधान्तरसंस्तुतेषु यश्शिंशुमारशिरसः परिशिष्यसे त्वम् । तस्मै नमो भवितुमीश्वर साम्प्रतन्ते देवान्तराय न कथञ्चिदनीश्वराय ॥ १४॥ या बज्रिणी भवति शङ्कर शङ्खनी या मुद्रा च या कमलिनी भरतोपदिष्टा । ताभिर्भवन्त्यमिनया विबुधान्तराणां मौळिस्पृशा करपुटाञ्जलिमुद्रया ते ॥ १५॥ दत्तन्नमः किमपिशुश्रुम देवताभ्यः त्वामन्तरेण नमसामवसानभूमिम् । तास्तद्ग्रहीतुमनलन्न हि कश्चिदीष्टे चोरोपनीतमिव धारयितुं किरीटम् ॥ १६॥ तस्मै नमो भवतु यत्र निषीदसीति सर्वं नमस्यमनया तु दिशा महेश ! अप्योषधीः प्रति नमो वयमामनामो देहीव देहमधितिष्ठसि येन सर्वम् ॥ १७॥ सर्वं त्वया जगदघिष्ठितमेव मत्वा श्वान श्रुतौ नमसिताः पतयश्व तेषाम् । लोके पुनस्तव महेश्वर ! भक्तियोगात् आरोपिता अपि वयं बहुमानपात्रम् ॥ १८॥ द्वेधा नमो विमृशतः प्रतिभाति लोके वेदेषु वा विषमलोचन ! नान्यरूपम् । यत्तन्नमस्त्वयि तदीश्वरताप्रयुक्तं त्वत्सन्निकर्षविहितं यदनीश्वरेषु ॥ १९॥ त्वत्सन्निकर्षकृत एव नमः प्रयोगः प्रायो बसीयसि यवीयसि दृश्यमानः । श्रेष्ठप्रयुक्त इति कल्पयितुं न शक्य- मश्रेयसामपि नमांसि निदर्शितानि ॥ २०॥ श्रेष्ठ्यप्रयुक्तमषि नाम नमस्त्वदीयं श्रेष्ठोऽसि यः ऋतुभुजां पतिरनियानाम् । श्रेष्ठश्रुतोऽसि भगवन्नविशेषतस्त्वं मन्त्रेषु कृच्छ्रपठितेषु च सामगानाम् ॥ २१॥ देवान्तरस्सह नमस्तुतिह्तयस्ते तोषाय नालमलमेव विपर्ययाय । पुत्रार्थिनवरुविधौ सह चन्द्रमौळे ! सोमेन हूतमनुशुश्रम रुद्रमझिम् ॥ २२॥ अनिं प्रकृत्य खलु रुद्रपदं प्रयुङ्क्ते तद्ब्राह्मणं भवति यत्र तयोस्सहूतिः । आह्वानमत्र भवतः पृथगेव दृष्टं यत्प्रातरग्निमिति सूक्तविदः पठन्ति ॥ २३॥ अग्न्यादिभिस्तव महेश्वर ! इतिशङ्का माभूदिति प्रकृतमप्यनुषङ्गोग्यम् । मन्त्रः क्रियापदमपास्थ पदान्तरेण त्वमाह्वयन्नुतपदेन मिनत्ति रीतिम् ॥ २४॥ न्यासीकृतं वसु बलादमरैरवाप्तु- मन्वागतो रुदितवानिति रुद्रमग्निम् । रुद्रस्त्वदुद्भवतया मरुतो गणान्वा रुद्रावणेन च भवन्तमवैमि रुद्रम् ॥ २५॥ यज्ञेऽपि रुद्रपदमारुणकेतुकोक्तं तच्छब्दमीश्वर ! तदीयमपि स्मरन्ति । यत्तत्प्रदेशगतरुद्रपदावकाशे यज्ञस्य शब्दमनुशुश्रुम सामगेभ्यः ॥ २६॥ सन्ताप्य रोन्दयितरि प्रसभं जनाना- माहुर्ज्वरेऽपि विषमेक्षण । रुद्रशब्दम् । रौद्रश्च तत्प्रकृतिकं प्रतिरूपकं वा शब्दान्तरं भवति वायसशब्दकल्पम् ॥ २७॥ सन्त्येव तद्धितपदप्रतिरूपकाणि भूरीणि भागवतसात्वतसन्निभानि । स्यात्ताहगेव भगवानिति शब्दरूपं षाइगुण्यहेतुकमपि त्वदुपैति नान्यम् ॥ २८॥ ऐश्वर्यमग्रथमनुपाघिमती च लक्ष्मीः ज्ञानं च वीर्ययशसी च विरागता च । एते गुणाः षडपि ते भगसंज्ञयोक्ताः सन्तीत्यनेन भगवन् ! भगवानसि त्वम् ॥ २९॥ ऐश्वर्यमीश्वरपदश्रुतिरुग्रशब्दो वीर्यं यशश्शिवपदं च तवाभिधत्ते । सर्वज्ञकामरिपुशब्दसमर्थितौ च सार्वज्ञरागविरहौ भवतः पुरारे ॥॥ ३०॥ अर्थरिश्रया शिव ! न कोऽपि विरज्यस्ते श्रेष्ठस्तया त्वमसि दाशतयीभिरुक्तः । लब्धुं श्रियं जनिम चारुविचित्ररूप अभ्यचितं तत्र मरुद्भिरुदाहन्ति ॥ ३१॥ सत्यं क्षमा धृतिराधेष्ठितिरात्मबोधः सृष्टिविंरागतपसी मतिरीश्वरत्वम् । नत्वद्वियन्ति न कदाचिदपैति धर्मः किन्तन्नयद्भवति ते गुणसम्मतेषु ॥ ३२॥ नैवेश्वरान्नयशसा महतो न वीरान् न श्रीमतः क्षितिपतीनपि सार्वभौमान् । अन्यादृशानपि महेश्वर ! वीतरागान्न् प्रज्ञावतो भगवतः प्रवदन्ति वृद्धाः ॥ ३३॥ आथर्वाणा मदनशासन ! निब्रुवागा ः नामानि नाम भगवानिति ते निराहुः । अत्याश्रमोपनिषदाह भगेश्वरं त्वां नैघण्टुकाच भगवन्तमुशन्ति पूज्यम् ॥ ३४॥ पूजा तमुष्टुहिवता विहिता महेश मन्त्रेण वाङ्मनसकाय निबन्धना ते । सर्वामिरप्युपनिषद्भिरुपासनोक्ता नारायणोपनिषदं परिभावयामः ॥ ३५॥ वाक्यं यदाह दहरान्तरुपासनन्ते यद्वा समर्पयति रूपविशेषमस्मै । अन्तर्गतैरपि तदौपयिकाभिधेयैः भाव्यं वचोभिरिति वाक्यविदां प्रवादः ॥ ३६॥ नारायणस्य यदुपास्यतयाऽभिधानं यद्वा फलन्तदिह नोपलमे कथञ्चित् । उत्पत्तिशिष्टभवदन्वयमन्यगामि शक्यं महेश्वर ! न कर्तुमुपासनन्ते ॥ ३७॥ नासाबुपासनमुपास्यकथैव दूरे तस्मादुपासकतया परिशेषसिद्धिः । अन्तर्व्यवस्थितगिरा परमात्मनस्ते शब्दातेऽपि विहितं तदुपासकत्वम् ॥ ३८॥ यस्य स्थितोऽसि हृदये परमस्त्वमात्मा युक्तन्न तस्य परमात्मतयाऽभिधानम् । स्वेन स्वयं मनसि वह्निशिखान्तराळे तिष्टन्नुपास्य इति हास्यपदं न कस्य ॥ ३९॥ नारायणस्य हृदयं सुषिरं महाग्नि- रग्नेशिखा च परमात्मपदं यदुक्तम् । सर्वोप्युपासनविधेरयमर्थवादः श्रद्धा विशिष्ट पुरुषाचरणा द्विधेये ॥ ४०॥ नारायणप्रकरणे हृदयं यदुक्तं तस्यैव तद्भवितुमर्हति नापरेषाम् । दृष्टं यतिप्रकरणे यतिमिर्गृहीत पूर्वानुवाकविहितं यदुपासनन्ते ॥ ४१॥ ब्रह्मोच्यते परमसौ परभं च तत्वं ज्योतिः परं च परमेश्वर ! पद्मनाभः । त्वद्भावनैकरसिकस्त्वदनन्यभावात् मन्त्री यथा गरुडभावनया गरुत्मान् ॥ ४२॥ गीतासु योगजविभूतिविभावनाय नारायणश्शिवपदं प्रतिवाचमूचे । योगन्निशायय महेश्वरगोचरं मे दिव्यं ददामि तव चक्षुरिति प्रसन्नः ॥ ४३॥ त्वामन्तरेण न कथञ्चिदुपासनीय- मन्यं ब्रवीति सशिवस्तुतिरन्तकारे ! यद्ब्रह्मशब्दसमभिव्यवहारयोगात् संहारकारिणिहरे शिवशब्दमाहुः ॥ ४४॥ विश्वाधिकस्त्वमसि विश्वमयं मुरारिः यज्ञेश्वरस्त्वमसि यज्ञममुं गृणन्ति । आद्या जगत्प्रकृतिरेषभवान्निमित्त- मातः कथन्नु भगवन्युयोरभेदः ॥ ४५॥ विश्वात्मनस्तुतिषु विश्वपतित्ववादः सङ्गच्छते स्तुतितयैव रथाङ्गपाणेः विश्वस्यपत्युरथ विश्वतयाभिधानं नालं गुणाय गुणगृह्यनिकर्षहेतुः ॥ ४६॥ विश्वं महेश्वर ! भवानधितिष्टतीति विश्वात्मताम्रपचरन्ति यदागमास्ते । तत्पण्डिता बिदितवेदरहस्यशीला ः जानन्ति मन्दमतयस्तु तदेव सत्यम् ॥ ४७॥ तुभ्यं नमो विद्धदीश्वर ! तन्तमर्थ- मातिष्ठते सकलकर्मसु विश्वदर्शी । सर्वानुवाद मिद मुक्तसमर्थनाय कात्यायनो मुनिरुदाहरति स्म गृह्ये ॥ ४८॥ स्थानं यदान्तरभुपास्तिरुपासको वा या सा परा परतया विविधा विभूतिः । यद्वा पुनर्विपमनेत्रमुपासितव्यं नारायणोपनिषदाह तदत्र सर्वम् ॥ ४९॥ यज्ञात्मना स्वयमसावृषिणोपदिष्टा नारायणेन भवतः प्रतिपादयित्री । सूक्तं यथा पुरुषदैवतमन्तकारे नारायणार्षमिति तद्वयपदिष्टमाहुः ॥ ५०॥ एषा महोपनिषदाह हिरण्यगर्भं जातं त्वदेव भगवन् प्रथमं सुराणाम् । नारायणाभिजनमे नमथापि मन्दाः शंसन्ति तत्र भवतः कतिचित्प्रसूतिम् ॥ ५१॥ मध्ये ललाटमरविन्दभुवः क्षणेन दृष्टो भवानिति क एवं निकर्षवादः । योगादिरूढमनसश्शिव ! मादृशोऽपि स्थानेषु पञ्चसु न कस्य तवोपलम्भः ॥ ५२॥ ब्रह्माणि पञ्चतन वश्शिव मन्त्ररूपा जीवातवः पशुपते ! शिवसंहितानाम् । रुद्रेषु पुण्यमिव पञ्चकमक्षराणा- मस्यां महोपनिषदीति महत्ववादः ॥ ५३॥ विद्येश्वरस्त्यससि भूतपतिस्त्वमेकः स्रष्टुर्भवानधिपतिस्सृजति प्रपञ्चम् । यद् ब्राह्मणान्प्रति तव श्रुतमाधिपत्ये तद्ब्रह्मणो मम सदाशिव जन्मलाभः ॥ ५४॥ विद्येश्वरत्वपुनरुक्ततया न वाच्यं बेदाधिपत्यमयमेव महेश । वेदः । विद्या भवन्ति शतशः प्रविभज्यमानाः स्रोतांसि किन्न सरितेव पृथक् कृतानि ॥ ५५॥ आदित्यमृग्यजुषसामनिधानकोशे बिम्बे निविष्टमघितिष्ठति पूरुषो यः । एषा तमेष इति साभिनया भवन्तं भृताधिपत्यवचनेन शशंस नाम्ना ॥ ५६॥ उक्तो हिरण्यपतिरेष हिरण्यबाहु- रुक्तोऽम्बिकापतिरुमापतिरेष उक्तः । आहुर्भवन्तमधिदैवतमुष्णरश्मे- रातस्तदर्चनविधौ भगवन्नभिज्ञाः ॥ ५७॥ यो मण्डलं तपति यश्च तदन्तरात्मा या चानयोर्भवति भूतपते ! विभूतिः । जानान एतदपि यत्फलमश्रुते च सर्वं यथावदिह तत्कथितं क्रमेण ॥ ५८॥ मा नाम भूदखिलमन्यदिमं प्रदेश- मध्यापितास्तदिति मन्त्रविदो भवन्ति । वाच्यः किमस्य सविता सवितुर्वरेण्यः किं वा भवानिति वितर्कपदं न तेषाम् ॥ ५९॥ भास्वन्तमेष विषयी कुरुते न मन्त्रः शक्नोति वक्तुमधिदैवतमीश्वरं त्वाम् । यस्मादयं त्वयि निरोहति भर्गशब्दः प्रज्ञाप्रचोदकतया तदधीयसे त्वम् ॥ ६०॥ सान्तोऽयमन्तकरिपो ! यदि भर्गशब्दो यत्तत्पदद्वयमनन्वयि लिङ्गभेदात् । अन्वेषये दुभयमन्यदभिच्चलिङ्ग- मश्रूयम्माणभसमञ्जस एष पेक्षः ॥ ६१॥ शब्दस्मृतिर्ह्यसुनि वा घनि वा पदान्ते युक्त वदत्युभयथा स्वरमायुदात्तम् । व्यत्यस्तकारकमवैमि पदं घञन्तं मैत्रायणश्रुतिपराहतसान्तभावम् ॥ ६२॥ मैत्रायणतिरस तदिति प्रकृत्य भर्ग भवन्तममिधाय विचिन्तनीयम् । रुद्रस्य भर्गपदगोचरतां ब्रुवाणा सान्तं प्रतिक्षिपति भर्गपदं पुरारे ! ॥ ६३॥ सान्तं पदं तदपि नैव ददाति वक्तुं यद्राह्मणन्तलवकारिण आमनन्ति । प्रश्नोत्तरक्रमनिरूषितपूर्वपाद पादं द्वितीयमपि भर्गमयं ब्रवीति ॥ ६४॥ भर्गः प्रचोदयति यो घियमस्मदीयां तं धीमहीति घटना विनिमाय लिङ्गम् । वाव्यस्य भर्ग भवतस्खपदाभिधानं भर्गाख्यमित्यपि च साम्बवचोनुरोधः ॥ ६५॥ त्यामेव मन्त्रोपनिषत्रवीति तदित्यूचोऽस्याः प्रतिपाद्यमर्थम् । तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात्प्रसृता पुराणी ॥ ६६॥ भार्गोऽपि सन्सवितृशब्दसमन्वयेन सावित्रतामपि विगाहत एव मन्त्रः । तत्तत्पदान्वयवशेन महेश ! मन्त्रान् तद्देवतानपि हि मन्त्रविदः पठन्ति ॥॥ ६७॥ अप्यर्कदैवतवती मृचमामनामः शब्देनविश्व इति शङ्कर ! वेश्वदेवीम् । पिच्याञ्च मर्त इति पुष्यपदेन पौष्णी- मेतादृशानि कति नाम निदर्शनानि ॥ ६८॥ एषा गतिश्श्रुतिगिरा मिति निर्णयेन ततद्ग्रहार्चनविधौ मुनयस्स्मरन्ति । मन्त्रेण शङ्कर । शनेश्श मुपक्रमेण बुध्यस्खशब्दसहितेन बुधस्य पूजाम् ॥ ६९॥ आम्नायमृग्यजुषसामविधं विचिन्त्य सारं समुद्धृतवता परमेष्ठिनापि । मन्त्र स्त्रिपादयमदृष्टविधान्तरेण दृष्टश्वराचरगुरो ! मनुना यथोक्तम् ॥ ७०॥ गृह्णातु काममनलस्सकलं हविस्ते राज्ञो बलिं हरतु भागदुषः प्रजाभ्यः । पान शङ्कर ! निवेदितमम्बुजाक्षे नैशं हविस्फुटमदृश्यत पादयोस्ते ॥ ७९॥ सोमं त्वदर्थमनुशुश्रुम सूर्यमान आलमनं पशुपते ! नियतं पशूनाम् । गव्यं च ते गवि सदेव तदध्वरेषु चण्डेश्वरेण सह नाकसदां विवादः ॥ ७२॥ उत्पत्तितश्शिव ! गृहीतसमन्वयास्ते सोमः पशुर्गवि च सन्ति हवींषितानि । देवाः पशौ हविषि भागमनुज्ञेया ते गृहन्ति तद्वदितरेष्वपि कल्पनीयम् ॥ ७३॥ कर्मैकमेब न परं पशुबन्धनं ते कर्तव्यमाहुरुपलभ्य तवाभ्यनुज्ञाम् । सर्वेषु कर्मसु भवत्प्रसवेन पुंसा- मारम्भणं प्रपदमन्त्रविदो गृणन्ति ॥ ७४॥ सङ्कल्पतः प्रभृति यज्ञतनुं विभज्य देवान्प्रजापतिमुखान्प्रति दर्शयन्तः । सोमाहुति हुतवहाचिषि हूयमाना- मध्वर्यवस्तव गृणन्ति गिरीश ! भागम् ॥ ७५॥ सबै धन धनपते रुपभुक्तशिष्टं यद्देवतातिथिसमाश्रितभृत्यवगैः । यज्ञेश यज्ञपरिशिष्टमपि त्वदीय- मन्थिग्रहव्यतिकरे भवता यथोक्तम् ॥ ७६॥ गव्येन सोमहविषा चरुमिश्र पक्कैः साध्यान्त्रिसप्त सुनयो विभजन्ति यज्ञान् । सर्वेषु तेष्वपि भवानविशेषतस्त्वां राजानमध्वरविधौ वयमामनामः ॥ ७७॥ अनिं प्रकाशयतु शङ्कर ! रुद्रवन्तं मन्त्रस्त्वमग्र इति वा तदनन्तरो वा । राजन्वती क्षितिरितीव विशेषणस्य नालं प्रतीपमपनेतुमिमौ प्रकर्षम् ॥ ७८॥ या रोहिणी भवति देव ! तदा त्वदीया तस्यां त्वदेकविषयौ विषमाक्ष ! दृष्टौ । मन्त्राविमौ तदिह यज्ञपतित्वमीश स्पष्टं त्वदेकविषयं प्रतियान्ति धीराः ॥ ७९॥ पित्रा कुमारमिव भृत्यमिवेश्वरेण शिष्यं गिरीश ! गुरुणेव गुणाधिकेन । अभि त्वया कृतविशेषण मूचिवांसौ मन्त्राविमौ गमयतः परभं प्रकर्षम् ॥ ८०॥ ऋक्संहिता वदति मेधपतिं भवन्तं राजानमध्वरविधेरयमाह मन्त्रः । त्वत्सूक्तमन्त्रगण मण्डनमौळिरत्नं रूपेण च त्वदमिधानगृहीतशक्तिः ॥ ८१॥ त्वत्कं पुरा मरणतस्तनयित्नुकल्पा दाकारणं परमकारुणिक ! ब्रुवाणः मन्त्रोऽयमाव इति यावदुपक्रमायाः मूलं महेश ! विदितं शिवधर्मसूक्तेः ॥ ८२॥ भीमोऽसि शङ्कर ! मृगो नु निदर्शनं ते तेजोभिरुच्चलितसूर्यसहस्रकल्पैः । अक्रोधनस्मितमुखोऽपि निजानुभावात् आपाततस्तनुभृतां नृपतिर्भयाय ॥ ८३॥ अभ्युद्यत गिरिश ! वज्रमधीमहे त्वां त्वद्विभ्यतः पवनभानुकृशानुशक्राः । मृत्युश्च तत्तदधिकारभृततथान्ये । ब्रह्मत्वलक्षणमयं भयहेतुभावः ॥ ८४॥ घोरा शिवा च भगवन्नुभयी तनुस्ते घोरा भिषज्यति भवार्तमुपास्यमाना । अन्या भिषग्जनकृतां रुजमीक्षमाणा दृष्ट्या ददाति शिवता मशिवात्मनोऽपि ॥ ८५॥ घोरान्नमो विदधतश्शमयन्ति रुद्रै- रार्ता हि घोरमुपयान्ति चिकित्सितारम् । प्रीणन्ति शङ्कर ! शिवां चमकानुवाकै- र्होमस्य यत्तव भवन्त्युभयेऽपि मन्त्राः ॥ ८६॥ विष्णुप्रजापतिपुरन्दरपूर्वकेषु वाजादितुल्पमितरेष्वपि दैवतेषु । आशंसितेषु चमकाः परिशिष्यमाणं दातारमीश्वर ! भवन्तसंशब्दमाहुः ॥ ८७॥ युक्तं नमानयितुमीश्वर ! सन्निधौ ते देवान्तराणि महतामिव मर्त्यमात्रम् । अन्तर्द्धिमध्वरविधौ तदपेक्षमाणाः त्वत्कर्मसीम्नि परिषेचनमाचरन्ति ॥ ८८॥ आत्मान्तराणि पशवः परतन्त्रभावात् स्वातन्त्र्यतः पशुपते ! पतिरीश्वर ! त्वम् । आत्मानमौपनिषदाः प्रवदन्त्यनीश- मीशं भवन्तमुभयोरुभयं स्वभावः ॥ ८९॥ सम्प्राप्त एव सति शङ्कर ! पाशुपत्ये कस्मै वरेण्य । वरणं कृपणोचितं ते । विध्यर्थमध्ययनचोदनयागृहीता जल्पन्ति यत्किमपि वन्दिवदर्थवादाः ॥ ९०॥ नानापदानवचनादपि चारणीयः त्वत्पाशुपत्यवरणप्रतिलम्भवादः । लब्धुं वरीतुमथवा कथमेक एव वारान्बहूनपि महेश्वर ! शक्यतेऽर्थः ॥ ९१॥ अस्थिरेमिरिति रूपमनश्वरन्ते भूरीणि तानि च भुजङ्गममालभारिन् ! । मन्त्रेण चान्तरिति युष्मदुपासकाना मार्वेदिका यदशनं तदमोघमाहुः ॥ ९२॥ भावोपपन्त्रमनसां त्वदुपासकानां पुंसाममोघमशनं भगवन्ब्रुवाणः । मन्त्रोऽयमन्तरिति नः प्रतिभातिमूलं प्राग्भुक्तमर्चनविधेरनुवासरं ते ॥ ९३॥ नाथ ! त्वया पितृमतो मरुतस्तुवानाः त्वामामनन्ति भरतं नटनामियोगात् । वैशेषिके सति खलु व्यपदेशहेतौ साधारणेन भरणेन न कश्चिदर्थः ॥ ९४॥ हिंसाप्रतीतिरभिमानपदैकदेशात शब्दादमेरिति भयेन सुमुद्रपन्ति । कामान्तकत्रिपुरदक्षमखादिभङ्ग विख्यातविक्रमतया कथितोऽसि वीरः ॥ ९५॥ हिंसामिधातृपदसन्निधिना ज्वरार्थं रुद्रेति नाम परिशङ्क्य पररावयन्तः । मन्त्रे यथान इति मङ्गळवाचि दृष्ट- न्देवेश ! रुद्रियपदं पुनरावपन्ति ॥ ९६॥ शाखासु शङ्कर ! सहस्रतयीषु साम्ना- माम्नायते तब न केवलमानुभावः । सर्वात्मनामधिपतेर विशेषतस्ते देवव्रतादिषु गणाः कथितानुभावाः ॥ ९७॥ स्कन्द विनायकमुभावपि ते कुसारौ सर्वैर्गुणैः पितरमेव निदर्शयन्तौ । सामोपगायमुपगायमृचां गणेषु सम्प्रीणयन्ति शिव ! सामविधौ यथोक्तम् ॥ ९८॥ ब्रह्मादिकं सकलमन्यदपोध पुंसां ध्यातव्यमेकमभिधाय शिवङ्करं त्वाम् । बक्तव्यमन्यदनपेक्ष्य विमोक्षहेतु- माथर्वणः परिसमाप्तिमुवाचं वेदः ॥ ९९॥ यामामनन्ति तब शङ्कर ! धर्मदारान् अध्वर्यवस्सहजतिद्वतया स्वसारम् । आथर्वणा यदुपसृष्टतया भवन्तं ध्यातव्यमाहुरपहाय पितामहादीन् ॥ १००॥ एकश्श्रुतोऽसि परमेश्वर ! सद्वितीयं मन्त्रा यया व्यपदिशति पुनः पुनत्स्वाम् । तस्याः प्रभावमतिवायनर्स शिवायाः कात्स्येण वक्तुमनलं कमलासनोऽपि ॥ १०१॥ एकं मुर्ख त्रितयमीश्वर ! लोचनानां (लोचनं च) चत्वारि दींषि विशदं वपुरद्भुतं ते । नित्यं तदेव भजतामुपकारहेतोः नाना भवन्ति तनवस्तव दिव्यरूपाः ॥ १०२॥ कैरातमीश्वर ! पिनाकधरं वपुस्ते कृत्तिं वसानमुमया सह धर्मदारैः । आराधयन्ति खलु पर्वणि साकमेघे पुण्यैखियम्बक हविभिरनन्यभावाः ॥ १०३॥ मीढ्वांसमन्तविनिवेशितमीढुषीक- मन्तर्जयन्तमजरामरविग्रहं त्वाम् । त्वद्वारपं दयितया सह देवसेन क्षेत्रस्य नाथमपि नाथ ! यजन्ति धन्याः ॥ १०४॥ पत्न्या समं सह गणैस्सह वा सुताभ्यां साधं तथा परिषदा विषमेक्षण ! त्वाम् । अध्यष्टमीतिथिनिशामुखमर्चयन्तः पापं तरन्त्यपि जयन्ति महेश ! मृत्युम् ॥ १०५॥ मन्त्रा भवन्ति विरळा विबुधान्तराणां सद्भाव एव शिव ! दर्शितशक्तयस्ते । त्वन्नामरूपगुणवर्णनलब्धवर्णा मन्त्रा न शक्यमवगन्तुमियत्तया ते ॥ १०६॥ रुद्रानुवाकपठितानि परस्सहस्रं नामानि दिव्यमपि रूपमनेकशस्ते । शक्यं गुणा गणयितुं गणना यदि स्यात् भौमेषु पांसुषु विना तव देव ! मायाम् ॥ १०७॥ वेदस्स्वयं भवतु वा तत्र वा प्रणीति- स्सर्वः प्रमाणमविहाय गृणाति लोकः । तत्तत्प्रवक्तृगुणदर्शिततारतम्य- मन्यत्प्रमाणमविरोधिनि वेदवाक्ये ॥ १०८॥ बेदाः प्रमाणमिति सङ्गिरमाण एव दिव्यं तवागममवैति जनः प्रमाणम् । त्वद्ध्यानवाक्यविषयौपयिकैः पदार्थे- रामूर्द्धमाकलितविग्रहमाच मूलात् ॥ १०९॥ ध्यानं यथा भवति तद्विषयो यथा त्वं यादृग्गुणश्च भगवन्नधिका रिवर्गः । सर्वाणि तानि भवदागमसंहिताभिः कल्पैरिवाध्वरविधेरुपपादितानि ॥ ११०॥ अध्वानमध्वपतिमध्वनि तारतम्यं श्रेष्ठाध्वपारगमनं च फलं ब्रवीति । मन्त्रोऽध्वनामिति महेश्वर ! गृह्यकारः पिता कुमारमुपनीय वदन्हि वाक्यम् ॥ १११॥ कल्पाः प्रमाणसृषिभिर्यदि नः प्रणीताः किन प्रमाणभूषिणा महता वहर्षे ! । शक्यं न वक्तुवपरिग्रहदूषितानि तन्त्रान्तराणि भवता शिव । कर्तृमन्ति ॥ ११२॥ आचक्षते यमृषिमार्षविदस्तपोभि- रेकैकमन्त्रदृशमीश्वर ! वेदराशेः । द्रष्टारमस्य निविलेन निजानुभावात् अन्यानृषीनति महर्षिमतो विदुस्त्वाम् ॥ ११३॥ उक्त प्रधान पुरुषेश्वरमेव साङ्ख्यै- राख्याय पाशपशुपत्यभिधानभेदात् । ज्ञेयं त्वदागमविदश्शिव ! सङ्गिरन्ता- मेतावता किमिति नस्तदुपेक्षणीयम् ॥ ११४॥ प्रत्यक्षवेदविहितं प्रथितं पुराणैः बोधायनेन मुनिना बहशः प्रणीतम् । सर्वार्थदर्शनपरैरपि गृह्यकारैः यज्ञोपवीतमिव विस्मृतमर्चनन्ते ॥ ११५॥ वेदोपवृक्षक पुराणवचः प्रपञ्चै- राघोष्यते विषमनेत्र । समर्चनन्ते । तन्त्रैरलं तदुपबृझकवेदमूलैः वात्याहतं न हि मुखानिलसव्यपेक्षम् ॥ ११६॥ वेदार्थनिर्णयविधौ हि पुराणमङ्गं निर्णीतवेदविषया स्मृतयो भवन्ति । आतश्रुतेरिव पुराणगिरस्सकाशे नाले प्रकाशयितुमात्मबलावलेपम् ॥ ११७॥ मूलश्रुतेरनुपलम्भपराहतायाः दूतीव या न भवति स्वरसात्प्रमाणम् । प्रत्यक्षवेदविहितं यजनं त्वदीयं तस्या स्मृतेरपि किमिच्छति दृष्टिपातम् ॥ ११८॥ पौर्वाह्निकानुपदिश नियमान्यदेतत् अभ्यर्चन मनुरखोचत देवतायाः । तल्कि पुनस्तव महत्यसि देवता त्वं मृग्ये च काचशकले न मणेरुपेक्षा ॥ ११९॥ पत्न्या समं सह वृषेण वृषेन्द्रकेतो युष्मद्वलीनुपदिशन स्त्रिदशावकाशे । अभ्यर्चनं भवनकल्पनपूर्वकं ते बोधायनः कथितवानवयुत्य गृह्ये ॥ १२०॥ भावान्तराणि परिहाय महत्सु नित्यं विज्ञानयोगविभवेषु महीयसे यत् । देवो महानमिहितोऽसि ततः कपर्दिन् । नाम त्वदीयमिदमाङ्गिरसा निराहुः ॥ १२१॥ द्वेधा तवार्चन विधिस्तरुणेन्दु मौके ! कामाय कश्चिदपरो दुरितक्षयाय । अप्यग्निहोत्रमुभयं वयमामनामः स्वर्गाय यद्भवति यदुरितं क्षिणोति ॥ १२२॥ यद्ब्राह्मणस्त्वमसि नाकवतां निकाये तुभ्यं निवेदितमभोज्यमिति स्मरन्ति । उच्छिष्टमीश्वर विशिष्टमपि द्विजानां भूमौ निखेयमथत्राम्भसि मज्जनीयम् ॥ १२३॥ त्वं ब्राह्मणत्व दुपधावनमेव कार्यं तद्ब्रह्मणैस्त्वदितरे न भवन्त्युपास्याः । न ब्राह्मणानवरवर्णनिषेवणेन सम्भावयेम यदि नः प्रपदं प्रमाणम् ॥ १२४॥ उत्कर्षतः परिहरन्त्यपकर्षतो वा का वासना भवति कस्य कृते न विद्मः । यद्दीक्षितस्य पतितस्य च तुल्यरूषं प्रत्यादिशन्ति मुनयः कमनीयमन्त्रम् ॥ १२५॥ चण्डालचण्डिलचितानलशौण्डिकानां गोब्राह्मणज्वलनदीक्षितयोषितां च । स्वर्शः कया भवति वासनया निषिद्धः स्पृष्टेषु वा शिव ! कथा विहिता विशुद्धिः ॥ १२६॥ वर्ज्यान्नमाहुरपि दीक्षितसग्निकल्पं भोज्यानमेवकृतराजपरिक्रयं शङ्खास्थि पावनमपावनमस्थि नृणां तम् । इत्थं स्थिते वचनमत्र परायणन्त्रः ॥ १२७॥ अब्राह्मणैः क्षुदपधातकमस्तु भोज्यं यद्देवतान्तरनिवेदितमुक्त मन्त्रम् । तद्ब्राह्मणैरपि किमीश्वर ! वैश्वदेवे हार्यो बलिर्बलिमतामशितेन तेन ॥ १२८॥ देवान्तरैरशित मुक्त मर्नङ्गशासिन् अश्नन्ति चेदनशितेन बलिं हरन्तः । आग्यैकदेशविहितो बलिरन्यथासन नाल फलाय विपरीतफलाय तेषाम् ॥ १२९॥ ब्राह्मणमीश्वर ! पुरा हतवानसीति भिक्षाटनं विमृशतः प्रतिभानमात्रम् । यत्पञ्चमे शिरसि पुष्पसमं निकृत्ते जीवन्तमेनममितायुषमाहुराप्ताः ॥ १३०॥ आनाभिजानु वसितं बसनं न शाणं पाणौ कपालशकलं न विलोकितं ते । नालंवते शवशिरस्तव केतुयष्टौ भैक्षं न साम्प्तभवनं सकलं तदास्ताम् ॥ १३१॥ यत्कालभैरवकृतं पतनीयमेनः किं तेन ते भवति भैक्षमथापि वृत्तिः । तन्मध्यपातिनि वधे विषुधान्तरस्य निर्वेदमाचरसि किन्तु भवानजस्रम् ॥ १३२॥ यत्पाशुपत्यमवृणोदमरान्त रेभ्यो भिक्षां भवानकृतयत्परमेश्वरोऽपि । चोद्यं तदेतदुभयं परिहर्तुकामो मन्ये बृहस्पतिरपि प्रतिपत्तिशून्यः ॥ १३३॥ ब्रह्मासि विष्णुरसि सर्वमसीति यत्वा- मास्तामुपासनविधिं कथयन्ति मूढाः । तद्देवतान्तरनिकर्षनिगृहनाय मोहाय वा भवतु जल्पितमल्पबुद्धेः ॥ १३४॥ अद्वैतमागमशिरोभिरुपासनाया- मुक्तं तवेति परमार्थतथा न वाच्यम् । भेदस्फुठो गरुडमान्त्रिकयोरळीकं तादात्म्यभावनमथापि विष प्रमाष्ठि ॥ १३५॥ यद्ब्रह्मपञ्चमशिरोलवनापदानं यद्ब्रह्मणा च हरिणा च विमार्गणं ते । यद्वा तयोर्जनयितारमधीमहे त्यां तत्सर्वमीश्वर ! विमूढधियामसह्यम् ॥ १३६॥ सोमे लतात्मनि महेश्वर ! गौणवृत्या विष्णोरवादि जनकत्वमृचा कयापि । त्वय्येव तद्भवितुमर्हति मुख्यवृत्या नेन्द्रे न पङ्कजभवे नितरां मुरारौ ॥ १३७॥ अन्योन्यतो यदि भवेदहमीश्वरस्स्यां त्वं चाहमीश्वर ! किमत्र नियामकं नः । को वा विपर्यसितुमर्हति वस्तुशक्तिं तत्तत्स्वभावनियतां भवदाज्ञयापि ॥ १३८॥ एकं तवाप्यसुकरं तद्दाहरामो जातेन भाव्यममरान्तरवस्वयापि । अभ्यर्थितोऽपि हि महेश ! महर्षिदारै- रन्तर्हितस्त्वमसि गर्हितगर्भवासः ॥ १३९॥ इच्छावतीर्ण मुरशासनगर्भवासः स्याच्चेदुदाहरणमेप विमर्शनीयः । गर्ने वसामि परिवेष्टय जरायुणाऽहं मासान्बहूनिति महेश्वर ! कस्य कामः ॥ १४०॥ इच्छापि नूनमनुयाति पुरा कृतानि कर्माणि शङ्कर । शुभाशुभलक्षणानि । इच्छावतारवचनानि तु भारतादौ नारायणस्य गुणवादमुदाहरन्ति ॥ १४१॥ विधातारं कश्चिद्भजति भजते कञ्चन हरिं सुरानन्यानन्ये जगति सफलास्सर्वविधयः । तथापि त्वद्भक्तेश्शिव ! शिव ! यदा चर्मवदिति श्रुतो मन्त्रो देवान्तरभजनदैन्यं न सहते ॥ १४२॥ शशे भृङ्ग पुष्पं नभसि मृगतृष्णासु सलिलं प्रसूतिर्वन्ध्यांया मनवधिमदायुस्तनुभृताम् । विमुक्तिर्वा देवान्तरभजनलभ्या पशुपते ! न शक्यं नस्शम्भावयितुमपि सर्वं विमृशताम् ॥ १४३॥ न भिन्ना नौरन्यानलमुदनिधे रुद्गमयितुं शिला नैवोन्नेतुं प्रभवति शिलामन्तकरिपो ! । जनित्वा मृत्वा वा जगति परिवर्ती सुरगणः कथं मे संसारभ्रमणभयभाजस्तु शरणम् ॥ १४४॥ देवतान्तरपुनः पुनर्भवं पश्यतः पशुपते ! भयं मम । क्रीडतोऽपि तव जन्म मास्मभूत् दीयतामयमपश्चिमो वरः ॥ १४५॥ वासनापरिगृहीत देवता वर्णनौपयिकसर्ववाङ्मयम् । धिग्धिगीश्वर! जडाशयं जनं तावकैरहमसानि सङ्गतः ॥ १४६॥ पांसुकेळिरपि यस्य शैशवे शैवपाशुपतपादपांसुमिः । स्तोत्रकर्मणि न तस्य मे गुणः तद्गुणोऽयमुपपद्यते त्वयि ॥ १४७॥ स्तोत्री यमर्थमुपपादितवानहं ते भक्तति भक्तजनवत्सल ! भाषमाणः । आविर्धभूविथ शिखी शुचिनाम्वरेण यज्ञोपवीतमुपवीय धृतत्रिपुण्ड्रः ॥ १४८॥ भक्तं भवानदित पार्श्वचरोपनीतं मह्यं महेश्वर ! पयश्श्रपितं प्रसन्नम् । भुञ्जान एव तदहं झडितिप्रबुद्धः स्वमस्समाधिरिति युक्तघियमभिन्नः ॥ १४९॥ स्तोत्रमेतदवधाय गृह्णतां अर्थमस्य निखिलेन जानताम् । ग्राह्यमन्यदपि नावशिष्यते ज्ञेयमन्यदपि वा न किश्चन ॥ १५०॥ पञ्चाशदुत्तरशता श्रुतिसूक्तिमाला भोगावळी भुजगराजमनोहरा ते । वेदेषु भक्तिमपरागमवैदिकेपु तन्त्रेषु भक्तिमतुलां त्वयि च प्रसूते ॥ १५१॥ ॥ श्रीहरदत्तशिवाचार्यविरचिता श्रुतिसूक्तिमाला समाप्ता ॥ मिथ्या कल्पित भोगमोक्षदवचस्सन्तान सत्वापन व्याग्राणामचिर प्रभावविबुध प्रेम्णा महेशद्विषाम् । मूर्ध्निष्वेक दुरात्मनां विरचिता निर्धातवाताः परैः विद्वद्भिः परमेश्वर श्रुतिकथा तात्पर्य सङ्ग्राहकैः । तत्वप्रकाशिकाख्या व्याख्या शिवलिङ्ग भूभुजारचिता । प्रख्यात मेव भक्तिः पुरहरपादाम्बुजार्पिता सततम् ॥ अघटितघटनापटवे प्रकटित करुणाय गगन सिन्धु भृमे । वटतरुमूलस्थितये विघटित तमसे महेश्वराय नमः । । ॥ सर्व साम्बशिवार्पणमस्तु ॥ ॥ ॐ नमः शिर्वाय ॥ Proofread by Brahatha Mohan
% Text title            : Shri Haradattacharyakrita Shrutisuktimala
% File name             : haradattachAryakRRitAshrutisUktimAlA.itx
% itxtitle              : shrutisUktimAlA haradattachAryakRitA
% engtitle              : shrutisUktimAlA haradattachAryakRRitA
% Category              : deities_misc, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Haradattacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Brahatha Mohan
% Indexextra            : (Scans 1, 2, 3, Info 1, 2, 3)
% Latest update         : July 9, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org