श्रीहरदत्तचार्यवर्यपञ्चरत्नमालास्तुतिः
पशुपति परतन्त्रोद्धारणायैव नूनं
भृगुमुनिकृतशापाल्लुब्धमानुष्यभावः ।
हरिरिति बुधवर्याः यं वदन्दि प्रमाणैः
स जयति हरदाचार्यवर्यो महात्मा ॥ १॥
घटमुनितनयायाः पावने तीर्थसङ्गात्
अनलविनुतशम्भोः शोभिते लिङ्गमूर्त्या
समजनि नगरे यः कंसनाम्नि प्रसिद्धे
स जयति हरदत्ताचार्यवर्यो महात्मा ॥ २॥
परशिववरमूर्तिध्याननिष्ठान्तरङ्गः
परशिवशुभनामोच्चारणे सक्तजिह्वः ।
परशिवमततत्वस्थापने बद्धदीक्षः
स जयति हरदत्ताचायवर्यो महात्मा ॥ ३॥
परशिवशुभलीलासागरे मग्नचित्तः
परशिवमयबुद्धयाऽऽलोकिताऽशेषलोकः ।
परशिवपदसेवाकर्मभिः यः प्रजुष्टः
स जयति हरदत्ताचार्यवर्यो महात्मा ॥ ४॥
निगमशिरशिसंस्थः शम्भुरेव प्रकृष्टः
इति हरिपुरतो यः तप्तपीठ स्थितस्सन् ।
श्रुर्तिवचन सुमालाग्रन्थमूलं बभाषे
स जयति हरदत्ताचार्यवर्यो महात्मा ॥ ५॥
इहपरसुखद श्री कामकोटीगुरूणां
चरणकमलरेणु ध्यानचित्तवक्लुप्ता ।
गुरुवरहदत्ताचार्यबक्षः प्रदेशे
विलसतु सततं श्री मालिनीवृत्तमाला ॥ ६॥
इति श्री मल्लादि दक्षिणामूर्तिविरचिता श्री हरदत्ताचार्यवर्य
पञ्चरत्नमालास्तुतिः सम्पूर्णा ॥
॥ शुभम् ॥
Proofread by Brahatha Mohan