श्रीहरदत्तगुरुराजदशकम्

श्रीहरदत्तगुरुराजदशकम्

श्रीमत्कंसपुरे सुधीविलसिते श्री वैष्णवानां कुले श्रीमत्काश्यपगोत्र आविरभवत् श्री वासुदेवात्मजः । शैवं स्थापयितुं श्रुतिस्मृतिपुराणन्याय सञ्चारणैः यः सोऽयं हरदत्त शैवगुरुराट् देयादभीष्टानि नः ॥ १॥ भस्मोद्धलन ईशनेत्रवहने पञ्चाक्षरीसञ्जपे लिङ्गाराधन एव बुद्धिमभजत् पित्रानुशिष्टोऽपि यः । भुक्तं शैषशिशोर्न देयमिति पित्राज्ञापरो निर्गतः यः सोऽयं हरदत्तशैवगुरुराट् देयादभीष्टानि नः ॥ २॥ विष्णुब्रह्मविमृग्यमाणपदशीर्षाशेषभूताधिप पित्रा त्यक्तमिमं बालं करुणया प्रेक्षस्व सोमेश्वर । इत्यार्तं शिवपूजने कृतधियं स्वेनैव नाम्नाङ्कितं चक्रे यं हरदत्तशैवगुरुराट् देयादमीष्टानि नः ॥ ३॥ तप्तायस्त्रिपदे महोपनिषदुक्तोपासनोपास्यतां गायत्रीप्रतिपाद्यतां क्रतुनमश्शेषित्वमुच्चैर्जगौ । पाङ्गुण्यं परशैवलक्षणमित्ति श्री वैष्णवानां पुरः यः सोऽयं हरदत्तशवगुरुराष्ट्र देयादभीष्टानि नः ॥ ४॥ पाण्ड्यराटूशिवलिङ्गभूपतिगुरुर्ब्राह्मण मार्गेण सद् वाधूलान्वयसुप्रतीकतनया मुद्रा मेजे रतिम् । पुत्रानष्ट सुशीलकन्यकारी प्राप्यार्थवान् गृह्यभूत् यः सोऽयं हरदत्तशैवगुरुराट् देयादभीष्टानि नः ॥ ५॥ तृष्णापीडितकुक्कुराय महते शङ्खस्थनीरन्ददौ भूपालप्रहित हुतं हतवहे क्षौमं ददर्शश्वरे । गोहत्या विनिमोचकं शिवमनुं दूर्वाद नन्दीमुखात् यः प्रत्याययदेष शैवगुरुराट् देयादभीष्टानि नः ॥ ६॥ भूपप्रेषितशालिभूतविलयो ब्रीह्यादगोवारणात् पत्नीखगहतश्वदेवभवनप्राप्तिर्विभूतेर्बलात् । ईशादिष्टजपः श्वगोहननयोरेकान्त निरकः एवं यः समदर्शयद्भुवि नृणां देयादभीष्टानि नः ॥ ७॥ कावेरीसिकतासु लिङ्गमतिकृञ्चण्डालपादाश्रितः सप्तक्षेत्रपदातिचोलनृपतेः कैलाससम्प्रायकः । अनीशस्य रथोत्सवे सुतगणो यस्यानुभावादलं कारन्प्राप सुगोष्पदात् शिवगुरुर्देयादभीष्टानि नः ॥ ८॥ पुष्ये लिङ्गसमीक्षणं ह्यघहरं पश्चाक्षरो मन्त्रराट् मार्गेबन्धुरुमापतिः ऋणहरो जन्मान्तरे ह्यात्मभूः । पङ्गुं प्रापयते सदाशिवपदं गङ्गाधरं भक्तिरित्याद्यं यः प्रकटीचकार गुरुराट् देयादभीष्टानि नः ॥ ९॥ सप्तस्थानसुयात्रिकः प्रतिदिनं चाग्नीशसंसेवकः सर्वैग्रम जनैर्विमानवरमारुह्याप कैलासकम् । झुण्डादण्डसमुद्धृतां प्रतिदिनं सम्मोदकाराधिकां प्राप्तां पूर्वमपश्यदेष गुरुराष्ट्र देयादभीष्टानि नः ॥ १०॥ कै बा शि रचितमेतत् दशकं गुरुराजवर्यस्य । दशमीन्दशां व्यपोछेत् सौख्यं दद्यात् प्रवक्तृणाम् ॥ ११॥ दशक्तिकुसुममाला श्रुति सूक्तिमालाविवरणावसरे । अर्पिता गुरुचरणयोः जीयादम्लान गन्धपत्राड्या ॥ १२॥ इति ब्रह्मश्री के. बालसुब्रह्मण्य शास्त्रिणा विरचितं श्री हरदत्तगुरुराज दशकं सम्पूर्णम् ॥ ॥ शुभम् ॥ ॐ Proofread by Brahatha Mohan
% Text title            : Shri Haradattagururaja Dashakam
% File name             : haradattagururAjadashakam.itx
% itxtitle              : haradattagururAjadashakam (bAlasubrahmaNya shAstriNA virachitaM)
% engtitle              : haradattagururAjadashakam
% Category              : deities_misc, gurudev, dashaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Balasubrahmanya Shastri
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Brahatha Mohan
% Indexextra            : (Scan, Info 1, 2, 3)
% Latest update         : July 9, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org