श्री हरदत्तचार्यकृता श्रुतिसूक्तिमाला
यस्मै नमो भवति यस्य गुणाः समग्राः
नारायणोपनिपदा यदुपासनोक्ता ।
यो नः प्रचोदयति बुद्धिम धिक्रतौ यः
तं त्वामनन्यगतिरीश्वर संश्रयामि ॥ १॥
वेदेषु वा तदनुयायिषु वा विचार्य
तन्त्रेषु वाक्यमखिलं प्रतिपादकन्ते ।
तात्पर्य सङ्ग्रहमहं विदधे महेश !
मह्यं प्रसीद नय मामृजुना पथा त्वम् ॥ २॥
मन्त्रार्थवादविधिभिर्वहुधा विभक्तो
यश्शब्द राशिरनपेक्षतया प्रमाणम् ।
सोयं विमत्सरविमृष्टपदार्थतत्वो
वेदः प्रकाशयति केवलमीश्वरं त्वाम् ॥ ३॥
शब्दोयमीश्वर इति श्रुतिगोचरस्सन्
आनीलकण्ठमवर्तसिवचन्द्र लेखम् ।
त्वामेव बोधयति नाथ ! निजार्थपोषात्
अन्यं पुनः प्रकरणादि निपीडनेन ॥ ४॥
शब्दस्त वायमभिधानमनन्यशब्दो
नैघण्डुका श्शिवपदा दिवदेनमाहुः ।
वस्तु स्वभावकृतमेव तु पूज्यभावं
ब्रूते महेश्वर ! महान्परमञ्च शब्दः ॥ ५॥
यस्योपसर्जनमसौ परमो महान्वा
शब्दस्तदर्थममिधातुमलं प्रकृष्टम् ।
शब्देन पूज्यवचनेन समस्यमानः
पूजां ब्रवीति यदि शब्दविदः प्रमाणम् ॥ ६॥
नानीश्वरं भवितुमर्हति विश्वमेतत्
बडीश्वरच नितरामयथाप्रमाणम् ।
तल्लोक वेद विदितेश्वरवर्जनेन
कोयं भ्रमः कतिचिदीश्वरमन्यमाहुः ॥ ७॥
विश्वं निरीश्वरमिदं जगदाह साङ्ख्यो
योगश्च सेश्वरमुभावनुवादिनोऽन्ये ।
नत्वेव सम्भवति सेश्वरतां ब्रुवाण ः
पद्मासनादिभिरनीश्वरशब्दवाच्यैः ॥ ८॥
ऐश्वर्यमग्रचमनुपाधिनिबन्धनन्ते
यद्भूतनाथ ! नमसामपि पात्रमेकम् ।
तत्प्रायशश्श्रुतिषु दुर्लभमेव वाक्यं
मुक्त्या नमो भवति यत्र भवत्प्रसङ्गम् ॥ ९॥
देव ! त्वदेकविषयाणि नमांसि पुंसां
यस्मै नमश्श्रुतिबलादवधारयामः ।
देवान्तरेषु विहितान्यपि तान्यमूनि
स्रोतांसि सागर इव त्वयि सम्पतन्ति ॥ १०॥
यस्मै नमश्श्रुतिरन्म नमस्खिनन्त्वा-
मेका नियोजनमुवाच पशोः कपर्दिन् !
अन्या च दिव्य शिशुमाराशिरो भवन्तं
शक्यन्तदित्थमुभयेन नमो विधातुम् ॥ ११॥
श्रुत्योर्द्वयोरपि नमस्विनमुच्यमानं
त्वामेव तन्तमनुसन्दधतः प्रदेशम् ।
शंसन्ति मन्दमतयोऽपि किमापतन्तं
मध्यन्दिने हि सवितारमपन्हुवीरन् ॥ १२॥
कर्मैव शूलधर शलगवन्त्वदीयं
मन्त्रा भवन्तमखिलाः प्रतिपादयन्ति ।
त्वामन्तरेण नमसा कृतलक्षणाय
कस्मै पशु नियुनजानि नियोजय त्वम् ॥ १३॥
अङ्गान्तरेषु विबुधान्तरसंस्तुतेषु
यश्शिंशुमारशिरसः परिशिष्यसे त्वम् ।
तस्मै नमो भवितुमीश्वर साम्प्रतन्ते
देवान्तराय न कथञ्चिदनीश्वराय ॥ १४॥
या बज्रिणी भवति शङ्कर शङ्खनी या
मुद्रा च या कमलिनी भरतोपदिष्टा ।
ताभिर्भवन्त्यमिनया विबुधान्तराणां
मौळिस्पृशा करपुटाञ्जलिमुद्रया ते ॥ १५॥
दत्तन्नमः किमपिशुश्रुम देवताभ्यः
त्वामन्तरेण नमसामवसानभूमिम् ।
तास्तद्ग्रहीतुमनलन्न हि कश्चिदीष्टे
चोरोपनीतमिव धारयितुं किरीटम् ॥ १६॥
तस्मै नमो भवतु यत्र निषीदसीति
सर्वं नमस्यमनया तु दिशा महेश !
अप्योषधीः प्रति नमो वयमामनामो
देहीव देहमधितिष्ठसि येन सर्वम् ॥ १७॥
सर्वं त्वया जगदघिष्ठितमेव मत्वा
श्वान श्रुतौ नमसिताः पतयश्व तेषाम् ।
लोके पुनस्तव महेश्वर ! भक्तियोगात्
आरोपिता अपि वयं बहुमानपात्रम् ॥ १८॥
द्वेधा नमो विमृशतः प्रतिभाति लोके
वेदेषु वा विषमलोचन ! नान्यरूपम् ।
यत्तन्नमस्त्वयि तदीश्वरताप्रयुक्तं
त्वत्सन्निकर्षविहितं यदनीश्वरेषु ॥ १९॥
त्वत्सन्निकर्षकृत एव नमः प्रयोगः
प्रायो बसीयसि यवीयसि दृश्यमानः ।
श्रेष्ठप्रयुक्त इति कल्पयितुं न शक्य-
मश्रेयसामपि नमांसि निदर्शितानि ॥ २०॥
श्रेष्ठ्यप्रयुक्तमषि नाम नमस्त्वदीयं
श्रेष्ठोऽसि यः ऋतुभुजां पतिरनियानाम् ।
श्रेष्ठश्रुतोऽसि भगवन्नविशेषतस्त्वं
मन्त्रेषु कृच्छ्रपठितेषु च सामगानाम् ॥ २१॥
देवान्तरस्सह नमस्तुतिह्तयस्ते
तोषाय नालमलमेव विपर्ययाय ।
पुत्रार्थिनवरुविधौ सह चन्द्रमौळे !
सोमेन हूतमनुशुश्रम रुद्रमझिम् ॥ २२॥
अनिं प्रकृत्य खलु रुद्रपदं प्रयुङ्क्ते
तद्ब्राह्मणं भवति यत्र तयोस्सहूतिः ।
आह्वानमत्र भवतः पृथगेव दृष्टं
यत्प्रातरग्निमिति सूक्तविदः पठन्ति ॥ २३॥
अग्न्यादिभिस्तव महेश्वर ! इतिशङ्का
माभूदिति प्रकृतमप्यनुषङ्गोग्यम् ।
मन्त्रः क्रियापदमपास्थ पदान्तरेण
त्वमाह्वयन्नुतपदेन मिनत्ति रीतिम् ॥ २४॥
न्यासीकृतं वसु बलादमरैरवाप्तु-
मन्वागतो रुदितवानिति रुद्रमग्निम् ।
रुद्रस्त्वदुद्भवतया मरुतो गणान्वा
रुद्रावणेन च भवन्तमवैमि रुद्रम् ॥ २५॥
यज्ञेऽपि रुद्रपदमारुणकेतुकोक्तं
तच्छब्दमीश्वर ! तदीयमपि स्मरन्ति ।
यत्तत्प्रदेशगतरुद्रपदावकाशे
यज्ञस्य शब्दमनुशुश्रुम सामगेभ्यः ॥ २६॥
सन्ताप्य रोन्दयितरि प्रसभं जनाना-
माहुर्ज्वरेऽपि विषमेक्षण । रुद्रशब्दम् ।
रौद्रश्च तत्प्रकृतिकं प्रतिरूपकं वा
शब्दान्तरं भवति वायसशब्दकल्पम् ॥ २७॥
सन्त्येव तद्धितपदप्रतिरूपकाणि
भूरीणि भागवतसात्वतसन्निभानि ।
स्यात्ताहगेव भगवानिति शब्दरूपं
षाइगुण्यहेतुकमपि त्वदुपैति नान्यम् ॥ २८॥
ऐश्वर्यमग्रथमनुपाघिमती च लक्ष्मीः
ज्ञानं च वीर्ययशसी च विरागता च ।
एते गुणाः षडपि ते भगसंज्ञयोक्ताः
सन्तीत्यनेन भगवन् ! भगवानसि त्वम् ॥ २९॥
ऐश्वर्यमीश्वरपदश्रुतिरुग्रशब्दो
वीर्यं यशश्शिवपदं च तवाभिधत्ते ।
सर्वज्ञकामरिपुशब्दसमर्थितौ च
सार्वज्ञरागविरहौ भवतः पुरारे ॥॥ ३०॥
अर्थरिश्रया शिव ! न कोऽपि विरज्यस्ते
श्रेष्ठस्तया त्वमसि दाशतयीभिरुक्तः ।
लब्धुं श्रियं जनिम चारुविचित्ररूप
अभ्यचितं तत्र मरुद्भिरुदाहन्ति ॥ ३१॥
सत्यं क्षमा धृतिराधेष्ठितिरात्मबोधः
सृष्टिविंरागतपसी मतिरीश्वरत्वम् ।
नत्वद्वियन्ति न कदाचिदपैति धर्मः
किन्तन्नयद्भवति ते गुणसम्मतेषु ॥ ३२॥
नैवेश्वरान्नयशसा महतो न वीरान्
न श्रीमतः क्षितिपतीनपि सार्वभौमान् ।
अन्यादृशानपि महेश्वर ! वीतरागान्न्
प्रज्ञावतो भगवतः प्रवदन्ति वृद्धाः ॥ ३३॥
आथर्वाणा मदनशासन ! निब्रुवागा ः
नामानि नाम भगवानिति ते निराहुः ।
अत्याश्रमोपनिषदाह भगेश्वरं त्वां
नैघण्टुकाच भगवन्तमुशन्ति पूज्यम् ॥ ३४॥
पूजा तमुष्टुहिवता विहिता महेश
मन्त्रेण वाङ्मनसकाय निबन्धना ते ।
सर्वामिरप्युपनिषद्भिरुपासनोक्ता
नारायणोपनिषदं परिभावयामः ॥ ३५॥
वाक्यं यदाह दहरान्तरुपासनन्ते
यद्वा समर्पयति रूपविशेषमस्मै ।
अन्तर्गतैरपि तदौपयिकाभिधेयैः
भाव्यं वचोभिरिति वाक्यविदां प्रवादः ॥ ३६॥
नारायणस्य यदुपास्यतयाऽभिधानं
यद्वा फलन्तदिह नोपलमे कथञ्चित् ।
उत्पत्तिशिष्टभवदन्वयमन्यगामि
शक्यं महेश्वर ! न कर्तुमुपासनन्ते ॥ ३७॥
नासाबुपासनमुपास्यकथैव दूरे
तस्मादुपासकतया परिशेषसिद्धिः ।
अन्तर्व्यवस्थितगिरा परमात्मनस्ते
शब्दातेऽपि विहितं तदुपासकत्वम् ॥ ३८॥
यस्य स्थितोऽसि हृदये परमस्त्वमात्मा
युक्तन्न तस्य परमात्मतयाऽभिधानम् ।
स्वेन स्वयं मनसि वह्निशिखान्तराळे
तिष्टन्नुपास्य इति हास्यपदं न कस्य ॥ ३९॥
नारायणस्य हृदयं सुषिरं महाग्नि-
रग्नेशिखा च परमात्मपदं यदुक्तम् ।
सर्वोप्युपासनविधेरयमर्थवादः
श्रद्धा विशिष्ट पुरुषाचरणा द्विधेये ॥ ४०॥
नारायणप्रकरणे हृदयं यदुक्तं
तस्यैव तद्भवितुमर्हति नापरेषाम् ।
दृष्टं यतिप्रकरणे यतिमिर्गृहीत
पूर्वानुवाकविहितं यदुपासनन्ते ॥ ४१॥
ब्रह्मोच्यते परमसौ परभं च तत्वं
ज्योतिः परं च परमेश्वर ! पद्मनाभः ।
त्वद्भावनैकरसिकस्त्वदनन्यभावात्
मन्त्री यथा गरुडभावनया गरुत्मान् ॥ ४२॥
गीतासु योगजविभूतिविभावनाय
नारायणश्शिवपदं प्रतिवाचमूचे ।
योगन्निशायय महेश्वरगोचरं मे
दिव्यं ददामि तव चक्षुरिति प्रसन्नः ॥ ४३॥
त्वामन्तरेण न कथञ्चिदुपासनीय-
मन्यं ब्रवीति सशिवस्तुतिरन्तकारे !
यद्ब्रह्मशब्दसमभिव्यवहारयोगात्
संहारकारिणिहरे शिवशब्दमाहुः ॥ ४४॥
विश्वाधिकस्त्वमसि विश्वमयं मुरारिः
यज्ञेश्वरस्त्वमसि यज्ञममुं गृणन्ति ।
आद्या जगत्प्रकृतिरेषभवान्निमित्त-
मातः कथन्नु भगवन्युयोरभेदः ॥ ४५॥
विश्वात्मनस्तुतिषु विश्वपतित्ववादः
सङ्गच्छते स्तुतितयैव रथाङ्गपाणेः
विश्वस्यपत्युरथ विश्वतयाभिधानं
नालं गुणाय गुणगृह्यनिकर्षहेतुः ॥ ४६॥
विश्वं महेश्वर ! भवानधितिष्टतीति
विश्वात्मताम्रपचरन्ति यदागमास्ते ।
तत्पण्डिता बिदितवेदरहस्यशीला ः
जानन्ति मन्दमतयस्तु तदेव सत्यम् ॥ ४७॥
तुभ्यं नमो विद्धदीश्वर ! तन्तमर्थ-
मातिष्ठते सकलकर्मसु विश्वदर्शी ।
सर्वानुवाद मिद मुक्तसमर्थनाय
कात्यायनो मुनिरुदाहरति स्म गृह्ये ॥ ४८॥
स्थानं यदान्तरभुपास्तिरुपासको वा
या सा परा परतया विविधा विभूतिः ।
यद्वा पुनर्विपमनेत्रमुपासितव्यं
नारायणोपनिषदाह तदत्र सर्वम् ॥ ४९॥
यज्ञात्मना स्वयमसावृषिणोपदिष्टा
नारायणेन भवतः प्रतिपादयित्री ।
सूक्तं यथा पुरुषदैवतमन्तकारे
नारायणार्षमिति तद्वयपदिष्टमाहुः ॥ ५०॥
एषा महोपनिषदाह हिरण्यगर्भं
जातं त्वदेव भगवन् प्रथमं सुराणाम् ।
नारायणाभिजनमे नमथापि मन्दाः
शंसन्ति तत्र भवतः कतिचित्प्रसूतिम् ॥ ५१॥
मध्ये ललाटमरविन्दभुवः क्षणेन
दृष्टो भवानिति क एवं निकर्षवादः ।
योगादिरूढमनसश्शिव ! मादृशोऽपि
स्थानेषु पञ्चसु न कस्य तवोपलम्भः ॥ ५२॥
ब्रह्माणि पञ्चतन वश्शिव मन्त्ररूपा
जीवातवः पशुपते ! शिवसंहितानाम् ।
रुद्रेषु पुण्यमिव पञ्चकमक्षराणा-
मस्यां महोपनिषदीति महत्ववादः ॥ ५३॥
विद्येश्वरस्त्यससि भूतपतिस्त्वमेकः
स्रष्टुर्भवानधिपतिस्सृजति प्रपञ्चम् ।
यद् ब्राह्मणान्प्रति तव श्रुतमाधिपत्ये
तद्ब्रह्मणो मम सदाशिव जन्मलाभः ॥ ५४॥
विद्येश्वरत्वपुनरुक्ततया न वाच्यं
बेदाधिपत्यमयमेव महेश । वेदः ।
विद्या भवन्ति शतशः प्रविभज्यमानाः
स्रोतांसि किन्न सरितेव पृथक् कृतानि ॥ ५५॥
आदित्यमृग्यजुषसामनिधानकोशे
बिम्बे निविष्टमघितिष्ठति पूरुषो यः ।
एषा तमेष इति साभिनया भवन्तं
भृताधिपत्यवचनेन शशंस नाम्ना ॥ ५६॥
उक्तो हिरण्यपतिरेष हिरण्यबाहु-
रुक्तोऽम्बिकापतिरुमापतिरेष उक्तः ।
आहुर्भवन्तमधिदैवतमुष्णरश्मे-
रातस्तदर्चनविधौ भगवन्नभिज्ञाः ॥ ५७॥
यो मण्डलं तपति यश्च तदन्तरात्मा
या चानयोर्भवति भूतपते ! विभूतिः ।
जानान एतदपि यत्फलमश्रुते च
सर्वं यथावदिह तत्कथितं क्रमेण ॥ ५८॥
मा नाम भूदखिलमन्यदिमं प्रदेश-
मध्यापितास्तदिति मन्त्रविदो भवन्ति ।
वाच्यः किमस्य सविता सवितुर्वरेण्यः
किं वा भवानिति वितर्कपदं न तेषाम् ॥ ५९॥
भास्वन्तमेष विषयी कुरुते न मन्त्रः
शक्नोति वक्तुमधिदैवतमीश्वरं त्वाम् ।
यस्मादयं त्वयि निरोहति भर्गशब्दः
प्रज्ञाप्रचोदकतया तदधीयसे त्वम् ॥ ६०॥
सान्तोऽयमन्तकरिपो ! यदि भर्गशब्दो
यत्तत्पदद्वयमनन्वयि लिङ्गभेदात् ।
अन्वेषये दुभयमन्यदभिच्चलिङ्ग-
मश्रूयम्माणभसमञ्जस एष पेक्षः ॥ ६१॥
शब्दस्मृतिर्ह्यसुनि वा घनि वा पदान्ते
युक्त वदत्युभयथा स्वरमायुदात्तम् ।
व्यत्यस्तकारकमवैमि पदं घञन्तं
मैत्रायणश्रुतिपराहतसान्तभावम् ॥ ६२॥
मैत्रायणतिरस तदिति प्रकृत्य
भर्ग भवन्तममिधाय विचिन्तनीयम् ।
रुद्रस्य भर्गपदगोचरतां ब्रुवाणा
सान्तं प्रतिक्षिपति भर्गपदं पुरारे ! ॥ ६३॥
सान्तं पदं तदपि नैव ददाति वक्तुं
यद्राह्मणन्तलवकारिण आमनन्ति ।
प्रश्नोत्तरक्रमनिरूषितपूर्वपाद
पादं द्वितीयमपि भर्गमयं ब्रवीति ॥ ६४॥
भर्गः प्रचोदयति यो घियमस्मदीयां
तं धीमहीति घटना विनिमाय लिङ्गम् ।
वाव्यस्य भर्ग भवतस्खपदाभिधानं
भर्गाख्यमित्यपि च साम्बवचोनुरोधः ॥ ६५॥
त्यामेव मन्त्रोपनिषत्रवीति
तदित्यूचोऽस्याः प्रतिपाद्यमर्थम् ।
तदक्षरं तत्सवितुर्वरेण्यं
प्रज्ञा च तस्मात्प्रसृता पुराणी ॥ ६६॥
भार्गोऽपि सन्सवितृशब्दसमन्वयेन
सावित्रतामपि विगाहत एव मन्त्रः ।
तत्तत्पदान्वयवशेन महेश ! मन्त्रान्
तद्देवतानपि हि मन्त्रविदः पठन्ति ॥॥ ६७॥
अप्यर्कदैवतवती मृचमामनामः
शब्देनविश्व इति शङ्कर ! वेश्वदेवीम् ।
पिच्याञ्च मर्त इति पुष्यपदेन पौष्णी-
मेतादृशानि कति नाम निदर्शनानि ॥ ६८॥
एषा गतिश्श्रुतिगिरा मिति निर्णयेन
ततद्ग्रहार्चनविधौ मुनयस्स्मरन्ति ।
मन्त्रेण शङ्कर । शनेश्श मुपक्रमेण
बुध्यस्खशब्दसहितेन बुधस्य पूजाम् ॥ ६९॥
आम्नायमृग्यजुषसामविधं विचिन्त्य
सारं समुद्धृतवता परमेष्ठिनापि ।
मन्त्र स्त्रिपादयमदृष्टविधान्तरेण
दृष्टश्वराचरगुरो ! मनुना यथोक्तम् ॥ ७०॥
गृह्णातु काममनलस्सकलं हविस्ते
राज्ञो बलिं हरतु भागदुषः प्रजाभ्यः ।
पान शङ्कर ! निवेदितमम्बुजाक्षे
नैशं हविस्फुटमदृश्यत पादयोस्ते ॥ ७९॥
सोमं त्वदर्थमनुशुश्रुम सूर्यमान
आलमनं पशुपते ! नियतं पशूनाम् ।
गव्यं च ते गवि सदेव तदध्वरेषु
चण्डेश्वरेण सह नाकसदां विवादः ॥ ७२॥
उत्पत्तितश्शिव ! गृहीतसमन्वयास्ते
सोमः पशुर्गवि च सन्ति हवींषितानि ।
देवाः पशौ हविषि भागमनुज्ञेया ते
गृहन्ति तद्वदितरेष्वपि कल्पनीयम् ॥ ७३॥
कर्मैकमेब न परं पशुबन्धनं ते
कर्तव्यमाहुरुपलभ्य तवाभ्यनुज्ञाम् ।
सर्वेषु कर्मसु भवत्प्रसवेन पुंसा-
मारम्भणं प्रपदमन्त्रविदो गृणन्ति ॥ ७४॥
सङ्कल्पतः प्रभृति यज्ञतनुं विभज्य
देवान्प्रजापतिमुखान्प्रति दर्शयन्तः ।
सोमाहुति हुतवहाचिषि हूयमाना-
मध्वर्यवस्तव गृणन्ति गिरीश ! भागम् ॥ ७५॥
सबै धन धनपते रुपभुक्तशिष्टं
यद्देवतातिथिसमाश्रितभृत्यवगैः ।
यज्ञेश यज्ञपरिशिष्टमपि त्वदीय-
मन्थिग्रहव्यतिकरे भवता यथोक्तम् ॥ ७६॥
गव्येन सोमहविषा चरुमिश्र पक्कैः
साध्यान्त्रिसप्त सुनयो विभजन्ति यज्ञान् ।
सर्वेषु तेष्वपि भवानविशेषतस्त्वां
राजानमध्वरविधौ वयमामनामः ॥ ७७॥
अनिं प्रकाशयतु शङ्कर ! रुद्रवन्तं
मन्त्रस्त्वमग्र इति वा तदनन्तरो वा ।
राजन्वती क्षितिरितीव विशेषणस्य
नालं प्रतीपमपनेतुमिमौ प्रकर्षम् ॥ ७८॥
या रोहिणी भवति देव ! तदा त्वदीया
तस्यां त्वदेकविषयौ विषमाक्ष ! दृष्टौ ।
मन्त्राविमौ तदिह यज्ञपतित्वमीश
स्पष्टं त्वदेकविषयं प्रतियान्ति धीराः ॥ ७९॥
पित्रा कुमारमिव भृत्यमिवेश्वरेण
शिष्यं गिरीश ! गुरुणेव गुणाधिकेन ।
अभि त्वया कृतविशेषण मूचिवांसौ
मन्त्राविमौ गमयतः परभं प्रकर्षम् ॥ ८०॥
ऋक्संहिता वदति मेधपतिं भवन्तं
राजानमध्वरविधेरयमाह मन्त्रः ।
त्वत्सूक्तमन्त्रगण मण्डनमौळिरत्नं
रूपेण च त्वदमिधानगृहीतशक्तिः ॥ ८१॥
त्वत्कं पुरा मरणतस्तनयित्नुकल्पा
दाकारणं परमकारुणिक ! ब्रुवाणः
मन्त्रोऽयमाव इति यावदुपक्रमायाः
मूलं महेश ! विदितं शिवधर्मसूक्तेः ॥ ८२॥
भीमोऽसि शङ्कर ! मृगो नु निदर्शनं ते
तेजोभिरुच्चलितसूर्यसहस्रकल्पैः ।
अक्रोधनस्मितमुखोऽपि निजानुभावात्
आपाततस्तनुभृतां नृपतिर्भयाय ॥ ८३॥
अभ्युद्यत गिरिश ! वज्रमधीमहे त्वां
त्वद्विभ्यतः पवनभानुकृशानुशक्राः ।
मृत्युश्च तत्तदधिकारभृततथान्ये ।
ब्रह्मत्वलक्षणमयं भयहेतुभावः ॥ ८४॥
घोरा शिवा च भगवन्नुभयी तनुस्ते
घोरा भिषज्यति भवार्तमुपास्यमाना ।
अन्या भिषग्जनकृतां रुजमीक्षमाणा
दृष्ट्या ददाति शिवता मशिवात्मनोऽपि ॥ ८५॥
घोरान्नमो विदधतश्शमयन्ति रुद्रै-
रार्ता हि घोरमुपयान्ति चिकित्सितारम् ।
प्रीणन्ति शङ्कर ! शिवां चमकानुवाकै-
र्होमस्य यत्तव भवन्त्युभयेऽपि मन्त्राः ॥ ८६॥
विष्णुप्रजापतिपुरन्दरपूर्वकेषु
वाजादितुल्पमितरेष्वपि दैवतेषु ।
आशंसितेषु चमकाः परिशिष्यमाणं
दातारमीश्वर ! भवन्तसंशब्दमाहुः ॥ ८७॥
युक्तं नमानयितुमीश्वर ! सन्निधौ ते
देवान्तराणि महतामिव मर्त्यमात्रम् ।
अन्तर्द्धिमध्वरविधौ तदपेक्षमाणाः
त्वत्कर्मसीम्नि परिषेचनमाचरन्ति ॥ ८८॥
आत्मान्तराणि पशवः परतन्त्रभावात्
स्वातन्त्र्यतः पशुपते ! पतिरीश्वर ! त्वम् ।
आत्मानमौपनिषदाः प्रवदन्त्यनीश-
मीशं भवन्तमुभयोरुभयं स्वभावः ॥ ८९॥
सम्प्राप्त एव सति शङ्कर ! पाशुपत्ये
कस्मै वरेण्य । वरणं कृपणोचितं ते ।
विध्यर्थमध्ययनचोदनयागृहीता
जल्पन्ति यत्किमपि वन्दिवदर्थवादाः ॥ ९०॥
नानापदानवचनादपि चारणीयः
त्वत्पाशुपत्यवरणप्रतिलम्भवादः ।
लब्धुं वरीतुमथवा कथमेक एव
वारान्बहूनपि महेश्वर ! शक्यतेऽर्थः ॥ ९१॥
अस्थिरेमिरिति रूपमनश्वरन्ते
भूरीणि तानि च भुजङ्गममालभारिन् ! ।
मन्त्रेण चान्तरिति युष्मदुपासकाना
मार्वेदिका यदशनं तदमोघमाहुः ॥ ९२॥
भावोपपन्त्रमनसां त्वदुपासकानां
पुंसाममोघमशनं भगवन्ब्रुवाणः ।
मन्त्रोऽयमन्तरिति नः प्रतिभातिमूलं
प्राग्भुक्तमर्चनविधेरनुवासरं ते ॥ ९३॥
नाथ ! त्वया पितृमतो मरुतस्तुवानाः
त्वामामनन्ति भरतं नटनामियोगात् ।
वैशेषिके सति खलु व्यपदेशहेतौ
साधारणेन भरणेन न कश्चिदर्थः ॥ ९४॥
हिंसाप्रतीतिरभिमानपदैकदेशात
शब्दादमेरिति भयेन सुमुद्रपन्ति ।
कामान्तकत्रिपुरदक्षमखादिभङ्ग
विख्यातविक्रमतया कथितोऽसि वीरः ॥ ९५॥
हिंसामिधातृपदसन्निधिना ज्वरार्थं
रुद्रेति नाम परिशङ्क्य पररावयन्तः ।
मन्त्रे यथान इति मङ्गळवाचि दृष्ट-
न्देवेश ! रुद्रियपदं पुनरावपन्ति ॥ ९६॥
शाखासु शङ्कर ! सहस्रतयीषु साम्ना-
माम्नायते तब न केवलमानुभावः ।
सर्वात्मनामधिपतेर विशेषतस्ते
देवव्रतादिषु गणाः कथितानुभावाः ॥ ९७॥
स्कन्द विनायकमुभावपि ते कुसारौ
सर्वैर्गुणैः पितरमेव निदर्शयन्तौ ।
सामोपगायमुपगायमृचां गणेषु
सम्प्रीणयन्ति शिव ! सामविधौ यथोक्तम् ॥ ९८॥
ब्रह्मादिकं सकलमन्यदपोध पुंसां
ध्यातव्यमेकमभिधाय शिवङ्करं त्वाम् ।
बक्तव्यमन्यदनपेक्ष्य विमोक्षहेतु-
माथर्वणः परिसमाप्तिमुवाचं वेदः ॥ ९९॥
यामामनन्ति तब शङ्कर ! धर्मदारान्
अध्वर्यवस्सहजतिद्वतया स्वसारम् ।
आथर्वणा यदुपसृष्टतया भवन्तं
ध्यातव्यमाहुरपहाय पितामहादीन् ॥ १००॥
एकश्श्रुतोऽसि परमेश्वर ! सद्वितीयं
मन्त्रा यया व्यपदिशति पुनः पुनत्स्वाम् ।
तस्याः प्रभावमतिवायनर्स शिवायाः
कात्स्येण वक्तुमनलं कमलासनोऽपि ॥ १०१॥
एकं मुर्ख त्रितयमीश्वर ! लोचनानां (लोचनं च)
चत्वारि दींषि विशदं वपुरद्भुतं ते ।
नित्यं तदेव भजतामुपकारहेतोः
नाना भवन्ति तनवस्तव दिव्यरूपाः ॥ १०२॥
कैरातमीश्वर ! पिनाकधरं वपुस्ते
कृत्तिं वसानमुमया सह धर्मदारैः ।
आराधयन्ति खलु पर्वणि साकमेघे
पुण्यैखियम्बक हविभिरनन्यभावाः ॥ १०३॥
मीढ्वांसमन्तविनिवेशितमीढुषीक-
मन्तर्जयन्तमजरामरविग्रहं त्वाम् ।
त्वद्वारपं दयितया सह देवसेन
क्षेत्रस्य नाथमपि नाथ ! यजन्ति धन्याः ॥ १०४॥
पत्न्या समं सह गणैस्सह वा सुताभ्यां
साधं तथा परिषदा विषमेक्षण ! त्वाम् ।
अध्यष्टमीतिथिनिशामुखमर्चयन्तः
पापं तरन्त्यपि जयन्ति महेश ! मृत्युम् ॥ १०५॥
मन्त्रा भवन्ति विरळा विबुधान्तराणां
सद्भाव एव शिव ! दर्शितशक्तयस्ते ।
त्वन्नामरूपगुणवर्णनलब्धवर्णा
मन्त्रा न शक्यमवगन्तुमियत्तया ते ॥ १०६॥
रुद्रानुवाकपठितानि परस्सहस्रं
नामानि दिव्यमपि रूपमनेकशस्ते ।
शक्यं गुणा गणयितुं गणना यदि स्यात्
भौमेषु पांसुषु विना तव देव ! मायाम् ॥ १०७॥
वेदस्स्वयं भवतु वा तत्र वा प्रणीति-
स्सर्वः प्रमाणमविहाय गृणाति लोकः ।
तत्तत्प्रवक्तृगुणदर्शिततारतम्य-
मन्यत्प्रमाणमविरोधिनि वेदवाक्ये ॥ १०८॥
बेदाः प्रमाणमिति सङ्गिरमाण एव
दिव्यं तवागममवैति जनः प्रमाणम् ।
त्वद्ध्यानवाक्यविषयौपयिकैः पदार्थे-
रामूर्द्धमाकलितविग्रहमाच मूलात् ॥ १०९॥
ध्यानं यथा भवति तद्विषयो यथा त्वं
यादृग्गुणश्च भगवन्नधिका रिवर्गः ।
सर्वाणि तानि भवदागमसंहिताभिः
कल्पैरिवाध्वरविधेरुपपादितानि ॥ ११०॥
अध्वानमध्वपतिमध्वनि तारतम्यं
श्रेष्ठाध्वपारगमनं च फलं ब्रवीति ।
मन्त्रोऽध्वनामिति महेश्वर ! गृह्यकारः
पिता कुमारमुपनीय वदन्हि वाक्यम् ॥ १११॥
कल्पाः प्रमाणसृषिभिर्यदि नः प्रणीताः
किन प्रमाणभूषिणा महता वहर्षे ! ।
शक्यं न वक्तुवपरिग्रहदूषितानि
तन्त्रान्तराणि भवता शिव । कर्तृमन्ति ॥ ११२॥
आचक्षते यमृषिमार्षविदस्तपोभि-
रेकैकमन्त्रदृशमीश्वर ! वेदराशेः ।
द्रष्टारमस्य निविलेन निजानुभावात्
अन्यानृषीनति महर्षिमतो विदुस्त्वाम् ॥ ११३॥
उक्त प्रधान पुरुषेश्वरमेव साङ्ख्यै-
राख्याय पाशपशुपत्यभिधानभेदात् ।
ज्ञेयं त्वदागमविदश्शिव ! सङ्गिरन्ता-
मेतावता किमिति नस्तदुपेक्षणीयम् ॥ ११४॥
प्रत्यक्षवेदविहितं प्रथितं पुराणैः
बोधायनेन मुनिना बहशः प्रणीतम् ।
सर्वार्थदर्शनपरैरपि गृह्यकारैः
यज्ञोपवीतमिव विस्मृतमर्चनन्ते ॥ ११५॥
वेदोपवृक्षक पुराणवचः प्रपञ्चै-
राघोष्यते विषमनेत्र । समर्चनन्ते ।
तन्त्रैरलं तदुपबृझकवेदमूलैः
वात्याहतं न हि मुखानिलसव्यपेक्षम् ॥ ११६॥
वेदार्थनिर्णयविधौ हि पुराणमङ्गं
निर्णीतवेदविषया स्मृतयो भवन्ति ।
आतश्रुतेरिव पुराणगिरस्सकाशे
नाले प्रकाशयितुमात्मबलावलेपम् ॥ ११७॥
मूलश्रुतेरनुपलम्भपराहतायाः
दूतीव या न भवति स्वरसात्प्रमाणम् ।
प्रत्यक्षवेदविहितं यजनं त्वदीयं
तस्या स्मृतेरपि किमिच्छति दृष्टिपातम् ॥ ११८॥
पौर्वाह्निकानुपदिश नियमान्यदेतत्
अभ्यर्चन मनुरखोचत देवतायाः ।
तल्कि पुनस्तव महत्यसि देवता त्वं
मृग्ये च काचशकले न मणेरुपेक्षा ॥ ११९॥
पत्न्या समं सह वृषेण वृषेन्द्रकेतो
युष्मद्वलीनुपदिशन स्त्रिदशावकाशे ।
अभ्यर्चनं भवनकल्पनपूर्वकं ते
बोधायनः कथितवानवयुत्य गृह्ये ॥ १२०॥
भावान्तराणि परिहाय महत्सु नित्यं
विज्ञानयोगविभवेषु महीयसे यत् ।
देवो महानमिहितोऽसि ततः कपर्दिन् ।
नाम त्वदीयमिदमाङ्गिरसा निराहुः ॥ १२१॥
द्वेधा तवार्चन विधिस्तरुणेन्दु मौके !
कामाय कश्चिदपरो दुरितक्षयाय ।
अप्यग्निहोत्रमुभयं वयमामनामः
स्वर्गाय यद्भवति यदुरितं क्षिणोति ॥ १२२॥
यद्ब्राह्मणस्त्वमसि नाकवतां निकाये
तुभ्यं निवेदितमभोज्यमिति स्मरन्ति ।
उच्छिष्टमीश्वर विशिष्टमपि द्विजानां
भूमौ निखेयमथत्राम्भसि मज्जनीयम् ॥ १२३॥
त्वं ब्राह्मणत्व दुपधावनमेव कार्यं
तद्ब्रह्मणैस्त्वदितरे न भवन्त्युपास्याः ।
न ब्राह्मणानवरवर्णनिषेवणेन
सम्भावयेम यदि नः प्रपदं प्रमाणम् ॥ १२४॥
उत्कर्षतः परिहरन्त्यपकर्षतो वा
का वासना भवति कस्य कृते न विद्मः ।
यद्दीक्षितस्य पतितस्य च तुल्यरूषं
प्रत्यादिशन्ति मुनयः कमनीयमन्त्रम् ॥ १२५॥
चण्डालचण्डिलचितानलशौण्डिकानां
गोब्राह्मणज्वलनदीक्षितयोषितां च ।
स्वर्शः कया भवति वासनया निषिद्धः
स्पृष्टेषु वा शिव ! कथा विहिता विशुद्धिः ॥ १२६॥
वर्ज्यान्नमाहुरपि दीक्षितसग्निकल्पं
भोज्यानमेवकृतराजपरिक्रयं
शङ्खास्थि पावनमपावनमस्थि नृणां तम् ।
इत्थं स्थिते वचनमत्र परायणन्त्रः ॥ १२७॥
अब्राह्मणैः क्षुदपधातकमस्तु भोज्यं
यद्देवतान्तरनिवेदितमुक्त मन्त्रम् ।
तद्ब्राह्मणैरपि किमीश्वर ! वैश्वदेवे
हार्यो बलिर्बलिमतामशितेन तेन ॥ १२८॥
देवान्तरैरशित मुक्त मर्नङ्गशासिन्
अश्नन्ति चेदनशितेन बलिं हरन्तः ।
आग्यैकदेशविहितो बलिरन्यथासन
नाल फलाय विपरीतफलाय तेषाम् ॥ १२९॥
ब्राह्मणमीश्वर ! पुरा हतवानसीति
भिक्षाटनं विमृशतः प्रतिभानमात्रम् ।
यत्पञ्चमे शिरसि पुष्पसमं निकृत्ते
जीवन्तमेनममितायुषमाहुराप्ताः ॥ १३०॥
आनाभिजानु वसितं बसनं न शाणं
पाणौ कपालशकलं न विलोकितं ते ।
नालंवते शवशिरस्तव केतुयष्टौ
भैक्षं न साम्प्तभवनं सकलं तदास्ताम् ॥ १३१॥
यत्कालभैरवकृतं पतनीयमेनः
किं तेन ते भवति भैक्षमथापि वृत्तिः ।
तन्मध्यपातिनि वधे विषुधान्तरस्य
निर्वेदमाचरसि किन्तु भवानजस्रम् ॥ १३२॥
यत्पाशुपत्यमवृणोदमरान्त रेभ्यो
भिक्षां भवानकृतयत्परमेश्वरोऽपि ।
चोद्यं तदेतदुभयं परिहर्तुकामो
मन्ये बृहस्पतिरपि प्रतिपत्तिशून्यः ॥ १३३॥
ब्रह्मासि विष्णुरसि सर्वमसीति यत्वा-
मास्तामुपासनविधिं कथयन्ति मूढाः ।
तद्देवतान्तरनिकर्षनिगृहनाय
मोहाय वा भवतु जल्पितमल्पबुद्धेः ॥ १३४॥
अद्वैतमागमशिरोभिरुपासनाया-
मुक्तं तवेति परमार्थतथा न वाच्यम् ।
भेदस्फुठो गरुडमान्त्रिकयोरळीकं
तादात्म्यभावनमथापि विष प्रमाष्ठि ॥ १३५॥
यद्ब्रह्मपञ्चमशिरोलवनापदानं
यद्ब्रह्मणा च हरिणा च विमार्गणं ते ।
यद्वा तयोर्जनयितारमधीमहे त्यां
तत्सर्वमीश्वर ! विमूढधियामसह्यम् ॥ १३६॥
सोमे लतात्मनि महेश्वर ! गौणवृत्या
विष्णोरवादि जनकत्वमृचा कयापि ।
त्वय्येव तद्भवितुमर्हति मुख्यवृत्या
नेन्द्रे न पङ्कजभवे नितरां मुरारौ ॥ १३७॥
अन्योन्यतो यदि भवेदहमीश्वरस्स्यां
त्वं चाहमीश्वर ! किमत्र नियामकं नः ।
को वा विपर्यसितुमर्हति वस्तुशक्तिं
तत्तत्स्वभावनियतां भवदाज्ञयापि ॥ १३८॥
एकं तवाप्यसुकरं तद्दाहरामो
जातेन भाव्यममरान्तरवस्वयापि ।
अभ्यर्थितोऽपि हि महेश ! महर्षिदारै-
रन्तर्हितस्त्वमसि गर्हितगर्भवासः ॥ १३९॥
इच्छावतीर्ण मुरशासनगर्भवासः
स्याच्चेदुदाहरणमेप विमर्शनीयः ।
गर्ने वसामि परिवेष्टय जरायुणाऽहं
मासान्बहूनिति महेश्वर ! कस्य कामः ॥ १४०॥
इच्छापि नूनमनुयाति पुरा कृतानि
कर्माणि शङ्कर । शुभाशुभलक्षणानि ।
इच्छावतारवचनानि तु भारतादौ
नारायणस्य गुणवादमुदाहरन्ति ॥ १४१॥
विधातारं कश्चिद्भजति भजते कञ्चन हरिं
सुरानन्यानन्ये जगति सफलास्सर्वविधयः ।
तथापि त्वद्भक्तेश्शिव ! शिव ! यदा चर्मवदिति
श्रुतो मन्त्रो देवान्तरभजनदैन्यं न सहते ॥ १४२॥
शशे भृङ्ग पुष्पं नभसि मृगतृष्णासु सलिलं
प्रसूतिर्वन्ध्यांया मनवधिमदायुस्तनुभृताम् ।
विमुक्तिर्वा देवान्तरभजनलभ्या पशुपते !
न शक्यं नस्शम्भावयितुमपि सर्वं विमृशताम् ॥ १४३॥
न भिन्ना नौरन्यानलमुदनिधे रुद्गमयितुं
शिला नैवोन्नेतुं प्रभवति शिलामन्तकरिपो ! ।
जनित्वा मृत्वा वा जगति परिवर्ती सुरगणः
कथं मे संसारभ्रमणभयभाजस्तु शरणम् ॥ १४४॥
देवतान्तरपुनः पुनर्भवं पश्यतः पशुपते ! भयं मम ।
क्रीडतोऽपि तव जन्म मास्मभूत् दीयतामयमपश्चिमो वरः ॥ १४५॥
वासनापरिगृहीत देवता वर्णनौपयिकसर्ववाङ्मयम् ।
धिग्धिगीश्वर! जडाशयं जनं तावकैरहमसानि सङ्गतः ॥ १४६॥
पांसुकेळिरपि यस्य शैशवे शैवपाशुपतपादपांसुमिः ।
स्तोत्रकर्मणि न तस्य मे गुणः तद्गुणोऽयमुपपद्यते त्वयि ॥ १४७॥
स्तोत्री यमर्थमुपपादितवानहं ते
भक्तति भक्तजनवत्सल ! भाषमाणः ।
आविर्धभूविथ शिखी शुचिनाम्वरेण
यज्ञोपवीतमुपवीय धृतत्रिपुण्ड्रः ॥ १४८॥
भक्तं भवानदित पार्श्वचरोपनीतं
मह्यं महेश्वर ! पयश्श्रपितं प्रसन्नम् ।
भुञ्जान एव तदहं झडितिप्रबुद्धः
स्वमस्समाधिरिति युक्तघियमभिन्नः ॥ १४९॥
स्तोत्रमेतदवधाय गृह्णतां अर्थमस्य निखिलेन जानताम् ।
ग्राह्यमन्यदपि नावशिष्यते ज्ञेयमन्यदपि वा न किश्चन ॥ १५०॥
पञ्चाशदुत्तरशता श्रुतिसूक्तिमाला
भोगावळी भुजगराजमनोहरा ते ।
वेदेषु भक्तिमपरागमवैदिकेपु
तन्त्रेषु भक्तिमतुलां त्वयि च प्रसूते ॥ १५१॥
॥ श्रीहरदत्तशिवाचार्यविरचिता श्रुतिसूक्तिमाला समाप्ता ॥
मिथ्या कल्पित भोगमोक्षदवचस्सन्तान सत्वापन
व्याग्राणामचिर प्रभावविबुध प्रेम्णा महेशद्विषाम् ।
मूर्ध्निष्वेक दुरात्मनां विरचिता निर्धातवाताः परैः
विद्वद्भिः परमेश्वर श्रुतिकथा तात्पर्य सङ्ग्राहकैः ।
तत्वप्रकाशिकाख्या व्याख्या शिवलिङ्ग भूभुजारचिता ।
प्रख्यात मेव भक्तिः पुरहरपादाम्बुजार्पिता सततम् ॥
अघटितघटनापटवे प्रकटित करुणाय गगन सिन्धु भृमे ।
वटतरुमूलस्थितये विघटित तमसे महेश्वराय नमः । ।
॥ सर्व साम्बशिवार्पणमस्तु ॥
॥ ॐ नमः शिर्वाय ॥
Proofread by Brahatha Mohan